भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 136, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 136

१२० नैषधचरितम्। [ द्वितीयः लेकर, विहार करने में असमर्थ हो, सैकड़ों (बहुत सी) अप्सराएँ, यह एकदम सत्य बात है, कि धरती पर आ, दमयन्ती की सखियाँ होकर, उस नगरी में रहती थीं ॥ स्थितिशालि-समस्तवर्णतां न कथं चित्रमयी बिभर्तु या । स्वरभेदमुपैतु या कथं कलितानल्पमुखारवा न वा ॥६८॥ स्थितीति । चित्रमयी = आश्चर्यप्रचुरा, आलेख्यमयी च । 'आले- ख्याश्चर्ययोश्चित्रम्' इत्यमरः । या = नगरी [ स्थिति-शालि-समस्तवर्णतां ] स्थित्या मर्यादया स्थायित्वेन च, शालन्ते ये ते समस्ता वर्णा ब्राह्मणायः, शुक्लादयश्च, यस्याः तस्या भावं तत्ताम् । 'वर्णो द्विजादौ शुक्लादौ' इत्यमरः । कथं न बिभर्तुः = बिभर्त्ये- वेत्यर्थः । [ कलितानल्पमुखारवा ] कलितः प्राप्तः, अनल्पानां बहूनां, मुखाना- मारवो बहुमुखानां ब्रह्ममुखानां षण्मुखानां च आरवः शब्दो यस्यः सा । या=पुरी [ स्वरभेदं ] स्वरस्य ध्वनेर्भेदं नानात्वं स्वः स्वर्गाद्भेदं च कथं वा नोपैतु, उपै- त्वेवेत्यर्थः । उभयत्रापि सति कारणे कार्यं भवेदेवेति भावः । अत्र केवलप्रकृत- श्लेषालङ्कारः । उभयोरप्यर्थयोः प्रकृतत्वात् . किन्तु एकनाले फलद्वयवदेकस्मिन्नेव शब्दे अर्थद्वयप्रतीतेरर्थश्लेषः प्रथमार्थे; द्वितीये तु जतुकाष्ठवदेकवद्भूतशब्दद्वयप्रतीतेः शब्दश्लेषः ॥ ६८ ॥ चित्रमयी ( आश्चर्यमयी; तस्वीर वाली ) वह नगरी--स्थिति-शाली ( मर्यादा का पालन करनेवाले; दीर्घकाल तक ठहरनेवाले ) समस्त वर्णों ( ब्राह्मण-क्षत्रिय- वैश्य-शूद्रों; सफेद-लाल-पीले-काले रंगों ) के भाव को क्यों न धारण करे ? और अनल्प-मुखारव होने के कारण ( बहुत से मनुष्यों पशुओं आदि के मुखों से शब्द होने के कारण; बहुत से ब्राह्मणों के मुखों से वेदध्वनि होने के कारण ) वह नगरी--स्वरभेद ( कण्ठध्वनि की विषमता; उदात्त आदि स्वरों की विषमता ) को क्यों न प्राप्त करे ? ॥ ६८ ॥ स्वरुचारुणया पताकया दिनमर्केण समीयुषोष्टृपः । लिलिहुर्बहुधा सुधाकरं निशि माणिक्यमया यदाल्याः ॥६९॥ स्वरुचेति । माणिक्यमयाः = पद्मरागमयाः, यदालयाः = यस्यां नगर्यां गृहाः, दिनं = दिने । अत्यन्तसंयोगे द्वितीया । समीयुषा = सङ्गतेन, अर्केण हेतुना । उष्ट्रपः = अर्कसम्पर्कादत्युष्णतया पिपासव इवोष्ट्राः, निशि स्वरुचा = स्वप्रभया, अरुणया = आरुण्यं प्राप्तेयेति तद्गुणालङ्कारः । 'तद्गुणः स्वगुणत्यागादन्यो-