नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 137, कुल 226 में से
संदर्भ में पढ़ेंसर्गः २ ] जीवातु-मदयन्तिकासहितम् १२१ कृष्टगुणावृत्तिः' इति लक्षणात् । पताकया रसनामानयेति भावः । सुधाकरं बहुधा लिलिहुः = आस्वादयामासुरित्यर्थः । अह्नि सन्तप्ता निशि शीतोपचारं कुर्व- न्तीति भावः । अत्र गृहाणां सन्तापनिमित्तः सुधाकरलेहनात्मकशीतोपचारः उत्प्रे- क्ष्यते । सा चोक्ततद्गुणोत्प्रेति सङ्करः । व्यञ्जकाप्रयोगाद्गम्या ॥ ९६ ॥ उस नगरी के मानिक के बने हुए घर—दिन भर अपने सामने तपने वाले सूर्य के कारण प्यासे होकर, रात्रि के समय अपनी (मानिक की) चमक से लाल रंग की बनी हुई पताका के द्वारा, चन्द्रमा की सुधा का बार-बार आस्वादन करते थे ॥ ९६ ॥ लिलिहे स्वरुचा पताकया निशि जिह्वानिभया सुधाकरम् । श्रितमर्ककरैः पिपासु यन्नृपसद्मामलपद्मरागजम् ॥१००॥ अथानयैव भङ्ग्या राजभवनं वर्णयति--लिलिह इति । अमलपद्मरागजं [ यन्नृपसद्म-स्वरुचा ] यस्यां नगर्यां नृपसद्म राजभवनं, अर्ककरैः श्रितमति- सामीप्यादभिव्याप्तं । श्रयतेः कर्मणि क्तः । श्रिणातेः पक्कार्थादिति केचित् । तदा ह्रस्वश्चिन्त्यः, प्रकृत्यन्तरं मृग्यमित्यास्तां तत् । अत एव पिपासु = तृषितं सत् । पिवतेः सन्नन्तादुप्रत्ययः । स्वकीया रुग्यस्यां तया स्वरुचा, तद्भूषितेत्यर्थः । अत एव जिह्वानिभया पताकया निशि सुधाकरं लिलिहे = आस्वादयामास । लिहः कर्त्तरि लिट् । स्वरितत्त्वादात्मनेपदम्, अलङ्कारश्च पूर्ववत् जिह्वानिभयेत्युपमा सङ्करश्च विशेषः ॥ १०० ॥ सूर्य की किरणों के सम्पर्क से प्यासे की भाँति स्थित, निर्मल पद्मराग मणि के बने हुए जिस नगरी के राजमहल—रात्रि के समय अपनी (मणि की) प्रभा से लाल रंग की बनी हुई, जिह्वा-तुल्य पताका के द्वारा, चन्द्रमा के अमृत का पान करते थे ॥ १०० ॥ अमृतद्युतिलक्ष्ण पीतया मिलितं यद्वलभीपताकया । वलयायितशेषशायिनः सखितामादित पीतवाससः ॥१०१॥ अमृतेति । पीतया = पीतवर्णया, [ यद्वलभीपताकया ] यस्या नगर्याः, वलभ्याम् । ‘कूटागारं तु वलभिः' इत्यमरः । पताकया मिलितं = सामीप्यात् सङ्गतम्, अमृतद्युतिलक्ष्ण = चन्द्रलाञ्छनं [वलयायित-शेषशायिनः] वलयायिते वलयी-