भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 131, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 131

सर्गः २ ] जीवातु-मदयन्तिकासहितम् ११५ बहुकम्बुमणिर्वराटिकागण-नाटत्-कर-कर्कटोत्करः । हिमवालुकयाच्छवालुकः पटु दध्वान यदापणार्णवः ॥८८॥ बह्विति । [ बहुकम्बुमणिः ] बहवः कम्बवः शङ्खा मणयश्च यस्मिन् सः । [ वराटिकागण-नाटत्-कर-कर्कटोत्करः ] वराटिकागणनाय कपर्दिकासंख्यानाय, अटन्तः तिर्यक् प्रचरन्तः, कराः पाणय एव कर्कटोत्कराः कुलीरसंघाः, यस्मिन् सः । हिमवालुकया = कर्पूरेण, अच्छवालुकः = स्वच्छसिकतः, [ यदापणार्णवः ] यस्या पुरः आपणो विपणिरेवार्णवः पटु=धीरं दध्वान=ननाद । 'कपर्दो वराटिका' इति हलायुधः । 'शङ्खः स्यात् कम्बुरस्त्रियाम्' इत्यमरः । 'सिताभ्रो हिमवालुका,' 'स्यात्कुलीरः कर्कटकः' इति चामरः ॥८८॥ बहुत शंख तथा ( वहाँ उत्पन्न होनेवाली एवं विक्रय के निमित्त लायी जाने वाली मुक्ता, प्रवाल आदि ) मणियोंवाला, कौड़ियों के गिनने में लोगों के हिलने वाले हाथ ( की अंगुलि ) रूप केकड़े के समूहवाला तथा कपूररूप निर्मल बालू वाला उस नगरी का हाटरूपी सागर खूब आवाज कर रहा था ॥८८॥ यदगार-घटाट्ट-कुट्टिम-स्रवदिन्दूपल-तुन्दिलापया । मुमुचे न पतिव्रतौचिती प्रतिचन्द्रोदयमभ्रगङ्गया ॥८९॥ यदिति । [ यदगार-घटाट्ट-कुट्टिम-स्रवदिन्दूपल-तुन्दिलापया ] यस्याः नगर्याः अगारघटासु गृहपङ्क्तिषु, अट्टानामहट्टालिकानां, कुट्टिमेषु निबद्धभूमिषु । 'कुट्टिमोऽस्त्री निबद्धा भूः' इत्यमरः । स्रवद्भिरिन्दुसम्पर्कात् स्यन्दमानैरिन्दूपलैश्चन्द्र- कान्तैः हेतुभिः, तुन्दिलाः प्रवृद्धा आपो यस्याः तया । 'तुन्दादिभ्य इलच्' 'ऋक्पूः' इत्यादिना समासान्तः । अभ्रगङ्गया = मन्दाकिन्या । 'मन्दाकिनी वियद्गङ्गा' इत्यमरः । चन्द्रोदये चन्द्रोदये प्रतिचन्द्रोदयम् । वीप्सायामव्ययीभावः । [ पति- व्रतौचिती ] पतिव्रतानामौचिती औचित्यम् । 'ब्राह्मणादित्वात् गुणवचन' इत्यादिना ष्यञ्प्रत्ययः । 'षिद्गौरादिभ्यश्च' इति ङीष् । स च 'मातरि षिच्च इति षित्वादेव सिद्धे मातामहशब्दस्य गौरादिपाठेनानित्यत्वज्ञापनाद्वैकल्पिकः । अत एव वामनः 'ष्यञः पित्र्कार्य्यं बहुलम्' इति स्त्रीनपुंसकयोर्भाविक्रियोः ष्यञ्, क्वचिच्च वुञ् । 'औचित्यमौचिती मैत्र्यं मैत्री वुञ् प्रागुदाहृतम्' इत्यमरश्च । न मुमुचे = न तत्यजे । भर्तुः समुद्रस्य चन्द्रोदये वृद्धिदर्शनात्तस्या अपि तथा वृद्धिरुचिता । "आर्त्तार्त्ते मुदिते हृष्टा प्रोषिते मलिना कृशा । मृते हि म्रियते या सा साध्वी ज्ञेया पतिव्रता॥" इति

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक) · पृष्ठ 131, कुल 226 में से · BharatKosha