नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 130, कुल 226 में से
संदर्भ में पढ़ें११३] नैषधचरितम् । [द्वितीय ... गताम् । घनरलकवाटपक्षतिः परिरभ्यानुनयन्नुवास याम् ॥८६॥ वरण इति । कनकस्य सम्बन्धी वरणः=तद्विकारः प्राकारः स एव अमराद्रिः = मेरुः, यां=नगरीमेव मानिनीं=कोपसम्पन्नाम् अत एव अङ्कात्=निजोत्सङ्गात् आगतां भूलोकं प्राप्तां दिवम् = अमरावतीं [ घन-रत्न-कवाट-पक्षतिः ] घने निविडे रत्नानां कवाटे रत्नमयकवाटे एव पक्षती पक्षमूले यस्य स सन् परिरभ्य = उपगूह्य मेरोः पक्षवत्त्वात् पक्षतिरूपत्वम् अनुनयन् = अनुसरन् अनुवर्त्तमानः उवास । कामिनः प्रणयकुपितां प्रेयसीमाप्रसादमन्वगच्छन्तीति भावः । रूपकालङ्कारः स्फुट एव । तेन चेयं नगरी कुतश्चित् कारणादागता द्यौरेव वरणश्च स्वर्णाद्रिरेवेत्यु- त्प्रेक्षा व्यज्यते ॥८६॥ घने रत्न कपाटरूप दो पंखों वाला, सोने का परकोटावाला (देवपर्वत) सुमेरु- मानिनी ( प्रणयकुपिता; सम्मानयोग्या ) होने के कारण, अपनी गोद छोड़कर, ( भूतल पर ) आयी हुई, उस स्वर्ग-भू-तुल्या कुण्डिन नगरी (नायिका) का—मानो आवेष्टन ( घेरा, आलिङ्गन ) द्वारा, प्रसन्न ( अनुनय-विनय ) करता हुआ, निवास कर रहा था ॥ ८६ ॥ अनलैः परिवेषमेत्य या ज्वलदर्कपल-वप्र-जन्मभिः । उदय लयमन्तरा रवेरवहदद्वाणपुरीपरार्द्धयताम् ॥८७॥ अनलैरिति । या= नगरी रवेरुदयं लयम् = अस्तमयं चान्तरा=तयो- र्मध्यकाल इत्यर्थः । 'अन्तराऽन्तरेण युक्ते' इति द्वितीया । [ ज्वलदर्कपलो वप्र- जन्मभिः ] ज्वलतामर्कशुसम्पर्कात् प्रज्वलताम्, अर्कोफलानां वप्राइजन्म येषां तैः सूर्यकान्तैः प्राकारजन्यैः, अनलैः, परिवेषम् एत्य = परिवेष्टनं प्राप्य, [ बाणपुरी- परार्द्धयताम् ] बाणपुर्य्याः बाणासुरनगर्य्याः शोणितपुरस्य, परार्द्धयतां श्रेष्ठताम्, अवहत् । अत्रान्यधर्मस्यान्येन सम्बन्धासम्भवात् । तादृशीं परार्द्धयतामिति सादृश्या'- क्षेपान्निदर्शनालङ्कारः ॥८७॥ यह नगरी, सूर्य के उदय से लेकर अस्त तक (अर्थात् दिन भर), जलती हुई सूर्यकान्तमणि के बने हुए परकोटे से, ( सूर्यकिरणों के सम्पर्क से ) उत्पन्न हुई आग के परिवेष ( चारो ओर के घेरे ) को पाकर, बाणासुर-नगरी शोणितपुरी के तुल्य श्रेष्ठ ( अर्थात् प्रकाशमान ) थी ॥८७॥