नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 132, कुल 226 में से
संदर्भ में पढ़ेंस्मरणाच्चन्द्रोदये तस्या वृद्धिरिति दर्शनात्तत्सम्बन्धेऽपि सम्ब- न्धोक्तेरतिशयोक्तिः । तथा च यद्गाराणामतीन्दुमण्डलमौन्नत्यं गम्यते । तदुत्था- पिता चेयमस्याः पातिव्रत्यधर्मापरित्यागोत्प्रेक्षेति सङ्करः । सा च व्यञ्जकाप्रयो- गात् गम्या ॥ ८६ ॥ उस नगरी के भवनों की ऊँची अटारियों के फर्श में लगी हुई चन्द्रकान्त मणियों में से बहुत-से झरते हुए जल के कारण, वृद्धि को प्राप्त हुई आकाश-गङ्गा (मन्दा- किनी)—प्रत्येक चन्द्रोदय के समय, अपना पातिव्रत धर्म नहीं छोड़ती थी [जिस प्रकार चन्द्रोदय के समय सरित्पति सागर का जल बढ़ता है, उसी प्रकार उसकी पतिव्रता पत्नी आकाशगङ्गा का जल भी प्रत्येक चन्द्रोदय के समय चन्द्रकान्त के जल से बढ़ता था ] ॥ ८६ ॥ रुच्योऽस्तमितस्य भास्वतः स्खलिता यत्र निरालयाः खलु । अनुसायमसुर्विलेपनापण-कश्मीरज-पण्यवीथयः ॥९०॥ रुच्य इति । यत्र = नगर्याम्, अनुसायं = प्रतिसायम् । वीप्सायामव्ययीभावः । [ विलेपनापण-कश्मीरज-पण्यवीथयः ] विलेपनापणेषु सुगन्धद्रव्यनिषद्यासु, कश्मीरजानि कुङ्कुमान्येव, पण्यानि पणनीयद्रव्याणि, तेषां वीथयः श्रेणयः, अस्त- मितस्य = अस्तङ्गतस्य, भास्वतः सम्बन्धिन्यः स्खलिताः = अस्तमयक्षोभात् च्युताः । अत एव निरालयाः = निराश्रया रुच्यः = प्रभाः अभुः खलु । कथञ्चित्प्रच्युताः सायन्तनाकर्त्विष इव भान्ति स्मेत्यर्थः । कुंकुमराशीनां तदा तत् सावर्ण्यदियमुत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या भातेर्लुङि, झेर्जुसादेशः ॥६०॥ उस नगरी में प्रत्येक सन्ध्या समय, अङ्गराग द्रव्यों की दुकानों में बिकनेवाले कुंकुम रूप (लाल रंग वाले) पदार्थों की गलियाँ—ऐसी चमक रही थीं, मानो अस्त होते हुए सूर्य से गिरी हुई आधारहीन किरण हों ॥ ६० ॥ बिततं वणिजाऽपणेऽखिलं पणितुं यत्र जनेन वीक्ष्यते । मुनिनेव मृकण्डुसूनुना जगतां वस्तु पुरोदरे हरेः ॥९१॥ विततमिति । यत्र = नगर्यां, वणिजा = वणिग्जनेन, पणितुं = व्यवहर्तुं आपणे = पण्यवीथ्यां, विततं = प्रसारितम्, अखिलं जगतां लोके स्थितं वस्तु = पदार्थजातं, पुरोदरे = अग्रे स्थिते उदरे, मृकण्डुसूनुना मुनिना = मार्क-