नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 133, कुल 226 में से
संदर्भ में पढ़ेंसर्गः २ ] जीवातु-मदयन्तिकासहितम् ११७ ण्डेयेन इव जनेन = लोकेन वीक्ष्यते; —विष्णूदरमिव समस्तवस्वाकरोऽयमवभासत इत्यर्थः । पुरा किल मार्कण्डेयो हरेरुदरं प्रविश्य विश्वं तत्राद्राक्षीदिति कथयन्ति ॥६१॥ उस नगरी में व्यापारियों द्वारा, बेंचने के लिए फैलायी गयी समस्त संसार की (प्राप्य) वस्तुएँ, इस भाँति दीख पड़ती थीं, जैसे मार्कण्डेय मुनि ने--पूर्वकाल में, बालमुकुन्द भगवान् विष्णु के उदर में-अखिल भूमण्डल के पदार्थों का दर्शन किया था ॥ ६१ ॥ सममेणमदैर्यदापणे तुलयन् सौरभलोभनिश्चलम् । पणिता न जनारवैरवैदपि कूजन्तमलिं मलीमसम् ॥६२॥ सममिति । [ यदापणे ] यस्या नगर्या आपणे, सौरभलोभनिश्चलं = गन्धग्रहणनिष्पन्दं, ततः क्रियया दुर्बोधमित्यर्थः । मलीमस = मलिनं, सर्वाङ्गनील- मित्यर्थः । अन्यथा पीतमध्यस्यालेः पीतिम्नैव व्यवच्छेदात् अतो गुणतोऽपि दुर्ग्रह- मित्यर्थः । 'ज्योत्स्ना तमिस्रा' इत्यादिना निपातः । अलिं = भृङ्गं एणमदैः समं = कस्तूरीभिः सह, तुलयन् = तोलयन् पणिता = विक्रेता कूजन्तमपि [जनारवैः] जनानामारवैः कलकलैः, न अवैत् = शब्दतोऽपि न ज्ञातवान् इत्यर्थः । इह निश्च- लस्यालेः गुञ्जनं कविना प्रौढवादेनोक्तमित्यनुसन्धेयम् । अत्रालेर्नैल्यादेणमदोक्तेः सामान्यालङ्कारः । 'सामान्यं गुणसामान्ये यत्र वस्त्वन्तरैकता' इति लक्षणात् । तेन भ्रान्तिमदलङ्कारो व्यज्यते ॥ ६२ ॥ उस नगरी के हाटों में बेंचनेवाले दुकानदार-सुगन्धि के लोभ से कस्तूरी पर, निश्चलरूप से बैठे हुए, कस्तूरी के समान काले रंग वाले तथा गुञ्जार करते हुए, भौरों को भी-कस्तूरी के साथ तौलते समय जनता के कोलाहल के कारण, जान नहीं पाते (कि ये वस्तुतः भौंरें हैं, कस्तूरी नहीं ) ॥ ६२ ॥ रविकान्तमयेन सेतुना सकलाहज्वलनाहितोष्मणा । शिशिरे निशि गच्छतां पुरा चरणौ यत्र दुनोति नो हिमम् ॥६३॥ रविकान्तेति । यत्र = नगर्यां सकलाहः = कृत्स्नमहः । 'राजाः सखिभ्यष्टच्' । 'रात्राहाहाः पुंसि' इति पुंलिङ्गता । अत्यन्तसंयोगे द्वितीया । योगविभागात्समासः । [ ज्वलनाहितोष्मणा ] ज्वलनेन तपनकराभिघातात्प्रज्वलनेन आहितोष्मणा जनि- तोष्मणा जनितोष्णेन, रविकान्तमयेन सेतुना = सेतुसदृशेनाध्वना, सूर्यकान्त- कुट्टिमाध्वनेत्यर्थः । गच्छतां = सञ्चरतां चरणौ=चरणानित्यर्थः । स्तनादीनां द्वित्व-