नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 139, कुल 226 में से
संदर्भ में पढ़ेंसर्गः २ ] जीवातु-मदयन्तिकासहितम् १२३ Digitized by Sarayu Trust Foundation and eGangotri यदतिविमल-नील-वेश्म-रश्मि-भ्रमरितभाः शुचि-सौध-वस्त्र-वल्लिः । अलभत शमनस्वसुः शिशुत्वं दिवसकराङ्कतले चला लुठन्ती ॥१०३॥ यदिति । [यदतिविमल-नील-वेश्म-रश्मि-भ्रमरितभाः] यस्या नगर्याः, अतिविमलैर्नीलवेश्मनः इन्द्रनीलनिकेतनस्य रश्मिभिः, भ्रमरिता भ्रमरीकृता, भ्रमर- शब्दात्तत्करोतीति ण्यन्तात् कर्मणि क्तः । वल्ल्याश्च भ्रमरैर्भाव्यमिति भावः । तथाभूता भाः छाया यस्याः सा, श्यामीकृतप्रभेत्यर्थः । अत एव तद्गुणालङ्कारः [ शुचि- सौध-वस्त्र-वल्लिः ] शुचिः स्वभावतः शुभ्रा, सौधस्य वस्त्रमेव, वल्लिः, पताके- त्यर्थः । रूपकसमासः । भ्रमरितभा इति रूपकादेव साधकात् [दिवस-कराङ्कतले] दिवसकरस्य सूर्यस्य, अङ्कतले समीपदेशे उत्सङ्गप्रदेशे च, चला = चपला, लुठन्ती = परिवर्त्तमाना सती, शमनस्वसुः = यमुनायाः, शिशुत्वं=शैशवम्, अलभत = बाल्यमुनेव बभावित्यर्थः । बालिकाश्च पितुरङ्के लुठन्तीति भावः । अत्रान्यस्य शैशवेना- न्यसम्बन्धासम्भवेऽपि तत्सदृशमिति सादृश्याक्षेपान्निदर्शना पूर्वोक्ततद्गुणरूपकाभ्यां सङ्कीर्णा ॥ १०३ ॥ उस नगरी के अत्यन्त निर्मल नीलम मणि के बने हुए मकानों की किरणों से, भौंरे के समान नीले रंग की प्रभावाली, राजभवनों पर लता के समान लटकती हुई सफेद पताकाओं की पंक्ति—सूर्य के अङ्कतल ( समीप नीचे की ओर, गोद में) चपल होकर, खेलती हुई ( विलीयमान )—यमभगिनी यमुना के (अल्हड़) शैशव का अनुकरण कर रही थी ॥ १०३ ॥ स्व-प्राणेश्वर-नर्म-हर्म्य-कटकातिथ्य-महाद्योत्सुकं पाथोदं निज-केलि-सौध-शिखरादारुह्य यत्कामिनी । साक्षादप्सरसो विमान-कलित-व्योमान एवाभव- न्नद्य प्राप निमेषमभ्रतरसा यान्ती रसाद्ध्वनि ॥१०४॥ स्वेति । यत्कामिनी = यन्नगराङ्गना, [ विमान-कलित-व्योमानः ] विमा- नेन कलितं क्रान्तं, व्योम याभिस्ताः, साक्षाद् अप्सरसः=दिव्याङ्गना एवाभवन् । 'स्त्रियां बहुष्वप्सरसः' इत्यभिधानादेकत्वेऽपि बहुवचनप्रयोगः कृतः । यत् = यस्मात्, निजकेलिसौधशिखरात् अपादानात् [ स्व-प्राणेश्वर-नर्म-हर्म्य-कटकातिथ्य- प्रहाय ] स्वप्राणेश्वरस्य नर्महर्म्यं क्रीडासौधं, तस्य कटकान्नितम्बादातिथ्यस्य ग्रहाय स्वीकाराय, तत्र विश्रमार्थमित्यर्थः । उत्सुकम् = उद्युक्तं, गच्छन्तमित्यर्थः । पाथोदं