नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 63, कुल 226 में से
संदर्भ में पढ़ेंसर्गः १ ] जीवातु-मदयन्तिकासहितम् । ४७ Digitized by Sarayu Trust Foundation and eGangotri = रक्तदृष्टीन् । एकत्र स्वभावतोऽन्यत्र रोषाच्चेति द्रष्टव्यं, पिकान् = कोकिलान्, द्विजान् = पक्षिणो, ब्राह्मणांश्च ; स = नलः खेदमैक्षिष्ट स्वस्यापि उक्तशङ्क्येति भावः ॥ ६० ॥ उन्होंने लाल आँख वाली कोयल चिड़ियों को विषाद के साथ देखा-जो पथिकों (वियोगियों) को मानों यों शाप दे रही थीं कि अरे ! तुम दिन पर दिन दुबले होते जाओ, बार-बार मूर्च्छित होते रहो और मरते रहो ॥ ६० ॥ अळिस्रजा कुङ्मलमुच्चशेखरं निपीय चाम्पेयमधीरया दृशा । स धूमकेतुं विपदे वियोगिनामुदीतमातङ्कितवानशङ्कत ॥ ६१ ॥ अलिस्रजेति । अलिस्रजा = भ्रमरपङ्क्त्या, उच्चशेखरम् = उन्नतशिरो- भूषणं, अलिमलिनाङ्कमित्यर्थः । 'शिखास्वापीडशेखरौ'इत्यमरः । चाम्पेयं = चम्पक- विकारं, कुङ्मलं । 'अथ चाम्पेयः चम्पको हेमपुष्पकः'इत्यमरः । नन्वयुक्तमिदं, 'न षट्पदो गन्धफलीमजिघ्रत्'इत्यादौः अलीनां चम्पकस्पर्शाभावप्रसिद्धेरिति चेत् नैवं; किन्तु स्पृष्टेयं तावतैवास्पर्शोक्तिः क्वचित् केषाञ्चित् उक्तिपरिहारः । अथ वा चाम्पेयं = नागकेसरं । 'चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः'इत्यमरः । अधी- रया दृशा निपीय = विप्लवदृष्ट्या गाढं दृष्ट्वा आशङ्कितवान् किञ्चिदनिष्टमुत्प्रेक्षि- तवान् स = नलः । 'अनिष्टाभ्यागमोत्प्रेक्षां शङ्कामाचक्षते बुधाः' इति लक्षणात् । वियोगिनां विपदे उदीतम् = उत्थितं धूमकेतुम् अशङ्कत = अतर्कयत् इत्यु- त्प्रेक्षालङ्कारः ॥ ६१ ॥ भौरों की पंक्ति से उच्च शेखर वाली चम्पा की कली (अथवा नागकेसर के फूल) को अधीरदृष्टि से खूब गौर के साथ देख कर, नल ने आशंका की कि यह वियोगियों के विनाश के लिए उदय हुआ कोई धूमकेतु है ॥ ६१ ॥ गलत्पराग भ्रमद्भङ्गिभिः पतत् प्रसक्तभृङ्गावलि नागकेशरम् । स मारनाराचनिघर्षजस्खलज्ज्वलत्कणं शाणमिव व्यलोकयत् ॥ ६२ ॥ गलदिति । स = नलो गलत्परागं = निर्यद्रजस्कं भ्रमद्भङ्गिभिः = भ्रमण- प्रकारैरुपलक्षितं पतत् = भ्रंश्यत् प्रसक्तभृङ्गावलि = सक्तालिकुलं नागकेसरं = कुसुमविशेषं, [ मारनाराच-निघर्षण-स्खलज्ज्वलत्कणं ] मारनाराचनिघर्षणैः स्मरशरकर्षणैः, स्खलन्तः लुठन्तः ज्वलन्तश्च कणाः स्फुलिङ्गाः, यस्य तं । शाणं = निकषोत्पलम् इत्युत्प्रेक्षा । व्यलोकयत् । 'शाणस्तु निकषः कषः'इत्यमरः ॥ ६२ ॥