नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 62, कुल 226 में से
संदर्भ में पढ़ें४६ नैषधचरितम् । [ प्रथमः करुणा मता' इति विश्वः । अनास्थया = श्रोतुमनिच्छया, [ सूनकरप्रसारिणी ] सूनं प्रसूनमेव करं प्रसारयतीति प्रसारिणी, पुष्परूपहस्तविस्तारिणी, तथोक्तामनिष्टकथां करे वारयन्तीमिव स्थितामित्यर्थः । सूनकरेति प्रसारिणीमितिरूपकानुप्राणिता गम्यो- त्प्रेक्षेयम् । स्थलपद्मिनीं नलो दूनः = परितप्तः सन् । 'दूङः कर्त्तरि क्तः ।' 'ल्वादि- भ्यश्च' इति निष्ठानत्वं । ददर्श ॥८८॥ खिले हुए फूल युक्त करुण नामक पेड़ वाले ( वियोगियों के सन्ताप से उत्पन्न करुणा वाले ) उस उपवन में कोयलों की कूक से और भौंरों की हुँकार से विरही- जनों की कष्ट-गाथा सुनते हुए ( दमयन्ती-विरहजन्य सन्ताप से ) दुखी हो नल ने स्थलकमलिनी को देखा-जो ( वियोगियों की कथा सुनने से ) अपनी उदासीनता को मानों फूल रूपी हाथ पसार कर व्यक्त कर रही थी ॥८८॥ रसालसालः समदृश्यतामुना स्फुरद्विरेफारवरोषहुङ्कृतिः । समीरलोलैर्मुकुलैर्वियोगिने जनाय दित्सन्निव तर्जनाभियम् ॥८९॥ रसालेति । अमुना = नलेन, [ स्फुरद्विरेफारवरोषहुंकृतिः ] स्फुरन्तो द्विरेफास्तेषामारवो भ्रमरझङ्कार एव रोषणे या हुङ्कृतिर्हुङ्कारो यस्य सः । समीर- लोलै = वायुचलैर्मुकुलैरङ्गलिभिरिति भावः । वियोगिने जनाय तर्जनाभियं दित्सन् = दातुमिच्छन्निव स्थितः । ददातेः सन् प्रत्ययः । 'सनि मीमा' इत्यादिना इसादेशः । 'अत्र लोपोऽभ्यासस्य' इत्यभ्यासलोपः । 'सस्यार्द्धधातुके' इति सकारस्य तकारः । रसालसालः = चूतवृक्षः समदृश्यत = सम्यग्दृष्टः । द्विरेफेत्यादिरूपको- त्थापितेयं तर्जनाभयजननत्प्रेक्षेति सङ्करः ॥८६॥ नल ने आम का पेड़ देखा--जिसके ऊपर उड़-उड़कर भौंरे गुंजार कर रहे थे, मानो वह क्रोधपूर्वक हुँकार कर रहा हो । और वायु से हिलायी गयी कलियों से जो विरहियों को मानो फटकारने का भय दिखा रहा हो ॥८६॥ दिने दिने त्वं तनुरेधि रेऽधिकं पुनः पुनर्मूच्छ च मृत्युमृच्छ च । इतीव पान्थं शपतः पिकांन् द्विजान् सखेदमैक्षिष्ट स लोहितेक्षणान् ॥९०॥ दिने दिने इति । रे इति हीनसम्बोधने । त्वं दिने दिने अधिकं तनुः एधि = अधिकं कृशो भव । आस्तेर्लोट् सिप् । 'हुझल्भ्यो हेर्धि' इति धित्वम्, 'ध्वसोरे- दावभ्यासलोपश्च' इत्येत्वं । पुनः पुनः मूर्च्छ = मूर्च्छां लभस्व, मृत्युमृच्छ च इति पान्थं = नित्यपथिकं शपतः = शपमानानू इव स्थितानित्युत्प्रेक्षा । लोहितेक्षणान्