नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 65, कुल 226 में से
संदर्भ में पढ़ेंसर्गः १ ] जीवातु-मदयन्तिकासहितम् ४१ वेश्या'इत्यमरः। कुलङ्गनानखक्षतचिह्नोचितगद्दारविशेषणं । पचेलिम = स्वतः- पक्कं। 'कर्म कर्त्तरि केलिमच उपसंख्यानम्'इति पचेः केलिमच् प्रत्ययः। मालूरफलं =बिल्वफलं। 'बिल्वे शाण्डिल्यशैलूषौ मालूरः श्रीफलावपि'इत्यमरः। स = नलो ददर्श ॥ ६४ ॥ नलने--हवा से हिलायी गयी बेलपत्ती की नोंक से क्षत (काम-मरुत् से चञ्चल हुए नख-पल्लव से क्षत ) किया गया, चारो ओर चन्दन के समान उत्कृष्ट गन्ध फैलाता ( विलिप्त चन्दन की सुरभि युक्त )--वाराङ्गना के स्तन के तुल्य-पका ( बढ़ा ) हुआ बेल का फल देखा ॥ ६४ ॥ युवद्वयीचित्तनिमज्जनोचितप्रसूनशून्येत र गर्भ ग ह्वरम् । स्मरेषुधीकृत्य धिया भियान्धया स पाटलायाः स्तबकं प्रकम्पितः ॥६५॥ युवेति । [युवद्वयी-चित्त निमज्जनोचित-प्रसूनशून्येत र-गर्भ ग ह्वरं ] युवा च युवती च तयोर्यूनोर्द्वयी मिथुनं, तस्याश्चित्तयोः कर्मगोर्निमज्जने ण्यन्ताल्ल्युट् । उचितैः क्षमैः, प्रसूनैः पुष्पवाणैः, शून्येत रदशून्यं पूर्णं, गर्भ ग ह्वरं गर्भकुहरं यस्य तत्। पाटलायाः = पाटलवृक्षस्य स्त बकं=कुसुमगुच्छं, भियाऽन्धया=भयमूढ्या, धिया भयजन्यभ्रान्त्येत्यर्थः। स्मरेषुधीकृत्य = कामतूणीकृत्य, तथा विभ्रम्य इत्यर्थः । अत एव भयात् स प्रकम्पितः = चकम्पे । अत्र पाटलस्तबके मदनतूणीरभ्रमात् भ्रान्ति- मदलङ्कारः । 'कविसम्मतसादृश्याद्विषये विहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान् मतः' इति लक्षणात् ॥६५॥ काम-पीडा के भय के कारण, चकराई हुई बुद्धि से, पाटल के फूल के गुच्छे को-जिसका मध्यभाग युवक-युवतियों के हृदय में प्रवेश होने लायक पुष्परूपी काम-बाणों से परिपूर्ण था उसे-कामदेव का तरकस समझकर, नल काँप उठा॥६५॥ मुनिद्रुमः कोरकितः शितियुतिर्वनेऽमुनामन्यत सिंहिकासुतः । तमिस्रपक्षत्रटिकूटभक्षितं कलाकलापं किउ वैधबं वमन् ॥६६॥ मुनीति । अमुना=नलेन वने कोरकितः=सञ्जातकोरकः, शितियुति =पत्रेषु कृष्णच्छविः मुनिद्रुमः=अगस्त्यवृक्षः । [तमिस्रपक्षत्रुटिकूटभक्षितं ] तमिस्रपक्षे त्रुटिकूटेन क्षयव्याजेन, भक्षितम्, अभक्षितत्वे कुतः क्षय इति भावः । अत्र कूटशब्देन क्षयापह्नवेन भक्षणारोपादपह्रवभेदः । वैधवं=चन्द्रसम्बन्धि । 'विधुः सुधांशुः शुभ्रांशुः' इत्यमरः। कलाकलापं = कलासमूहं वमन्=उद्गिरन् सिंहिकासुतः=राहुः, अमन्यत ४