नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 58, कुल 226 में से
संदर्भ में पढ़ें४२ नैषधचरितम् । [ प्रथमः प्रसूनधन्वा शरसात्करोति मामिति क्रुधाऽक्रुश्यत तेन केतकम् ॥८१॥ धनुशिति । हे केतक ! प्रसूनं धनुर्र्यस्येति प्रसूनधन्वा पुष्पचापः । 'वा संज्ञा- याम्' इत्यनङादेशः । अत एव [ धनुर्मधुस्विन्नकरः ] धनुषो मधुना मकरन्देन, स्विन्नकरः आर्द्रपाणिः सन्, अत एव तव परागैः=रजोभिः, धूलिहस्तयन् = पुनः पुनः धूत्युद्भावितहस्तमात्मानं कुर्वन्; अन्यथा धनुस्संसनादिति भावः । तत्करोतेर्ण्य- न्ताल्लटः शत्रादेशः । अति भीमजापरम् = अतिमात्रं दमयन्त्यासक्तं, मां शरसात् शराधीनं करोति । 'तदधीने च'इति सातिप्रत्ययः । अन्यथा स्रस्तचापः मां किं कुर्या- दिति भावः । इतीत्थं श्लोकत्रयोक्तिरिति । तेन = राज्ञा इति क्रुधा केतकमा- क्रुश्यत = अपराधोद्घाटनेन आक्रोश्यातेत्यर्थः ॥ ८१ ॥ ( अरी केतकी ) पुष्पवाणधारी कामदेव-पुष्पमय धनुष में से रिसते हुए रस से गीले हाथवाला होकर भी, तुम्हारी ( फूल की) धूलि के समान पराग से हाथ मलकर, दमयन्ती के प्रति अत्यन्त आसक्त हुए मुझे अपने बाण का निशाना बनाता है। इस प्रकार क्रोधपूर्वक नल ने केतकी के फूल की लानत-मलामत की ॥८१॥ विदर्भसुभ्रूस्तनतुङ्गताप्तये घटानिवाऽपश्यदलं तपस्यतः । फलानि धूमस्य धयानधोमुखान् स दाडिमे दोहदधूपिनि द्रुमे ॥८२॥ विदर्भेति । स = नलः । 'तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादितं द्रव्यं दोहदं स्यात्तु तत्क्रिया'इति शब्दार्णवे । [ दोहदधूपिनि ] दोह- दश्चासौ धूपश्च । तदुक्तं-मेषामिपाम्बुसंसेकस्तत्केशामिप्रधूपनम् । श्रेयानयं प्रयोगः स्यात् दाडिमीफलवृद्धये । मत्स्याज्यत्रिफलालेपैर्मासैराजाविकोद्भवैः । लेपिता धूपिता सूते फलं तालीव दाडिमी । आविक्राथेन संसिक्ता धूपिता तत्रोमभिः । फलानि दाडिमी सूते सुबहूनि पृथुनि च इति । तद्वति दाडिमे द्रुमे फलानि [ विदर्भसु- भ्रूस्तनतुङ्गताप्तये ] विदर्भसुध्रुवो दमयन्त्याः, स्तनयोर्या तुङ्गता, तदाप्तये ताह- गौन्नत्यलाभायेत्यर्थः । अलम् = अत्यर्थं तपस्यतः = तपश्चरतः । 'कर्मणो रोमन्थ- तपोभ्यां वर्त्तिचरोः'इति क्यङ्प्रत्यये 'तपसः परस्मैपदञ्च' वक्तव्यं । धूमस्य = दोहदधूमस्य धयन्तीति धयान् = पातॄन् , धेट्पाने अत्र'आतश्चोपसर्गे' इति उपसर्गग्रहणं नानुवर्ति पश्चात् 'पा घ्रा' इत्यादिनाऽनुपसृष्टादपि धेटः शप्रत्यय इति गतिः । अत एव काशिकायां 'केचिदुपसर्ग इति नानुवर्त्तयन्ति'इति अधोमुखान् घटान् इव । अपश्यत् , इत्युत्प्रेक्षा, महोदरेण इत्थं उग्रं तपस्यन्तीति भावः ॥ ८२ ॥