नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 74, कुल 226 में से
संदर्भ में पढ़ें५८ नैषधचरितम् । [ प्रथमः नलेन मेने सलिले निलीनयोस्त्विषं विमुञ्चन् विधुकालकूटयोः ॥११३॥ महीयस इति । यः = तडागः महीयसः = महत्तरस्य, गौरस्य च, मेच- कस्य च पङ्कजमण्डलस्य = सितासितसरोजयोश्छलेन सलिले निलीनयोः विधु-कालकूटयोः, सितासितयोरिति भावः । त्विषं विमुञ्चन्=विसृजन्निव नलेन मेने । अत्रच्छलेन विमुञ्चन्निवेति सापह्नवोत्प्रेक्षा ॥११३॥ वह तालाब (रूप सागर) बहुत से सफेद तथा नीले कमल के बहाने, जल में विलीन चन्द्रमा तथा काल-कूट विष की (श्वेत तथा कृष्ण) द्युति को, जल के ऊपर उछाल रहा है—ऐसा नल ने अनुमान किया ॥११३॥ चलीकृता यत्र तरङ्गरिङ्गणैरबालशैवाललतापरम्पराः । ध्रुवं दधुर्बाडवहव्यवाडव-स्थितिप्ररोहत्तमभूमधूमताम् ॥११४॥ चलीकृता इति । यत्र = यस्मिन् तडागे, तरङ्गरिङ्गणैः = तरङ्गकम्पनैः चलीकृताः चञ्चलीकृताः [अबाल-शैवाललता-परम्पराः] अबालानां कठोराणां, शैवाललतानां परम्पराः पंक्तयः [ वाडव-हव्यवाडवस्थितिप्ररोहत्तम-भूम- धूमतां ] हव्यं वहतीति हव्यवाडग्निः । 'वहश्च' इति ण्विप्रत्ययः । तस्य छन्दोमात्र- विषयत्वाद् अनादरेण भाषायां प्रयोगः । वाडवहव्यवाहो वाडवाग्नेरेव स्थित्यान्तर- वस्थानेन, प्ररोहत्तमो बहिः प्रादुर्भवत्तमो भूमा येषां ते च ते धूमाश्च तेषां भावस्तत्ता दधुः ; बहिरुत्थितधूमपटलवद्बभुरित्यर्थः । ध्रुवम् इत्युत्प्रेक्षायाम् ॥११४॥ उस तालाब (रूप सागर) में लहरों के कम्पन से चलायमान किये गये, कठोर सेवार-लताओं के समूह—ऐसे प्रतीत होते थे मानो वडवानल के निवास से, खूब धूम-बाहुल्य उठ रहा हो ॥११४॥ प्रकाममादित्यमवाप्य कण्टकैः करम्बितामोदभरं विवृण्वती । धृतस्फुटश्रीगृहविग्रहा दिवा सरोजिनी यत्रभवाप्सरायिता ॥११५॥ प्रकाममिति । आदित्यं = सूर्यम् । अवाप्य प्रकामं कण्टकैः = नालगतैः तीक्ष्णाग्रैरवयवैः, करम्बिता = दन्तुरिता ; अन्यत्राऽऽदित्यम् अदितिपुत्रमिन्द्रम् अवाप्य कण्टकैः पुलकैः करम्बिता । अत एव आमोदभरं = परिमलसम्पदम्, आनन्दसम्पदं च, विवृण्वती = प्रकटयन्ती दिवा = दिवसे [ धृत-स्फुटश्रीगृह- विग्रहा ] धृतानि स्फुटश्रीगृहाणि पद्मानि यया सा, विग्रहः स्वरूपं यस्याः सा ; अन्यत्र दिवा स्वर्गेण स्फुटश्रीगृहमुज्ज्वलशोभास्पदं, विग्रहो देहो यस्याः सा ; स्वर्गलोक-