नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 76, कुल 226 में से
संदर्भ में पढ़ें६० नैषधचरितम् । [ प्रथम Digitized by Sarayu Trust Foundation and eGangotri पास विचरण करते हुए, एक विचित्र सुनहले राजहंस को देखा, जो विहारामिला- षिणी हंसिनी के अस्फुट मधुरस्वर पर लवलीन हो, रति की कामना कर रहा था । प्रियासु बालासु रतिक्षमासु च द्विपत्त्रितं पल्लवितञ्च बिभ्रतम् । स्मरार्जितं रागमहीरुहाङ्कुरं मिषेण चञ्च्वोश्चरणद्वयस्य च ॥११८॥ पुनस्तमेव विशिनष्टि—प्रियास्विति । बालासु = अरतिक्षमासु, किन्त्वासन्न- यौवनास्वित्यर्थः । अन्यथा, रागाङ्कुरासम्भवात् ; रतिक्षमासु = युवतीषु द्विविधासु प्रियासु विषये क्रमात् चञ्च्वोः=ओष्ठयोः । 'चञ्चुस्त्रोटिरुभे स्त्रियाम्' इत्यमरः । चरणद्वयस्य च मिषेण, द्विपत्त्रितं = सञ्जातद्विपत्रं, पल्लवित = संक्रातपल्लवञ्च, चञ्च्वोर्द्वयोः सम्पुटितत्वे साम्यात् द्विपत्त्रित्वं । चरणयोस्तु विभ्रमरागमत्वेन पल्लव- साम्यात् पल्लवत्वं, राजहंसानां लोहितचञ्चुचरणत्वात् तस्मिन् मिषेणेत्युक्तम् । स्मरा- र्जित = स्मरेणैव वृक्षारोपणेनोत्पादितमित्यर्थः । राग एव महीरुहः, तस्याङ्कुरं राग- मह रुहाराङ्कुरं, बिभ्रतं, चञ्चुपुटामिषेण द्विपत्त्रितं बालिकागोचररागं, चरणमिषेण पल्लवितं युवतीविषये रागञ्च बिभ्रतमित्यर्थः । ईदृशं हंसमबोधीति पूर्वेणान्वयः। 'नाभ्यस्ताच्छतुः'इति नुम्प्रतिषेधः । वृक्षाङ्कुरो हि प्रथमं द्विपत्त्रितो भवति, पश्चाद् पल्लवित इति प्रसिद्धम् । तत्र रागं बिभ्रत इति हंसविशेषणात् , तद्रारागस्य हंसाधि- करणत्वोक्तिः, प्रियास्वधिकरणभूतास्वित्युपाध्यायविश्वेश्वरव्याख्यानं प्रत्याख्येयं अन्य- निष्ठस्य रागस्यान्याधिकरणत्वायोगात् । न चायमेक एवोभयनिष्ठ इति भ्रमितव्यम्, तस्येच्छापरतरपर्यायस्य तथात्वायोगात् , अन्यथा बुद्ध्यादीनामपि तथात्वापत्तौ सर्व- सिद्धान्तविरोधात्, विषयानुरागाभावप्रसङ्गाच्च । उभयोरपि रागत्त्वसाम्यादुभयनिष्ठ- भ्रमः केषाञ्चित् । तस्मात् कामिनोरन्योन्याधिकरणरागयोरन्योन्यविषयत्वमेव नाधि- करणत्वमेवमिति सिद्धान्तः । प्रियास्विति विषयसप्तमी न त्वाधारसप्तमीति सर्वं रम- णीयम् । अत्र रागमहीरुहाङ्कुरमिति रूपकं, चञ्चुचरणमिषेणेत्यपह्नवानुप्राणितमिति सङ्करः । तेन च बाह्याभ्यन्तररागयोर्भेदे अभेद्दलक्षणातिशयोत्थापिता चञ्चुचरण- व्याजेनान्तरस्यैव बहिरङ्कुरितत्वोत्प्रेक्षा व्यज्यत इत्यलङ्कारेणालङ्कारध्वनिः ॥११८॥ ( वह राजहंस ) बाला ( मुग्धा ) और रमणयोग्य युवती प्रियतमा हंसी के लिए, अपनी ( रक्त ) चोंच और ( रक्त ) युगल चरण के बहाने, क्रमशः काम- देव से उत्पादित अनुराग रूपी वृक्ष के दो लाल लाल शाखाएँ और दो पल्लव धारण करता था । (अर्थात् वह राजहंस कामदेव का क्रीडावृक्ष था। जिस के नव अंकुरित