नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 79, कुल 226 में से
संदर्भ में पढ़ें: १] जीवातु-मदयन्तिकासहितम् ६३ बभ्रती = बिभ्राणे, पद् = चरणे तयोर्वनयोः = सलिल-काननयोः । 'वनं सलिल- कानने' इत्यमरः । प्रवालैः = पल्लवैः तथाम्बुजैः = पद्मैश्च सहेत्यर्थः । सहार्थे तृतीया । नियोद्धुं कामोऽभिलाषो ययोस्ते नियोद्धुकामे = युद्धकाम इत्यर्थः । 'तुं काममनसोरपि' इति तुमुनो मकारलोपः । अतो बद्धवर्मणो किमु = बद्धकवचे इव ते रेजतुः किम् इत्युत्प्रेक्षा ॥१२३॥ तब घोड़े पर से उतरे हुए नल के जूते पहने हुए पैर—ऐसे शोभित हुए मानों वे-उस उपवन के पल्लवों और जल के कमलों के साथ युद्ध करने की अभिलाषा से, कवच पहन कर, वहाँ आये हों ॥१२३॥ विधाय मूर्त्तिं कपटेन वामनीं स्वयं बलिध्वंसिविडम्बिनीमयम् । उपेतपार्श्वश्चरणेन मौनिना नृपः पतङ्गं समधत्त पाणिना ॥१२४॥ विधायेति । अयं नृपः स्वयमेव कपटेन = छद्मना वामनीं = ह्रस्वां । गौरादित्वात् ङीष् । बलिध्वंसिविडम्बिनीं कपटवामनविष्णुमूर्त्त्यनुकारिणीमित्यर्थः । मूर्त्तिं विधाय=कायं सङ्कुच्येत्यर्थः । मौनिना = निःशब्देन चरणेन, उपेतपार्श्वः = प्राप्तहंसान्तिकः पाणिना पतङ्गं = पक्षिणं समधत्त = सन्धृतवान्, जग्राहेत्यर्थः । स्वभावोक्तिरलङ्कारः ॥१२४॥ राजा नल कपट (छल) से बलि के छलने वाले (वामन भगवान्) के अनुरूप अपनी वामनी मूर्त्ति (शरीर को झुकाकर, छोटा आकार) बनाकर, चुपचाप दबे पाँव से उसके पास जाकर, उसे अपने हाथ से पकड़ लिया ॥१२४॥ तदात्तमात्मानमवेत्य सम्भ्रमात् पुनः पुनः प्रायसदुत्प्लवाय सः । गतो विरुत्योड्डयने निराशतां करौ निरोद्धुर्ददशति स्म केवलम् ॥१२५॥ तदिति । स = हंसः आत्मानं तदा तु [ तदात्तं ] तेन नलेनात्तं गृहीतम् अवेत्य = ज्ञात्वा, सम्भ्रमाद् उत्पॢवाय=उत्पतनाय पुनः पुनः प्रायसत् = आय- स्तवान् । 'यसुप्रयत्ने'इति धातोर्लुङि पुषादित्वात् च्लेरङादेशः । उड्डयने = उत्पतने निराशतां गतो विरुत्य = विक्रुश्य निरोद्धुः = गृहीतुः, करौ केवलं = करावेव दशति स्म = दष्टवान् । अत्रापि स्वभावोक्तिरेव ॥१२५॥ जब उस राजहंस ने अपने को उन नल के द्वारा पकड़ा हुआ जाना तो डर के मारे घबड़ाकर उड़ जाने की बार-बार चेष्टा की। लेकिन उड़ने में बेबस हो, विशेष प्रकार से शब्द करके, वह केवल पकड़नेवाले के दोनों हाथों को काटने लगा ।