नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 81, कुल 226 में से
संदर्भ में पढ़ेंसर्गः १ ] जीवात-मदयन्तिकासहितम् । ६५ यस्याः = वसुधायाः, उज्जितस्थितिः = त्यक्तमर्यादः, ईदृशः = अनपराधपक्षि- घातकः त्वं पतिः = पालकः, इति = इत्थं खगाः क्षितिं प्रहाय नभ आश्रितास्तं = नलम् आरवैः = उच्चध्वनिभिः, आचुक्रुशुः खलु = उक्तरीत्या सनिन्दोपालम्भनं चक्रुरिव, इत्युत्प्रेक्षा गम्या ।। १२८ ।। धरती को छोड़कर, आकाश में जाते हुए, पक्षिगण मानो अपने शब्दों से नल की निन्दा कर रहे थे कि-- शिव शिव ! तुम्हारे जैसे मर्यादा का परित्याग करने वाले व्यक्ति, जिसके अधिपति हों, वह वसुन्धरा अब हम लोगों के बसने योग्य नहीं है ।। १२८ ।। न जातरूपच्छदजातरूपता द्विजस्य दृष्टेयमिति स्तुवन् मुहुः । अवादि तेनाथ स मान्सौकसा जनाधिनाथः करपञ्जरस्पृशा ।। १२९ ।। नेति । इयम् = ईदृ क्, [जातरूपच्छद्जातरूपता] जातरूपच्छदैः सुवर्ण- पक्षैः, जातरूपता उत्पन्नसौन्दर्यत्वं, द्विजस्य = पक्षिणः, न दृष्टा = हिरण्मयः पक्षी न कुत्रापि दृष्ट इत्यर्थः । इति मुहुः स्तुवन्, स जनाधिनाथः, अथ = अस्मिन्नन्तरे करपञ्जरस्पृशा = करतलगतेन । मानसं सरः ओकः स्थानं यस्येति सः, तेन मान- सौकसा = हंसेन । 'हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसाँकसः' इत्यमरः । अवादि = उक्तः । वदेः कर्म्मणि लुङ् ।। १२६ ।। 'ऐसा सोने के पंखों से उत्पन्न सौन्दर्य किसी पक्षी में आज तक कहीं नहीं देखा'-- इस प्रकार बार-बार प्रशंसा करनेवाले राजा नल से-- हाथ रूपी पिजड़े में फँसे हुए, उस मानसरोवर निवासी राजहंस ने--कहा ।। १२६ ।। धिगस्तु तृष्णातरलं भवन्मनः समीक्ष्य पक्षान्मम हेमजन्मनः । तवार्णवस्येव तुषारशीकरैर्भवेदमीभिः कमलोदयः कियान् ।। १३० ।। तदेव चतुर्भिराह-- धिगित्यादि । हेम्नो जन्म येषां तान् हेमजन्मनः = हैमान्, मम पक्षान् = पत्राणि समीक्ष्य तृष्णातरलम् = आशावशगं भवन्मनो धिगस्तु इति निन्दा । 'धिङ्निर्भर्त्सन-निन्दयोः' इत्यमरः । 'धिगुपर्यादिषु त्रिषु' इति धिग्योगात् मन इति द्वितीया । तुषारशीकरैः = हिमकिरणैः, अर्णवस्य इव, तव अमीभिः = एभिः पक्षैः कियान् [कमलोदयः] कमलाया लक्ष्म्याः, कमलस्य जलस्य च, उदयो वृद्धिः, भवेत् ? न कियानपीत्यर्थः ।। १३० ।। (राजन् !) सोने के बने हुए, मेरे पंखों को देखकर, तृष्णा से चपल हुए, ५