भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 87, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 87

सर्गः १ ] जीवातू-मद्यन्तिकासहितम् । ७१ Digitized by Sarayu Trust Foundation and eGangotri सुता इति। हे सुताः ! चूङ्कृतैः = चूत्कारैः, चिराय कं प्रति आहूय कमपि प्रति मुखानि कम्प्राणि = चञ्चलानि विधाय कथासु शिष्यध्वं = कथा- मात्रशेषा भवत; कुत्रापि पित्रोरदर्शनान्म्रियध्वम् । प्राप्तकाले लोट् । मरणकालः प्राप्त इत्यर्थः । इति = इत्युक्त्वेत्यर्थः । गम्यमानार्थत्वादप्रयोगः । मील्य = मूर्च्छां प्राप्य स = हंसः स्रुतस्य = दयार्द्रभावात् प्रवहतो नृपस्याश्रुणः सेकाद्बुबुधे = संज्ञां लेभे । प्रायेणात्र स्वभावोक्तिरूह्या ॥१४२॥ बच्चो ! बहुत देर तक चूँ-चूँ करके, तुम किसे बुलाओगे ? अपनी चोंच हिला- हिलाकर, उसमें किसके मुँहों को डाल-डालकर, बोलना सीखोगे ? अब तो ('दूसरे पक्षियों के लिए) तुम्हारी कहानी ही रह जायगी--ऐसा विलाप करके, मूर्छित हुआ वह राजहंस, राजा नल के गिरे हुए नयन-जल से सिक्त होने पर, फिर चैतन्य हुआ ॥ इत्थममुं विलपन्तममुञ्चद्दीनदयालुतयावनिपालः । रूपमदर्शि धृतोऽसि यदर्थं गच्छ यथेच्छमथेत्यभिधाय ॥१४३॥ अत्र 'सर्वत्र भिन्नसर्गान्तैः' इति काव्यलक्षणाद्वृत्तान्तरेण श्लोकद्वयमाह — इत्थ- मित्यादिना । इत्थं बिलपन्तं = परिदेवमानम् अमुं = हंसं, अवनिपालः = नलो [दीनदयालुतया ] दीनेष्वार्तेषु, दयालुतया कारुणिकतया । रूपम् = आकृतिः अदर्शि = अपूर्वत्वादवलोकितं । यस्मै यदर्थं = रूपदर्शनार्थमेव, धृतः = गृहीतोऽसि । अथ यथेच्छ गच्छेत्यभिधाय अमुञ्चत् = मुक्तवान् । दोधकवृत्तमिदम् 'भभभा गौ' इति लक्षणात् ॥१४३॥ इस तरह विलाप करते हुए राजहंस को अवनिपाल नल ने, दीनदयालुतया के कारण, यह कह कर छोड़ दिया कि 'हे हंस ! जिस (रूपदर्शन) के लिए मैंने तुम्हें पकड़ा था उस सौन्दर्य को देख लिया; अब तुम जहाँ जाना चाहो, जा सकते हो' ॥ आनन्दजाश्रुभिरनुश्रियमाणमार्गान् प्राक्शोकनिर्गलितनेत्रपयःप्रवाहान् । चक्रे स चक्रनिभचङ्क्रमणच्छलेन नीराजनां जनयतां निजबान्धवानाम् ॥१४४॥ आनन्देति । स = हंसः, [चक्रनिभचङ्क्रमणच्छलेन] चक्रनिभचङ्क्रमणस्य मण्डलाकारभ्रमणस्य, छलेन, नीराजनां जनयतां = कुर्वतां निजबान्धवानां बन्धमुक्तं बान्धवाः नीराजयन्तीति समयाचारः [ प्राक्शोकनिर्गलितनेत्रपयः- प्रवाहान् ] प्राङ् मोचनात्पूर्वं, शोके निर्गलिता निःसरिता नेत्रपयःप्रवाहाः बाष्पपू- रास्तान आनन्दजाश्रुभिः = आनन्दबाष्पैः, अनुश्रियमाणमार्गान् = अनुगम्य-