नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 88, कुल 226 में से
संदर्भ में पढ़ेंमानमागान् चक्र = कृतवान् । अत्र पक्षिणां स्वभावसिद्धं बन्धुमुक्तं स्वयूथ्यभ्रमणं, छलशब्देनापह्नुत्य तत्र नीराजनात्वारोपादपह्नवभेदः । अत्र चमत्कारित्वात् मङ्गला- चाररूपत्वाच्च सर्वत्र सङ्गीतश्लोकेष्वानन्दशब्दप्रयोगः । तथाह भगवान् महाभाष्यकारः- ‘मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि विहितानि शास्त्राणि प्रथन्ते । वीरपुरुषा- ण्यायुष्मत्पुरुषाणि च भवन्ति । अध्येतारश्च प्रवक्तारो भवति’ इति । वसन्ततिलका- वृत्तम् । ‘उक्ता वसन्ततिलका तभजा जगौ गः’ इति लक्षणात् । सर्गान्तत्वाद्वृत्तभेदः । यथाह दण्डी-‘सर्गैरनतिविस्तीर्णैः श्राव्यवृत्तैः सुसन्धिभिः । सर्वत्र भिन्नसर्गान्तरुपेतं लोकरञ्जनम्’ इति ॥१४४॥ गोल चक्कर काट-काटकर, उसके बान्धव हंसगण उसकी परिक्रमा कर रहे थे- मानो इस बहाने अपने स्वजन-पक्षियों द्वारा आरती उतारे जाने वाले हंस ने- पहले ( अपने पकड़े जाने ) के समय शोक से निकली हुई आँसुओं की धारा के पीछे, अपने ( मुक्त होने पर ) आनन्द के आँसू बहाये ॥१४४॥ श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । तच्चिन्तामणिमन्त्रचिन्तनफले शृङ्गारभङ्ग्या महा- काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः ॥१४५॥ अथ कविः काव्यवर्णनमाख्यातपूर्वकं सर्गसमाप्तिं श्लोकबन्धेनाह-श्रीहर्षमिति । [कविराजराजिमुकुटालङ्कारहीरः] कविराजराजिमुकुटानां विद्वच्छ्रेष्ठश्रेणीमौलिनाम् अलङ्कारः अलङ्कारभूतः, हीरो वज्रमणिः, श्रीहीरो नाम विद्वान् [जितेन्द्रियचयं] श्रीहर्षं = श्रीहर्षनामानं यं सुतं सुषुवे = जनयामास मामल्लदेवी = नाम स्वमाता सा च यं सुतं सुषुवे । [तच्चिन्तामणिमन्त्रचिन्तनफले] तस्य श्रीहर्षस्य, यश्चि- न्तामणिमन्त्रः ब्रह्मणो मन्त्रस्तस्य चिन्तनमुपासना, तस्य फले फलभूते, शृङ्गारभङ्ग्या = शृङ्गाररसवत्या, चारुणि [नैषधीयचरिते] निषधानां राजा नैषधो नलः तदीय- चरिते नलचरितनामके, महाकाव्ये, अयमादिः = प्रथमः सर्गो गतः = समाप्त इत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । शार्दूलविक्रीडितमेतत् । ‘सूर्याश्वैर्मसजास्ततः सगुरवः शार्दूलविक्रीडितम्’ इति लक्षणात् ॥१४५॥ इति पदवाक्यप्रमाणपारावारपारीणमहोपाध्यायकोलाचलमल्लिनाथसूरि- विरचितायां जीवातुसमाख्यायां नैषधटीकायां प्रथमः सर्गः समाप्तः ।