नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 94, कुल 226 में से
संदर्भ में पढ़ें७८ नैषधचरितम् । [द्वितीयः तथापि किमर्थं पुनरागत इत्यत आह—यदिति । तब यद् अप्रियम् अव- दिषम् = अवोचम् । प्रियम् आधाय=प्रियं कृत्वा, तत् अप्रियं, तरोः कृतं=स्व- कृतम् [आतपसञ्ज्वरं] आतपसन्तापम् अमृतम् = उदकम् अभिवृष्य । 'पयः कीलालममृतम्'इत्यमरः । अंशुमानिव नुनुत्सुः = नोदितुं प्रमाष्टुमिच्छुः अस्मि ! 'नुदप्रेरणे' इत्यस्माद्धातोः सन्नन्तादुप्रत्ययः ॥ ११ ॥ जिस प्रकार आतप (धूप) से की गयी वृक्ष की पीडा को, जल बरसा कर, सूर्य निवारण कर देता है, उसी प्रकार हे राजन् ! (पूर्व में) आपसे जो मैंने अप्रिय (कर्णकटु) वचन कहे थे, उन (अप्रिय शब्दों) का, प्रिय शब्दों को कहकर, परिमार्जन करना चाहता हूँ ॥ ११ ॥ उपनम्रमयाचितं हितं परिहर्तुं न तवापि साम्प्रतम् । करकल्पजनान्तराद्विधेः शुचितः प्रापि स हि प्रतिग्रहः ॥ १२ ॥ तर्हि भवन्मोचनं सुकृतमेव मम पर्याप्तम् किं दृष्टोपकारेणेति न वाच्यमित्याह- उपनम्रमिति । अयाचितम् = अप्रार्थितम् , उपनम्रम् = उपनतं हितम् = इह चामुत्र चोपकारकं, तवापि परिहर्तुं न साम्प्रतं = न युक्तम् । 'अयाचितं हितं ग्राह्यमपि दुष्कृतकर्मणः'इति स्मरणादिति भावः । तदपि मादृशात् कथं ग्राह्यमत आह--करेति । हि = यस्मात्कारणात्, स प्रतिग्रहः [कर-कल्प-जनान्तरात् ] करकल्पं करस्थानीयमित्यर्थः । ईषदसमाप्तौ कल्पप्प्रत्ययः । यज्जनान्तरं स्वयं यस्य तस्मात् शुचितः = शुद्धाद् विधेः = ब्रह्मणः प्रापि = प्राप्तः, न तु मत्त इति भावः । आप्नोतेः कर्मणि लुङ् । विधिरैव ते दाता, अहं तस्योपकरणमात्रम् ; अतो न याच्ञालाघवं तवेति भावः ॥ १२ ॥ बिना माँगे, किन्तु स्वयमेव आए हुए, कल्याण-कारक पदार्थ का परित्याग करना—आप (जैसे चक्रवर्ती सम्राट्) को भी उचित नहीं है; क्योंकि यह प्रति- ग्रह (उपहार) अपने हाथ सदृश (सर्वथा परिचित एवं स्वाधीन) दूसरे पवित्र जन (अर्थात् मुझ) से प्राप्त होने पर भी वस्तुतः विधाता (सौभाग्य) द्वारा प्राप्त हुआ है, यह समझना चाहिए ॥ १२ ॥ पतगेन मया जगत्पतेरुपकृत्यै तव किं प्रभूयते ? । इति वेद्मिन तु त्यजन्ति मां तदपि प्रत्युपकर्तुमर्त्तयः ॥ १३ ॥ ननु सार्वभौमस्य मे तिरश्चा त्वया किमुपकरिष्यत ? तत्राह—पतगेनेति ।