नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 95, कुल 226 में से
संदर्भ में पढ़ेंसर्गः २ ] जीवातु-मदयन्तिकासहितम् । ७९ पतङ्गेन = पक्षिमात्रेण मया जगतपतेः = सार्वभौमस्य तव, उपकृत्य = उपकाराय प्रभूयते = क्षम्यते किं = न भूयत एवेत्यर्थः । भावे लट् । इति वेद्मि = अक्षमत्वं जानामि, तु तदपि = तथापि, अत्तयः, यास्तु त्वया विनिवर्तिता इति भावः । मां प्रत्युपकर्त्तुं न त्यजन्ति, प्रत्युपकरणाय प्रेरयन्तीत्यर्थः । अत्र पतगोऽप्यहं महोपकारिणस्ते महोपकारं करवाणीति भावः ॥ १३ ॥ मैं पक्षी होकर भी, आप जैसे चक्रवर्ती का उपकार करने में क्या समर्थ हो सकता हूँ ?-यह बात मैं जानता हूँ, तथापि प्रत्युपकार करने की, मेरी मानसिक पीड़ा, मेरा पीछा नहीं छोड़ रही है ॥ १३ ॥ अचिरादुपकर्त्त राचरेदथवाऽऽत्मौपयिकीमुपक्रियाम् । पृथुरित्थमथाणुरस्तु सा न विशेषे विदुषामिह ग्रहः ॥ १४ ॥ अथ वा यथाशक्ति पक्षोऽस्त्वित्याह-अचिरादिति । अथवा उपकर्त्तुः, अचिरात्, = अविलम्बात् । उपाय एवौपयिकः । विनयादित्वात् स्वार्थे ठक् । 'उप- धाया ह्रस्वत्वञ्च' इति ह्रस्वः । तत आगता औपयिकी, ताम् आत्मौपयिकीं = स्वोपायसाध्यामित्यर्थः । तत आगत इत्यण्प्रत्यये 'टिड्ढाणञ्'इत्यादिना ङीप् । उपक्रियामाचरेत् = प्रत्युपकारं कुर्यात् । चरधातो र्विधिलिङ् । इत्थम् = एवं सति सा = उपक्रिया पृथुः = अधिका अस्तु अथ = अथवा अणुः =अल्पाऽस्तु विदुषां = विवेकिनाम् इह = अस्मिन् विषये विशेषे ग्रहः = आग्रहो न । गुण- ग्राहिणो विवेकिनः कृतज्ञतामेव अस्य पश्यन्ति, न दोषमन्विष्यन्तीत्यर्थः ॥१४॥ अथवा, मनुष्य को चाहिए कि उपकार करने वाले के प्रति, यथासम्भव यथा- शक्ति अपनी उपाय क्रिया द्वारा अविलम्ब उपकार कर दें । वह प्रत्युपकार चाहे छोटा या बड़ा-इस विषय में विवेकीजन विशेष आग्रह नहीं मानते ॥ १४ ॥ भविता न विचारचारु चेत्तदपि श्रव्यमिदं मदोरितम् । खगबागियमित्यतोऽपि किं न मुदं दाभ्यति कीरगीरिव ? ॥ १५ ॥ अथ स्ववाक्ये आदरं याचते-भवितेति । हे नृप ! इदं = वक्ष्यमाणं मदो- रितं = मद्बचनं । [ विचारचारु ] विचारे विमर्शो, चारु युक्तं, न भविता = न भविष्यति चेत्तदपि = अविचारितरमणीयमपि श्रव्यं = श्रोतव्यम् । इयं खगवाक् इति अतः अपि हेतोः कीरगीः = शुकवाक् इव मुदं किं न दास्यति ? दास्यत्येव । प्रयोजनान्तराभावेऽपि कौतुकादपि श्रोतव्यमित्यर्थः । ददातेः लुट् ॥१५॥