भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 96, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 96

८० नैषधचरितम् । [ द्वितीयः Digitized by Sarayu Trust Foundation and eGangotri भले ही मेरी बात विचार के योग्य न हो, तो भी आप को सुननी चाहिए। पक्षी की बोली होने के कारण, तोते की बोली की भाँति, क्या ये आनन्ददायक न होंगी ? ॥ १५ ॥ स जयत्यरिसार्थसार्थकी-कृतनामा किल भीमभूपतिः । यमवाप्य विदर्भभूः प्रभुं हसति द्यामपि शक्रभर्तृकाम् ॥ १६ ॥ अथ यद्वक्तव्यं तदाह-स इति । [अरिसार्थसार्थकीकृत-नामा ] अर्थेन अभिधेयेन सह वर्त्तत इति सार्थ कम् । 'तेन सह' इति तुल्ययोगे इति बहुव्रीहिः । 'वोप- सर्जनस्य' इति सहशब्दस्य विकल्पात् सभावः । 'शेषाद्विभाषा' इति कप् समासान्तः । ततश्च्विरभूततद्भावे, अरिसार्थेषु शत्रुसङ्घेषु, सार्थकीकृतं नाम भीम इत्याख्या येन स तथोक्तः । स=प्रसिद्धः । बिभ्यत्यस्मादिति भीमः, 'भियो मः' इत्यपादानार्थे निपातनान्मप्रत्यय औणादिकः । भीम इति भूपतिः = नृपः, जयति किल = सर्वोत्कर्षेण वर्त्तते खलु । विदर्भभूः = विदर्भदेशः, यं = भूपतिं प्रभु = भर्त्तारम् अवाप्य शक्रो भर्त्ता यस्यास्तां शक्रभर्तृकां । 'नद्यृतश्च' इति कप् । द्यां = दिवं अपि हसति, किमुतान्यभर्तृकदेशानित्यर्थः । स्त्रियो हि भर्तु रुत्कर्षाद्वासं कुर्वन्तीति भावः। अत्र विदर्भभुवोऽपि द्युहासासम्बन्धेऽपि सम्बन्धोक्तेरतिशयोक्तिः ॥ १६ ॥ शत्रुओं के वर्ग में अपने (भीम) नामक को सार्थक करने वाले (अर्थात् भीम के नाम से शत्रुओं को भीषण भय होता था), विख्यात भूपति भीम की जय हो। जिन्हें अपना पति पाकर, विदर्भ-भूमि-इन्द्रपति वाली अमरावती पुरी का भी उपहास करती है ॥ १६ ॥ दमनादमनाक प्रसेदुषस्तनयां तथ्यगिरस्तपोधनात् । वरमाप स दिष्टविष्टपत्रितयानन्यसदृग्गुणोदयाम् ॥ १७ ॥ दमनादिति । स = भीमभूपतिः, अमनाक = अनल्पं प्रसेदुषः = निजो- पासनया प्रसन्नात् । 'भाषायां सदवसश्रुवः' इति सदेर्लिटः कसादेशः । दमनात् = दमनाख्यात् तथ्यगिरः = अमोघवचनात् तपोधनात् = ऋषेः [ दिष्ट-विष्टप-त्रित- याऽनन्यसदृग्गुणोदयां ] दिष्टानां कालानां, विष्टपानां लोकानाञ्च, त्रितययोरनन्य- सदृशी गुणोदयां, कालत्रये लोकत्रये चानन्यसाधारणगुणप्रकर्षों तनयां = दुहितरं वरमाप = वरत्वेन लब्धवानित्यर्थः । 'देवाद्दृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक् प्रिये' इत्यमरः ॥ १७ ॥ CC-0. Prof. Satya Vrat Shastri Collection.