नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 106, कुल 258 में से
संदर्भ में पढ़ेंसंसारसारभूतेनाभूष्यत वपुः कान्ततरतारुण्यावतारप्राक्प्रारम्भेण ॥ क ॥ ततश्च । परिहरति वयो यथा यथाऽस्याः स्फुरदुरुकन्दलशालि बालभावम् । द्रढयति धनुषस्तथा तथा ज्यां स्पृशति शरानपि सज्जन्मनोभूः ॥ २९ ॥ अपि च । मुञ्चन्त्याः शिशुतां भरादवतरत्तारुण्यमुद्राङ्कित- स्फारीभूतनितान्तकान्तवपुषस्तस्याः कुरङ्गीदृशः । उन्मीलत्कुचकाञ्चनाव्जमुकुलं यूनां मुहुः पश्यतां बाह्वोरन्तरमन्तरायसदृशा मन्ये निमेषा अपि ॥ ३० ॥ ततश्च तत्तस्याः कमनीयकान्तविजितत्रैलोक्यनारीवपुः शृङ्गारस्य निकेतनं समभवत्संसारसारं वयैः । यस्मिन्विस्मृतपक्ष्मपालिचलनाः कामाल्सा दृष्टयो नो यूनां पुनरुत्पतन्ति पतिताः पाशे शकुन्ता इव ॥ ३१ ॥ अपि च । आबभ्रत्परिवेषमण्डलमलं वक्त्रेन्दुविम्बाद्वहिः कुर्वच्चम्पकजृम्भमाणकलिकाकर्णावतंसक्रियाम् । तन्वङ्ग्याः परिनृत्यतीव हसतीवोत्सर्पतीवोल्बणं लावण्यं ललतीव काञ्चनशिलाकान्ते कपोलस्थले ॥३२॥” एतदाकर्ण्य राजा रञ्जितस्तत्कथया पुनरुद्गच्छदुच्चरोमाञ्चकञ्चु- कितकायस्तत्कालमेवान्तः स्फुरन्मन्मथमनोरथभरभज्यमानमानसं तं हंसमपृच्छत् ॥ “पक्षिराज राजीववनावतंस हंस, पुनः कथ्यतां तस्याः संप्रति वयोवृत्तवृत्तान्तव्यतिकरः ” ॥ इत्युक्तः पुनरेशं तं बभाषे । “देव, किमेकोऽस्मद्विधः पक्षी क्षीरतरङ्गधवललोचनां तां वर्णयेत् यस्याः सर्वदेवमय इवाकारो लक्ष्यते ॥ ख ॥
पादटिप्पण्यः (Footnotes): १ 'वयः'. २ 'मुद्राङ्कितम्'. ३ 'अपि च'. ४ 'वपुः'. ५ 'वलनाः'. ६ 'उज्ज्वलम्'. ७ 'तदाकर्ण्य'. ८ 'उद्गच्छद्रोमाञ्च'. ९ 'एवं तं बभाषे;' 'एनं बभाषे'. १० 'विभाव्यते'.