नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 107, कुल 258 में से
संदर्भ में पढ़ेंतृतीय उच्छ्वासः। ८९ तथा हि। सुतारा दृष्टिः, सकामाः कटाक्षाः, सुकुमाराश्चरणपाणिपल्लवाः, सुधाकान्ति स्मितम्, अरुणो दन्तच्छदः भाखन्तो दन्ताः सुकृष्णाः केशाः, प्रबुद्धा वाणी, गौरी कान्तिः, गुरुः स्तनाभोगः, पृथ्वी जघन- स्थली, सुरभिर्निःश्वासः सुगन्धवाहः प्रस्वेदः, सश्रीकः सकलाङ्ग- भोगः ॥ क ॥ किं चान्यत् । नक्षत्रमयीव निर्मिता विधिना ॥ ख ॥ तथा हि। भद्रपदा ज्येष्ठा सुहस्ता पूर्वोत्तरा सार्द्रहृदया मूलं कंदर्पस्य ॥ ग ॥ किं बहुना । लावण्यातिशयः स कोऽपि मधुरस्ते केऽपि दृग्विभ्रमाः सा काचिन्नवकन्दलीमृदुतनोस्तारुण्यलक्ष्मीरपि । सौभाग्यस्य च विश्वविस्मयकृतः सा कापि संपद्यया लग्नानङ्गमहाग्रहा इव कृताः सर्वे युवानो जनाः ॥ ३३ ॥ राजा—'ततस्ततः' । हंसः—'ततस्तस्याः पुनरिदानीं दूराभोगभरेण सुप्रगतिना श्लिष्टा नितम्बस्थली धत्ते स्वर्णसरोजकड्मलकलां मुग्धं स्तनद्वन्द्वकम् । आलापाः स्मितसुन्दराः परिचितभ्रूविभ्रमा दृष्टय- स्तस्यास्तर्जितशैशवव्यतिकरं रम्यं वयो वर्तते ॥ ३४ ॥ सुतारेति ॥ तारा कनीनिका देवी च । कामः अभिलाषः स्मरश्च । सम्यक् कामो येभ्यः । तुमः समश्च काममनसोर्मलोपः । सुकुमाराः कोमलाः । तथा महेन्द्रवत्कार्तिकेयोऽपि सुकुमारः । सुधावत्कान्तिरस्येति सुधाकान्ति शुभ्रं चन्द्रश्च । अरुण आरक्तो रविसारथिश्च । भाखान् दीप्यमानः सूर्य्यश्च । कृष्णो मेचको विष्णुश्च । प्रबुद्धा व्युत्पन्ना । बुद्धः सुगतः । गुरुर्विशालो वृहस्पतिश्च । पृथ्वी पृथुला भूश्च । सुरभिः सुगन्धिवंसन्तश्च । गन्धवाहः परिमलवाही वायुश्च । श्रीः कान्तिर्लक्ष्मीश्च ॥क॥ भद्रेति ॥ भद्रं पदं पादन्यासो यस्याः । ज्येष्ठा प्रथमापत्यम् । शोभनौ हस्तौ यस्याः । पूर्वमुत्कृष्टमुत्तरं वचो यस्याः । सार्द्रमनिष्ठुरं हृदयमस्याः । कामस्य मूलं कारणम् । पक्षे भद्रपदा ज्येष्ठा हस्तः पूर्वा उत्तरा आर्द्रा मूलं नक्षत्राणि ॥ग॥ लावण्येति ॥ नवकन्दलीवन्मृद्वी तनुर्वपुर्यस्याः ॥ ३३ ॥ १ 'कुसुमारश्चरणपल्लवः'. २ 'अधरपल्लवः'. ३ 'सा विनिर्मिता'. ४ 'दृष्टिभ्रमाः'. ५ 'स्पृष्टा'. ६ 'कुलम्'.