नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 110, कुल 258 में से
संदर्भ में पढ़ें९२ नलचम्पूः । गते च राजनि राजीविनीनां जीवितसमाः समास्वाद्यन्स्वादुको- मलमृणालकन्दलीः, दलयन्दलानि, कवलयन्बहुलमधुरस्निग्धमुकु- लानि, अनुशीलयञ्शीतलशैवलावलीः, विलासेन स हंसस्तरंस्तरङ्गा- न्तरेषु चिरं चिक्रीड ॥ क ॥ चिन्तितवांश्च 'तेन राज्ञा 'कृतकमलमालानितम्बक्रीडमिममा- दाय मत्समीपमेष्यसि' इति श्लिष्टार्थमिवादिष्टा वनपालिका । तन्न युक्तमिह चिरं स्थातुमिति' ॥ ख ॥ इत्यस्थान एवाशङ्कमानः सह तेन राजहंसकदम्वकेनाम्बरतलमुद्- पतत् ॥ ग ॥ तत्र च व्यतिकरे दिवापि स्फारस्फुरत्तारामण्डलमिव, विकचनव- कुवलयवनगहनमिव, अन्तरान्तरोन्निद्रकुमुदखण्डमुड्डीनास्ते क्षणमशो- भयन्त नभस्तलम् ॥ घ ॥ अविलम्बिताश्च न चिराद्देवापुर्विदर्भमण्डलमण्डनं कुण्डिनपुरम्॥ङ॥ अवतेरुश्च चकितचलचक्रवाकालोक्यमानकृतान्धकारविभ्रमभ्रम- द्भ्रमरभरभज्यमानाम्भोजभाजि राजभवनासन्नकन्यान्तःपुरोद्यानक्री- डासरसि ॥ च ॥ संरभसप्रधावितेन सरस्तीरविहारव्यसनिना कन्यकाजनेन निवे- दितांस्तानवलोकयितुमतिकौतुकेन दमयन्ती कन्यान्तःपुरात्पुराणमदि- रारुणायताक्षी क्षिप्रमाजगाम ॥ छ ॥ आगत्य च चटुलतरचरणचञ्चुप्रहारविदलितारविन्दकन्दलानुत्ता- लवालनलिनीवनविहारिणस्तान्गृहीतुमेकैकशः सखीजनमादिदेश॥ज॥ चिन्तितवांश्चेति ॥ तेन राज्ञा इत्यमुना प्रकारेण श्लिष्टार्थमिव यथा भवति तथैव वनपालिकादिष्टा । इतीति किम् । यत् कृता कमलमालाया नितम्बके घनप्राये मध्यप्रदेशे क्रीडा येनेति राजाभिप्रायः । मालाशब्दगतस्त्रीत्वेन कमलमालायाः साक्षात्स्त्रीत्वाध्यवसायान्नितम्बशब्दः रूढवयवोऽपि तदर्थमात्रे प्रयुक्तः । हंसेन त्वेवं प्रतीतम् । यथा कृतकं कापटिकंचा । तथा अलमत्यर्थम् । आलानिबं बद्धम् । तथा बकवत् क्रीडा यस्य । तादृशमिमं गृहीत्वा मत्समीपमायास्यसीति ॥ ख ॥ १ 'बहुल'. २ 'मधु'. ३ 'स्निग्धमुग्ध'. ४ 'हंसस्तरङ्गभङ्गान्तरेषु'; 'हंसस्तरङ्गा- न्तरेषु'. ५ 'श्लिष्टाक्षरम्'. ६ 'अस्थानम्'. ७ 'अम्बरमुदपतत्'. ८ 'विकचकुवलयग- हनम्'. ९ 'तत्क्षण'. १० 'एवापुः'. ११ 'कुण्डिनं पुरम्'. १२ 'नवाम्भोजराजिभाजि'. १३ 'रभस'. १४ 'कन्दलानुत्ताननलिनी'.