नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 115, कुल 258 में से
संदर्भ में पढ़ेंचतुर्थ उच्छ्वासः । ९७ क्रमेण च मेचकोच्चचूचुककुचकुम्भकपोलिपाण्डिम्ना निम्नयन्ती मृग- लाञ्छनच्छायमवाञ्छदच्छामृतपयःपिष्टमूर्तिमन्मधुसमयमदनमृगाङ्क- मण्डलरसेनात्मानमौलेप्तुम् ॥ क ॥ अग्रतः सखीजनविधृतमपास्य मणिमयमुकुरमण्डलमनवरतनिशा- निर्मलकरवालतलेष्वात्ममुखकमलमवलोकयांचकार ॥ ख ॥ निरस्य नीलोत्पलमरजठरकण्ठीरवकण्ठकेसरस्तवकमकरोत्कर्णाव- तंसम् ॥ ग ॥ अतिबहलकुङ्कुमाङ्ककस्तूरिकापङ्कमपहाय मत्तमातङ्गमदकर्दमेन नि- जभुजशिखरयोर्विरचयांचकार विचित्रपत्रभङ्गान् ॥ घ ॥ एवमन्तःस्फुरद्गर्भानुरूपदोहदसुखमनुभवन्ती कदाचिदुच्चस्थानस्थि- ते सौम्यग्रहग्रामे, महाराजजन्मोचितेऽह्नि शुभसंभारकारणायां काल- वेलायां जातप्राये प्रभाते प्रभाप्रतानजनितपरिवेषमशेषतेजस्वितेजःपु- ञ्जापहारिणमालोहितपादपल्लवोल्लसितपङ्कजच्छायम, द्यौरिव रविमण्ड- लम्, उन्नमन्मेघमालेव विद्युल्लोलम्, अरणिरिव वितानवैश्वानरम्, नरपालप्रिया प्रीणितगोत्रं पुत्रमजीजनत् ॥ ङ ॥ तत्र च दिवसे सांशूकोन्नतवंशस्य तस्य राज्ञः पुरस्य च । बभूव लक्ष्मीः सा कापि यया स्वर्गोऽपि निर्जितः ॥ १० ॥ अपिच । क्रमेणेति ॥ कुचकुम्भस्य चन्द्रमाः । मेचकचूचुकस्य लाञ्छनमुपमानम् ॥ अच्छामृतमेव यत्पयो नीरं तेन पिष्टो घृष्टो योऽसौ मूर्तिमत्तां मधुसमयमदनमृ- गाङ्कमण्डलानां रसः तेनालेप्तुमात्मानमियेष ॥ क ॥ एवमन्तरिति ॥ द्यौरपि प्रगे रविमण्डलं जनयति । तमपि दीप्तिततिकृतवेष्ट- नम् । तथा समस्तदीपप्रभृतितजस्वितेजोमुषम् । पादाः किरणाः । पुत्रपक्षे आ ईषत् लोहितौ पादपल्लवौ तयोरुल्लसितपङ्कजवच्छाया यस्य । तथा विद्युतां लोलनं लोलो विलासः । मण्डलः पुंस्यपि ॥ ङ ॥ सांशुकैति ॥ राज्ञः पुरस्य च सा काचिदजनि शोभा । यथा खर्गच्छतीति कृत्वा खर्गो देवः स्वर्गलक्षणो लोकश्च जितः । अंशुना रविणा सह सांशुक उन्नतो वंशो यस्य । रवेर्वंशस्य च तुल्यमुदयनमिष्टम् । प्रगे तस्याप्युदितत्वात् । पुरं च सपताकोच्छ्रितवेणुकम् ॥ १० ॥ १ 'अनुलेप्तुम्'. २ 'मुखम्'. ३ 'संसार'. ४ 'पल्लवोपहसित'.