नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 117, कुल 258 में से
संदर्भ में पढ़ेंचतुर्थ उच्छ्वासः । ९९ इति ब्राह्मणाः प्रविश्य तस्य ‘नलः’ इति नाम प्रतिष्ठापयामासुः ॥ क ॥ क्रमेण च चतुरुदधिवेलावनविकासोचितकीर्तिकुन्दकन्दलैर्विश्ववि- श्वंभराभिलम्भलम्पाकौः कुमारसेवकैरिव सकलचक्रवर्तिचिह्नैरलंकृता- वयवो विस्तरजटालवालः कल्पपादपाङ्कुर इव वर्धितुमारभत ॥ ख ॥ विरचितचूडाकरणादिसंस्कारक्रमश्च प्राप्ते विद्याग्रहणकाले निमि- त्तमात्रीकृतोपाध्यायः स्वयमेव समस्तानवद्यविद्याम्भोनिधेः परं पारम- वाप ॥ ग ॥ तथाहि । प्रबुद्धबुद्धिर्बौद्धे, सविशेषशेमुषीको वैशेषिके, विख्यातः सांख्ये, रञ्जितलोको लोकायते, प्राप्तप्रभः प्राभाकरे, प्रतिच्छन्दकश्छन्दसि, अनल्पविकल्पः कल्पज्ञाने, शिक्षाक्षमः शिक्षायाम्, अकृतापशब्दः शब्दशास्त्रे, अभियुक्तो निरुक्ते, सज्जो ज्योतिषि, तत्त्ववेदी वेदान्ते, प्रसिद्धः सिद्धान्तेषु, स्वतन्त्रस्तन्त्रीगणेषु, पटुः पटहे, अप्रतिमल्लो झल्ल- रीषु, निपुणः पणवेषु, प्रवीणो वेणुषु, चित्रकृच्चित्रविद्यायाम्, उद्दामः कामतन्त्रे, कुशलः शालिहोत्रे, श्रेष्ठः काष्ठकर्मणि, सावलेपो लेप्ये, पण्डितः कोदण्डे, शौण्डः शारिषु, गुणवान्गणिते, बहुलो बाहुयुद्धेषु, चतुरश्चतुरङ्गद्यूतक्रीडायाम् उपदेशको देशभाषासु, अलौकिको लोक- ज्ञाने ॥ घ ॥ धनाग्रहणे अन्तर्मुखमभिप्रायमाश्रित्येत्यर्थः ॥ क ॥ क्रमेणान्ते ॥ कुमारसेवका युवराजानुचराः । तदुपमै राजचिह्नै रेखाकृतैश्चक्र- चापकुलिशादिभिर्भूषिताङ्गः । तथा विस्तरन्तो जटालाः स्वभावजटाबन्धा बालाः कचा यस्य । वृत्तचूडाकरणस्य हि केशा विजटीभवन्ति । कल्पवृक्षस्तु प्रसरन्मूला- लवालः ॥ ख ॥ प्रबुद्धेति ॥ चित्रवृत्तलक्षणं छन्दः । कल्पः पितृदेवताद्याराधनविधिशास्त्रम् । अकारादिवर्णजन्मस्थानानां बोधिका शिक्षा । अन्वयस्य प्रकाशकं निरुक्तम् । अ- तीन्द्रियशुभाशुभकर्मणां प्रकाशकं ज्योतिषम् ॥ घ ॥ १ 'शुश्रुवाणः'. २ 'कन्द.' ३ 'विश्वंभरालम्भ'. ४ 'अलंकृताङ्गावयवः'. ५ 'विस्तरत्'. ६ 'समये'. ७ 'अकलङ्कोऽकलङ्के'. ८ 'प्रतिभः'. ९ 'छन्दःशास्त्रे'. १० 'कल्पजाते'. ११ 'सिद्धान्ते'. १२ 'वीणावेणुषु.'. १३ 'शालिहोत्रेषु, अमुद्रः सामुद्रिके'. १४ 'शरेषु'; 'शारेषु'. १५ 'गुणिने'. १६ 'बहुगुणो'. १७ 'बाहुयुद्धे'. १८ 'तुरङ्गमक्रीडा', 'तुरङ्गव्यूहक्रीडा'. १९ 'भाषासु'.