भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 118, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 118

किं बहुना । रसे रसायने ग्रन्थे शस्त्रे शास्त्रे कलास्वपि । नले न लेभिरे लोकाः प्रमाणं निपुणा अपि ॥ १४ ॥ क्रमेण शैशवमतिक्रामतोस्य सेवकैरिवाङ्गावयवैरप्यनुवृत्तिः कृता॥क॥ तथाहि । श्रवणासक्तस्य लोचनद्वयमपि श्रवणसंमतिमकरोत् ॥ ख ॥ उन्नतस्वभावस्य नासावंशोऽप्युन्नतिं जगाम ॥ ग ॥ वक्रोक्तिकुशलस्य केशकलापोऽपि वक्रतां भंजे ॥ घ ॥ शङ्खनिर्मलगुणस्य कण्ठोऽपि शङ्खाकारमधारयत् ॥ ङ ॥ पृथुलमतेरंसकूटद्वयमपि पृथुलमभूत् ॥ च ॥ प्रमाणवेदिनो वक्षःस्थलमपि सुप्रमाणमजायत ॥ छ ॥ मध्यस्थस्य तस्य रोमराजिरपि मध्ये स्थिता शुशुभे ॥ ज ॥ सुवृत्तस्य बाहूयुगलमपि सुवृत्तमभवत् ॥ झ ॥ गम्भीरप्रकृतेर्नाभिरपि गम्भीरा व्यराजत ॥ ञ ॥ पल्लवसुकुमारहृदयस्य हस्तचरणैरपि पल्लवसौकुमार्यमङ्गीकृतम् ॥ट॥ अथ किं बहुना । सोष्णीषमूर्धा ध्वजवर्चक्रपाणि- रूर्णाङ्कविस्तीर्णललाटपट्टः । सुस्निग्धमूर्तिः ककुदुन्नतांसः कस्यैष न स्यान्नयनाभिरामः ॥ १५ ॥ रस इति ॥ रसः पारदः । रसायनं जरामरणापहं औषधयोगः । ग्रन्थः काव्यशास्त्रादिरचना । शस्त्रं खङ्गादि । शास्त्रं व्याकरणतर्कादि । कला गीतनृत्यादयः । एतेषु निपुणा अपि सन्तो लोका नले राज्ञि प्रमाणमियत्तां न प्रापुः ॥ १४ ॥ श्रवणेति ॥ श्रवणे शास्त्राकर्णने आसक्तः । श्रवणसंगतिः कर्णसंगतिः ॥ ख ॥ पृथुलेति ॥ अंसकूटेति कूटशब्दः शिखरार्थः ॥ च ॥ प्रमाणेति ॥ प्रमाणं तर्कशास्त्रं मानं च ॥ छ ॥ मध्येति ॥ मध्यस्थोऽकृतपक्षपातः । अन्यत्र मध्ये उदरे तिष्ठतीति ॥ ज ॥ सुवृत्तेति ॥ वृत्तं शीलं वर्तुलं च ॥ झ ॥ गम्भीरेति ॥ गम्भीरप्रकृतिरलक्ष्यकोपप्रसादः । निम्ना च गम्भीरा ॥ ञ ॥ सोष्णीषेति ॥ उष्णीषाकारं शारीरिकं लक्षणमुष्णीषम् । ऊर्णा भ्रूमध्ये शुभ्रोमावर्तः ॥ १५ ॥ १ 'क्रमेण च'. २ 'वादिनो'. ३ 'मध्यस्था'. ४ 'कर'. ५ 'किं बहुना'. ६ 'चिह्न'- CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA