भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 123, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 123

चतुर्थ उच्छ्वासः। १०५ त्यज जाड्यम् ॥ क ॥ जाड्ययोगेन हिमानी दूष्यतां याति ॥ ख ॥ मा स्म मुखरो भूः ॥ ग ॥ कर्णाटचेटीमिव मुखरतां न शंसन्ति साधवः ॥ घ ॥ भज माधुर्यम् ॥ ङ ॥ धवलवलीवर्दपङ्क्तिरिव समाधुर्या वाणी मनो हरति ॥ च ॥ वर्जय वैपरीत्यम् ॥ छ ॥ विपरीतं शवमिव को न परिहरति ॥ ज ॥ कमलदीर्घाक्ष, शिक्षाक्रमेऽस्मिन्नपरमप्यभिधीयसे ॥ झ ॥ मा गाः स्त्रियाः श्रियो वा विश्वासम् ॥ ञ ॥ आवर्जितशौर्यादिगुणोऽभ्यस्तसप्ततिकलः पुरुषो यस्तब्धः स नश्यते इत्याह— त्यजेति ॥ क ॥ जाड्येति ॥ हि यस्माज्जाड्ययोगेन मानी स्तब्धः पुमान्दूष्यत्वमाप्नोति । हि- मानी हिमंसंहतिः । सापि जाड्यातऽतिशैत्याद्दूष्येत्यर्थान्तरम् ॥ ख ॥ जाड्यपरित्यागे किं पितृमन्त्रिमूखरस्तर्हि स्यामित्येतदपि निषिध्यन्नाह—मास्मे- ति ॥ मुखरो वाचालोऽपि माभूः ॥ ग ॥ कर्णाटेति ॥ यस्मान्मुखरस्य भावं मुखरतां वाचलतां साधवो न स्तुवन्ति । कर्णाटचेटी तु मुखे रतं सुरतं यस्याः ॥ घ ॥ धवलेति ॥ यस्माद्या वाणी सह माधुर्यण सा मनोहारिणी । न च वाचाल- तायां वाचो माधुर्यम् । वृषश्रेणी तु. समा अविषमा । धुर्या धूर्वाहिनी । धुरं वह- तीत्यर्थे 'धुरो यड्ढकौ' इति यत् । अनः शकटम् । अणीं वा । अक्षाग्रकीलिका- मिव हरति वहतीत्यर्थः । वा अथवाऽर्थे ॥ च ॥ वर्जये.ति ॥ पूर्वोक्तादसद्गुणदेशद्वैपरीत्यमन्यथाभावं त्यज ॥ छ ॥ यतः— विपरीतेति ॥ विपरीताचारं को न परिहरति । शवं तु विमिः पक्षि- भिः परीतं व्याप्तम् ॥ ज ॥ सुविनीतानामावर्जितगुणानामभ्यस्तकलानामपि प्रायः प्रभवन्ति व्यसनानि, रक्षितव्यप्रमादाश्च । व्यसनेषु स्त्रीध्वत्यासकिर्महद्व्यसनम् । द्रव्यशरीरयोः क्षयहेतु- त्वात् । स्त्रीव्यसने हि राजयक्ष्मोद्भवः । ततः स्त्रीव्यसनं लक्ष्मीप्रमादं च परिहार- यन्नाह— कमलेति ॥ रूपवान्भवान् सर्वस्त्रीप्रियः स्यादतस्तासु विश्वासकरणं तव तत्कमलदलेत्यामन्त्रणेनाभिहितम् ॥ झ ॥ मागा इति ॥ स्तृणाति दुर्विनीता सती आत्मनः परस्य वा गुणगणं प्रच्छा- १ 'साधवः धवल'. २ 'शिवम्'. ३ 'कमलदलदीर्घाक्ष'. ४ 'प्रक्रमे'. ५ 'धीमन्' ; 'अस्मिन्'. ६ 'स्त्रियः'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास) · पृष्ठ 123, कुल 258 में से · BharatKosha