भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 122, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 122

१०४ नलचम्पूः । उग्रसेनः कंसानुरागं जनयेत् ॥ क ॥ अमृतमथनोद्यतहरिबाहुपञ्जर इव मन्दरसानुगतः को न घृष्यते ॥ ख शुनीमिवास्थिरतां परिहर ॥ ग ॥ कुशीलताग्राही मा स्म तैलिक इव केवलं खलोपभोगाय भूः ॥ घ ॥ आवर्जय गुणान् ॥ ङ ॥ निर्गुणे धनुषीव सुवंशयेऽपि कस्याग्रहो भवति ॥ च ॥ अभ्यस्य कलाः ॥ छ ॥ निष्कलो वीणाध्वनिरिव प्रशस्यते न पुरुषः ॥ ज ॥ संबद्धो भवाँल्लोकस्य भयहेतुः । भुजंगस्तु अहेर्भावोऽहिता तया दशनलक्षणया प्रकृत्या युक्तः ॥ ङ ॥ दुष्टप्रकृतिर्नृपंश्लोकस्य भयाय ततः किमित्याशङ्क्याह—उग्रेति ॥ उग्रा सेना यस्य स कं प्राणिं सानुरागं कुर्यात् । न कमपीत्यर्थः । विरागहेतुरेवेति भावः । उचितपरिवारो हि जनानुरागाय । परिवारो हि लोकस्योपद्रवं रक्षणं वा कुरुते । उग्रसेनो दैत्यः स कंसासुरस्यानुरागं जनयतीत्यागमोक्तोल्लिङ्गनम् ॥ क ॥ चेदमी विरुद्धबुद्धयः सहायादयः । पृथिवी वा मयि मन्दानुरागा । ततः किं ममेति निरस्यन्नाह—अमृतेति ॥ मन्दो रसः प्रीतिर्येषां तैर्मन्दानुगण्या पृथ्व्या चानुगत को न घृष्यते । उपमाने तु पुरा देवैः दैत्यैरमृतायाम्भोधिर्ममन्थे । तत्र च मुख्यो बलिष्ठश्च विष्णुः । तस्य भुजपञ्जरो मन्दरनाम्नो गिरेर्मन्थानभूतस्य सानूनि तटानि गतः प्राप्तः सङ्घृष्टः ॥ ख ॥ शुनीमिति ॥ तस्मादस्थिरतां चञ्चलत्वं त्यज ॥ शुनी त्वस्थि रता ॥ ग ॥ कुशीलतेति ॥ कुत्सितं शीलं लौल्यादिलक्षणं यस्य स कुशीलः । तस्य भावः कुशीलता । तां गृह्णातीत्येवंशींलस्तथोक्तस्त्वं केवलं दुर्जनानामुपभोगाय मा स्म भूः । कुशीलो हि दुर्जनानामेवोपयोगी न साधूनाम् । तैलिकस्तु कुशीलक्षणां लतां गृह्णाति । खलः पिण्याकः स एवोपयोगस्तस्य । अयोविकारः कुशी ॥ घ ॥ अकृत्यानि परिहार्य कृत्यमुपदिशन्नाह—आवर्जयेति ॥ ङ ॥ सुवंशत्वादेवास्माकं लोकाग्रहो भविष्यतीति न विमृश्यं यतः ॥ निर्गुण इति ॥ गुणानामेवाग्रह आदरो जनस्य न केवलं कुलीनानाम् । वेणुसंभूतस्य धनुषोऽपि गुणेन ज्यया आ आभिमुख्येन बाणाकर्षणाय ग्रह आग्रहः ॥ च ॥ अभ्यस्येति ॥ कला विद्वत्तादिका तामभ्यभ्यस्य । अस् दैवादिको ल्सहि- प्रत्ययः ॥ छ ॥ निष्कल इति ॥ वीणाध्वनिस्तु निष्कलः कलयितुमशक्यः ॥ ज ॥ १ 'उग्रसेन इव'. २ 'मन्थन'. ३ 'सुवंशेऽपि'.