नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 121, कुल 258 में से
संदर्भ में पढ़ेंचतुर्थ उच्छ्वासः । १०३ अविनीतोऽग्निरिवं दहति ॥ क ॥ अजाततनयश्च्छाग इव नाभिनन्द्यते जनेन ॥ ख ॥ किं च ब्रूमः । सुसहायशून्यस्य भवतो यस्यामीमांसाभियोगा राक्षसा इव, अन्या- याः पारदारिका इव, अयोगक्रिया लोहकारा इव, अश्रुतागमाः शोक- वेगा इव सहायाः ॥ ग ॥ न च ते दुःशिक्षितनृपकलभव्याकरणमार्गेषु निपुणा नर्तकीव मित्रमण्डली ॥ घ ॥ तदायुष्मन्नहितया प्रकृत्या भुजंग इव भयाय लोकस्य ॥ ङ ॥ विनयविस्मृतौ दूषणमाह—अविनीत इति ॥ अविनयी पुमानग्निरिव दाहमुत्पा- दयत्यात्मनः परस्य वा । अविरूर्णाद्युस्तेन नीतो यथाम्निस्तन्नेतारं दहति । ज्वलन्ती हि गड्डरिका स्वीकृता दहतीति लोकोक्तिः । अथवा अविरग्निवाहनम् ॥ क ॥ नन्वात्मदाहकाः पतिविपत्तौ रूयादयः परदाहकाः कामत्रिपुरान्तकप्रभृतयश्च श्रूयन्ते । ततश्चाविनयाद्दाहात्मकपि मां जनः स्तोष्यतीति निरस्यन्नाह—अजा- तेति ॥ न जातो नयो यस्य स छाग इव न स्तूयते जनेन । स्तुतिमपि न प्राप्नो- तीत्यर्थः । छागस्त्वजायास्तनयः सुतः ॥ ख ॥ नन्वात्मनः स्वामी यादृक्तादृग्वा भवतु चेत्सुसहायः । तदपि त्वयि नास्तीत्या- विष्कुर्वन्नाह—सुसहायेति ॥ यस्य ते ईदृशाः सहायाः । न मीमांसाभियोगो विचारोत्साहो येषाम् । राक्षसास्तु मांसेऽभियोगो येषां ते । अमी इति तद्विशे- षणम् । न विद्यते न्यायो येषामित्यन्याया न्यायरहिताः । उपमाने तु अन्यामन्य- संबद्धाशयन्ते गच्छन्तीत्यन्यायाः । परस्त्रीरता इत्यर्थः । अलब्धलाभो लब्धपरिर- क्षणं रक्षितविवर्धनं च योगः । तस्य क्रिया नास्ति येषां ते तथोक्ताः असंबद्धक- र्माणो वा । पक्षे अयो गच्छतीत्ययोगा लोहगता क्रिया येषाम् । तथा न श्रुत आगमः शास्त्रं यैस्ते । शोकप्रसरस्तु अश्रुताया नयनजलत्वस्यागमो येषु ॥ ग ॥ एवं सहायसंपदं निषिध्य मित्रमण्डलीमवद्ययन्नाह—न चेति ॥ दुःशिक्षिक्ष- तेति नृपकलभेति चामन्त्रणम् ॥ ते तव मित्रमण्डली नच व्याकरणमार्गेषु कु- शला । शब्दतत्वावबोधे हि नीतिशास्त्राधिगमः । नीत्यवगमे हि कृत्याकृत्यविमर्श- नम् । तस्मात्संपदः । न च तन्नैपुण्यं भवन्मित्रमण्डल्यामस्तीति भावः । नर्तकी- पक्षे दुःशिक्षितनृपकलेति संबोधनम् । सा च भरतोक्तेषु करणमार्गेषु भव्या प्रशस्ता ॥ घ ॥ तदेति ॥ तदित्युपसंहारे । आयुष्मन्नित्यामन्त्रणे । अहितया हितेतरया । प्रकृत्या अविनयादिस्वभावेन । अयुक्तसहायमित्रलक्षणया चामात्यादिकया युक्तः १ 'स्वात्मानं परं च' २ 'प्रकृत्या युक्तो'