नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 120, कुल 258 में से
संदर्भ में पढ़ें१०२ नलचम्पूः । 'कुमार, राजहंसोऽपि 'अहंसरूपः' इति मा स्म मोहवान्भूः ॥ क ॥ अनुभवति चमूढः शस्त्रसंघात इव कोशशून्यताम् ॥ ख ॥ अविभवः पुरुषो मेष इव कम्बलस्योपयोगं गच्छति ॥ ग ॥ प्रद्युम्नजातोऽपि बाणयुद्धव्यतिकरकारिण्या सदोषया यौवनाव- स्थया निरुद्धोऽनिरुद्ध इव को नाम न क्लेशमनुभवति ॥ घ ॥ ततात, सुविषमेघवर्तिनि विद्युद्विलास इवास्थिरे स्थितस्तारुण्ये मा स्म विस्मरः स्मयेन विनयम् ॥ ङ ॥ कुमारेति ॥ कुमारेत्यामन्त्रणे । राजमुख्योऽपि संस्त्वं सरूपो रूपवानहमि- त्यमुना प्रकारेण । मोहवान् मा स्म भूः मोहं मागाः । रूपमदो हि नीचचिह्नम् । यश्च राजहंसः स कथमहंसस्वरूप इति विरोधद्योतकोऽपिशब्दः ॥ क ॥ ननु यदि रूपादर्हंकाराद्वा नृपो मूढः स्यात्तत्को दोष इत्याशङ्क्याह—अनुभव- तीति ॥ चकारो यौगपद्ये । यदैव कुतो मुह्यति तदैव कोशेन गञ्जेन शून्यतां व्यतिरेकमनुभवति । यथा चम्बा स्वसेनया ऊढो धृतः शस्त्रनिचयः प्रत्याकारशून्य- तामायाति ॥ ख ॥ भ्रष्टकोशस्यापि किं तदाह—अविभवेति ॥ निर्धनः पुमान् अज इव बलस्य सैन्यस्य शक्तेर्वा कमुपयोगं साफल्यं याति न कमपीत्यर्थः । एतेन निष्कोशस्या- बलित्वमिति ख्यापितम् । अजस्तु अवेर्मेण्डाद्भवति स्म । तथा कम्बलस्याच्छाद- नविशेषस्योपयोगं याति ॥ ग ॥ तस्माद्वलस्य का कथेत्याह—प्रद्युम्नेति ॥ यतः प्रद्युम्नजातोऽपि प्रकृष्टौ- जःपुञ्जोऽपि । बाणैः शाब्दैर्यैर्युद्धं कोलाहलस्तत्संपर्ककारिण्या । सह दोषैरिति दो- षान्वितया । तारुण्यावस्थया । निरुद्ध आत्मवशीकृतः । को नाम क्लेशं दुःखं नानु- भवति । सर्वोऽप्यनुभवत्येवेत्यर्थः । नामाभ्युपगमे । द्युम्नं द्रव्यमपि । वणधातुः शब्दार्थो घञन्तः ।' प्रद्युम्नः कामः । तस्माज्जातोऽनिरुद्धाभिधो बाणाख्येन दैत्येन समं युद्धसंबन्धविधायिन्या यौवनेऽवतिष्ठत इति कृत्वा तारुण्ये स्थितया उषया उषाख्यया पत्न्या सदा निरुद्ध आत्मीकृतो दुःखमनुभूतवानित्यागमः । युद्धव्य- तिकरोऽनङ्गसूनोः क्लेशानुभवहेतुः ॥ घ ॥ तत्तातेति ॥ तदित्युपसंहारे । तातेति प्रणयपूर्वामन्त्रणे । तस्माद्वत्स । सुष्ठु- तिशयेन । विषमे । तथाऽघवर्तिनि पापं कारयितरि । अस्थिरे चञ्चले । तथा वि- शेषेण द्योतन्त इति विद्युतो रोचमाना विलासाः शृङ्गारादयो यस्मिन् । तथाविधे तारुण्ये स्थितः सन्स्मयेन गर्वेण विनयं मा स्म विस्मार्षीः । विद्युद्विलासोऽपि सुष्ठु विषं जलं यत्रेति कृत्वा सुजले मेघे वर्तते । तथा अस्थिरो लोलः तथाविधे ॥ङ॥