नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
१०२ नलचम्पूः । 'कुमार, राजहंसोऽपि 'अहंसरूपः' इति मा स्म मोहवान्भूः ॥ क ॥ अनुभवति चमूढः शस्त्रसंघात इव कोशशून्यताम् ॥ ख ॥ अविभवः पुरुषो मेष इव कम्बलस्योपयोगं गच्छति ॥ ग ॥ प्रद्युम्नजातोऽपि बाणयुद्धव्यतिकरकारिण्या सदोषया यौवनाव- स्थया निरुद्धोऽनिरुद्ध इव को नाम न क्लेशमनुभवति ॥ घ ॥ ततात, सुविषमेघवर्तिनि विद्युद्विलास इवास्थिरे स्थितस्तारुण्ये मा स्म विस्मरः स्मयेन विनयम् ॥ ङ ॥ कुमारेति ॥ कुमारेत्यामन्त्रणे । राजमुख्योऽपि संस्त्वं सरूपो रूपवानहमि- त्यमुना प्रकारेण । मोहवान् मा स्म भूः मोहं मागाः । रूपमदो हि नीचचिह्नम् । यश्च राजहंसः स कथमहंसस्वरूप इति विरोधद्योतकोऽपिशब्दः ॥ क ॥ ननु यदि रूपादर्हंकाराद्वा नृपो मूढः स्यात्तत्को दोष इत्याशङ्क्याह—अनुभव- तीति ॥ चकारो यौगपद्ये । यदैव कुतो मुह्यति तदैव कोशेन गञ्जेन शून्यतां व्यतिरेकमनुभवति । यथा चम्बा स्वसेनया ऊढो धृतः शस्त्रनिचयः प्रत्याकारशून्य- तामायाति ॥ ख ॥ भ्रष्टकोशस्यापि किं तदाह—अविभवेति ॥ निर्धनः पुमान् अज इव बलस्य सैन्यस्य शक्तेर्वा कमुपयोगं साफल्यं याति न कमपीत्यर्थः । एतेन निष्कोशस्या- बलित्वमिति ख्यापितम् । अजस्तु अवेर्मेण्डाद्भवति स्म । तथा कम्बलस्याच्छाद- नविशेषस्योपयोगं याति ॥ ग ॥ तस्माद्वलस्य का कथेत्याह—प्रद्युम्नेति ॥ यतः प्रद्युम्नजातोऽपि प्रकृष्टौ- जःपुञ्जोऽपि । बाणैः शाब्दैर्यैर्युद्धं कोलाहलस्तत्संपर्ककारिण्या । सह दोषैरिति दो- षान्वितया । तारुण्यावस्थया । निरुद्ध आत्मवशीकृतः । को नाम क्लेशं दुःखं नानु- भवति । सर्वोऽप्यनुभवत्येवेत्यर्थः । नामाभ्युपगमे । द्युम्नं द्रव्यमपि । वणधातुः शब्दार्थो घञन्तः ।' प्रद्युम्नः कामः । तस्माज्जातोऽनिरुद्धाभिधो बाणाख्येन दैत्येन समं युद्धसंबन्धविधायिन्या यौवनेऽवतिष्ठत इति कृत्वा तारुण्ये स्थितया उषया उषाख्यया पत्न्या सदा निरुद्ध आत्मीकृतो दुःखमनुभूतवानित्यागमः । युद्धव्य- तिकरोऽनङ्गसूनोः क्लेशानुभवहेतुः ॥ घ ॥ तत्तातेति ॥ तदित्युपसंहारे । तातेति प्रणयपूर्वामन्त्रणे । तस्माद्वत्स । सुष्ठु- तिशयेन । विषमे । तथाऽघवर्तिनि पापं कारयितरि । अस्थिरे चञ्चले । तथा वि- शेषेण द्योतन्त इति विद्युतो रोचमाना विलासाः शृङ्गारादयो यस्मिन् । तथाविधे तारुण्ये स्थितः सन्स्मयेन गर्वेण विनयं मा स्म विस्मार्षीः । विद्युद्विलासोऽपि सुष्ठु विषं जलं यत्रेति कृत्वा सुजले मेघे वर्तते । तथा अस्थिरो लोलः तथाविधे ॥ङ॥
चतुर्थ उच्छ्वासः । १०३ अविनीतोऽग्निरिवं दहति ॥ क ॥ अजाततनयश्च्छाग इव नाभिनन्द्यते जनेन ॥ ख ॥ किं च ब्रूमः । सुसहायशून्यस्य भवतो यस्यामीमांसाभियोगा राक्षसा इव, अन्या- याः पारदारिका इव, अयोगक्रिया लोहकारा इव, अश्रुतागमाः शोक- वेगा इव सहायाः ॥ ग ॥ न च ते दुःशिक्षितनृपकलभव्याकरणमार्गेषु निपुणा नर्तकीव मित्रमण्डली ॥ घ ॥ तदायुष्मन्नहितया प्रकृत्या भुजंग इव भयाय लोकस्य ॥ ङ ॥ विनयविस्मृतौ दूषणमाह—अविनीत इति ॥ अविनयी पुमानग्निरिव दाहमुत्पा- दयत्यात्मनः परस्य वा । अविरूर्णाद्युस्तेन नीतो यथाम्निस्तन्नेतारं दहति । ज्वलन्ती हि गड्डरिका स्वीकृता दहतीति लोकोक्तिः । अथवा अविरग्निवाहनम् ॥ क ॥ नन्वात्मदाहकाः पतिविपत्तौ रूयादयः परदाहकाः कामत्रिपुरान्तकप्रभृतयश्च श्रूयन्ते । ततश्चाविनयाद्दाहात्मकपि मां जनः स्तोष्यतीति निरस्यन्नाह—अजा- तेति ॥ न जातो नयो यस्य स छाग इव न स्तूयते जनेन । स्तुतिमपि न प्राप्नो- तीत्यर्थः । छागस्त्वजायास्तनयः सुतः ॥ ख ॥ नन्वात्मनः स्वामी यादृक्तादृग्वा भवतु चेत्सुसहायः । तदपि त्वयि नास्तीत्या- विष्कुर्वन्नाह—सुसहायेति ॥ यस्य ते ईदृशाः सहायाः । न मीमांसाभियोगो विचारोत्साहो येषाम् । राक्षसास्तु मांसेऽभियोगो येषां ते । अमी इति तद्विशे- षणम् । न विद्यते न्यायो येषामित्यन्याया न्यायरहिताः । उपमाने तु अन्यामन्य- संबद्धाशयन्ते गच्छन्तीत्यन्यायाः । परस्त्रीरता इत्यर्थः । अलब्धलाभो लब्धपरिर- क्षणं रक्षितविवर्धनं च योगः । तस्य क्रिया नास्ति येषां ते तथोक्ताः असंबद्धक- र्माणो वा । पक्षे अयो गच्छतीत्ययोगा लोहगता क्रिया येषाम् । तथा न श्रुत आगमः शास्त्रं यैस्ते । शोकप्रसरस्तु अश्रुताया नयनजलत्वस्यागमो येषु ॥ ग ॥ एवं सहायसंपदं निषिध्य मित्रमण्डलीमवद्ययन्नाह—न चेति ॥ दुःशिक्षिक्ष- तेति नृपकलभेति चामन्त्रणम् ॥ ते तव मित्रमण्डली नच व्याकरणमार्गेषु कु- शला । शब्दतत्वावबोधे हि नीतिशास्त्राधिगमः । नीत्यवगमे हि कृत्याकृत्यविमर्श- नम् । तस्मात्संपदः । न च तन्नैपुण्यं भवन्मित्रमण्डल्यामस्तीति भावः । नर्तकी- पक्षे दुःशिक्षितनृपकलेति संबोधनम् । सा च भरतोक्तेषु करणमार्गेषु भव्या प्रशस्ता ॥ घ ॥ तदेति ॥ तदित्युपसंहारे । आयुष्मन्नित्यामन्त्रणे । अहितया हितेतरया । प्रकृत्या अविनयादिस्वभावेन । अयुक्तसहायमित्रलक्षणया चामात्यादिकया युक्तः १ 'स्वात्मानं परं च' २ 'प्रकृत्या युक्तो'
१०४ नलचम्पूः । उग्रसेनः कंसानुरागं जनयेत् ॥ क ॥ अमृतमथनोद्यतहरिबाहुपञ्जर इव मन्दरसानुगतः को न घृष्यते ॥ ख शुनीमिवास्थिरतां परिहर ॥ ग ॥ कुशीलताग्राही मा स्म तैलिक इव केवलं खलोपभोगाय भूः ॥ घ ॥ आवर्जय गुणान् ॥ ङ ॥ निर्गुणे धनुषीव सुवंशयेऽपि कस्याग्रहो भवति ॥ च ॥ अभ्यस्य कलाः ॥ छ ॥ निष्कलो वीणाध्वनिरिव प्रशस्यते न पुरुषः ॥ ज ॥ संबद्धो भवाँल्लोकस्य भयहेतुः । भुजंगस्तु अहेर्भावोऽहिता तया दशनलक्षणया प्रकृत्या युक्तः ॥ ङ ॥ दुष्टप्रकृतिर्नृपंश्लोकस्य भयाय ततः किमित्याशङ्क्याह—उग्रेति ॥ उग्रा सेना यस्य स कं प्राणिं सानुरागं कुर्यात् । न कमपीत्यर्थः । विरागहेतुरेवेति भावः । उचितपरिवारो हि जनानुरागाय । परिवारो हि लोकस्योपद्रवं रक्षणं वा कुरुते । उग्रसेनो दैत्यः स कंसासुरस्यानुरागं जनयतीत्यागमोक्तोल्लिङ्गनम् ॥ क ॥ चेदमी विरुद्धबुद्धयः सहायादयः । पृथिवी वा मयि मन्दानुरागा । ततः किं ममेति निरस्यन्नाह—अमृतेति ॥ मन्दो रसः प्रीतिर्येषां तैर्मन्दानुगण्या पृथ्व्या चानुगत को न घृष्यते । उपमाने तु पुरा देवैः दैत्यैरमृतायाम्भोधिर्ममन्थे । तत्र च मुख्यो बलिष्ठश्च विष्णुः । तस्य भुजपञ्जरो मन्दरनाम्नो गिरेर्मन्थानभूतस्य सानूनि तटानि गतः प्राप्तः सङ्घृष्टः ॥ ख ॥ शुनीमिति ॥ तस्मादस्थिरतां चञ्चलत्वं त्यज ॥ शुनी त्वस्थि रता ॥ ग ॥ कुशीलतेति ॥ कुत्सितं शीलं लौल्यादिलक्षणं यस्य स कुशीलः । तस्य भावः कुशीलता । तां गृह्णातीत्येवंशींलस्तथोक्तस्त्वं केवलं दुर्जनानामुपभोगाय मा स्म भूः । कुशीलो हि दुर्जनानामेवोपयोगी न साधूनाम् । तैलिकस्तु कुशीलक्षणां लतां गृह्णाति । खलः पिण्याकः स एवोपयोगस्तस्य । अयोविकारः कुशी ॥ घ ॥ अकृत्यानि परिहार्य कृत्यमुपदिशन्नाह—आवर्जयेति ॥ ङ ॥ सुवंशत्वादेवास्माकं लोकाग्रहो भविष्यतीति न विमृश्यं यतः ॥ निर्गुण इति ॥ गुणानामेवाग्रह आदरो जनस्य न केवलं कुलीनानाम् । वेणुसंभूतस्य धनुषोऽपि गुणेन ज्यया आ आभिमुख्येन बाणाकर्षणाय ग्रह आग्रहः ॥ च ॥ अभ्यस्येति ॥ कला विद्वत्तादिका तामभ्यभ्यस्य । अस् दैवादिको ल्सहि- प्रत्ययः ॥ छ ॥ निष्कल इति ॥ वीणाध्वनिस्तु निष्कलः कलयितुमशक्यः ॥ ज ॥ १ 'उग्रसेन इव'. २ 'मन्थन'. ३ 'सुवंशेऽपि'.
चतुर्थ उच्छ्वासः। १०५ त्यज जाड्यम् ॥ क ॥ जाड्ययोगेन हिमानी दूष्यतां याति ॥ ख ॥ मा स्म मुखरो भूः ॥ ग ॥ कर्णाटचेटीमिव मुखरतां न शंसन्ति साधवः ॥ घ ॥ भज माधुर्यम् ॥ ङ ॥ धवलवलीवर्दपङ्क्तिरिव समाधुर्या वाणी मनो हरति ॥ च ॥ वर्जय वैपरीत्यम् ॥ छ ॥ विपरीतं शवमिव को न परिहरति ॥ ज ॥ कमलदीर्घाक्ष, शिक्षाक्रमेऽस्मिन्नपरमप्यभिधीयसे ॥ झ ॥ मा गाः स्त्रियाः श्रियो वा विश्वासम् ॥ ञ ॥ आवर्जितशौर्यादिगुणोऽभ्यस्तसप्ततिकलः पुरुषो यस्तब्धः स नश्यते इत्याह— त्यजेति ॥ क ॥ जाड्येति ॥ हि यस्माज्जाड्ययोगेन मानी स्तब्धः पुमान्दूष्यत्वमाप्नोति । हि- मानी हिमंसंहतिः । सापि जाड्यातऽतिशैत्याद्दूष्येत्यर्थान्तरम् ॥ ख ॥ जाड्यपरित्यागे किं पितृमन्त्रिमूखरस्तर्हि स्यामित्येतदपि निषिध्यन्नाह—मास्मे- ति ॥ मुखरो वाचालोऽपि माभूः ॥ ग ॥ कर्णाटेति ॥ यस्मान्मुखरस्य भावं मुखरतां वाचलतां साधवो न स्तुवन्ति । कर्णाटचेटी तु मुखे रतं सुरतं यस्याः ॥ घ ॥ धवलेति ॥ यस्माद्या वाणी सह माधुर्यण सा मनोहारिणी । न च वाचाल- तायां वाचो माधुर्यम् । वृषश्रेणी तु. समा अविषमा । धुर्या धूर्वाहिनी । धुरं वह- तीत्यर्थे 'धुरो यड्ढकौ' इति यत् । अनः शकटम् । अणीं वा । अक्षाग्रकीलिका- मिव हरति वहतीत्यर्थः । वा अथवाऽर्थे ॥ च ॥ वर्जये.ति ॥ पूर्वोक्तादसद्गुणदेशद्वैपरीत्यमन्यथाभावं त्यज ॥ छ ॥ यतः— विपरीतेति ॥ विपरीताचारं को न परिहरति । शवं तु विमिः पक्षि- भिः परीतं व्याप्तम् ॥ ज ॥ सुविनीतानामावर्जितगुणानामभ्यस्तकलानामपि प्रायः प्रभवन्ति व्यसनानि, रक्षितव्यप्रमादाश्च । व्यसनेषु स्त्रीध्वत्यासकिर्महद्व्यसनम् । द्रव्यशरीरयोः क्षयहेतु- त्वात् । स्त्रीव्यसने हि राजयक्ष्मोद्भवः । ततः स्त्रीव्यसनं लक्ष्मीप्रमादं च परिहार- यन्नाह— कमलेति ॥ रूपवान्भवान् सर्वस्त्रीप्रियः स्यादतस्तासु विश्वासकरणं तव तत्कमलदलेत्यामन्त्रणेनाभिहितम् ॥ झ ॥ मागा इति ॥ स्तृणाति दुर्विनीता सती आत्मनः परस्य वा गुणगणं प्रच्छा- १ 'साधवः धवल'. २ 'शिवम्'. ३ 'कमलदलदीर्घाक्ष'. ४ 'प्रक्रमे'. ५ 'धीमन्' ; 'अस्मिन्'. ६ 'स्त्रियः'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
An exact, line-by-line transcription of the Sanskrit text from the page:
अधिकमलवसतिरनार्यसंगता स्त्री श्रीश्च कं न प्रतारयति ॥ क ॥$^१$ याकालकूटद्वितीया नीरोषितापि नार्द्रहृदया भवति । स्वीकृतापि विवाहेन कंसानलङ्घनचापलेनोद्वेजयति ॥ ख ॥
दयतीति स्त्री । यस्यां तु सतीधर्मयोगादस्यार्थस्यान्यथात्वम् । तत्राशृणोति कल्या- णपरंपराभिः स्वकुलं पतिकुलं चेत्यर्थः । तस्या दुर्विनीतायाः स्त्रिया अबलाया विश्वासं विश्रम्भं मात्राजीः । खलोभात्स्वभावाद्वा ता अतीवानुरागं दर्शयन्ति । परं परिणामे विरुद्धा एवेति भावः । तथा विश्वसिन्सर्वत्र निक्षेपस्य योग्थेऽयोग्य वा आस उपवेशनं स्थापनं विश्वासः । तं स्त्रिया लक्ष्म्या मा गाः । धनार्थे हि पितरः पुत्रेभ्यः पुत्राश्च पितृभ्यो द्रुह्यन्तीति । तस्साय एवाद्रोहेण उपधाशुद्धश्च तत्रैवासौ निक्षेपणीयेति भावः ॥ ञ ॥
किमिति स्त्रिया न विश्रम्भणीयम् । श्रीश्च सर्वत्राप्यनिधेयेत्याह—अधीति ॥ अधिको योऽसौ मलः पापं तस्य वसतिरासदम् । तथा अनार्यैरसधुभिः कृतमै- त्रीका स्त्री कं पुरुषं न वञ्चयति । सर्वमपि प्रलम्भयतीत्यर्थः । श्रीस्तु अधिकमलं पद्मे वसतिर्यस्याः । कमलं हि तरणशीलम् । सा च तेनाविनाभावसंबद्धा । ततः पद्मासना श्री कं पुरुषं न प्रकर्षेण तारयति । किंवाविशिष्टा । न नारी अनारी अमा- नुषी । तथा ओ विष्णुः । तत्संगता असंगता ॥ क ॥
याकालेति ॥ या स्त्री अकालेऽकस्माद्यत्कूटं कपटं द्वितीयं यस्याः । तथा नोरोष्यते स्मेति नीरोषिता प्रसादिताप्यार्द्रहृदया स्निग्धहृदया न भवति । तथा विवाहेनोपयामेन सानलमग्निसाक्षिकं स्वीकृतापि सा स्त्री कं पुरुषं घनेन लौल्येन नोद्वेजयति । श्रीपक्षे कालकूटं विषं द्वितीयमस्याः । तदनन्तरमुत्पन्नत्वात् । तथा नीरे जले उषिता । जलधिपुत्रीत्वात् । परं नार्द्रहृदया । किं तु निर्जलवक्षाः । दैवतानुभावाज्जलेन तद्वक्षो वैसादृश्यं न नीतमिति भावः । तथा आप्रोत्यवश्यमि- त्यापी स्मृतमात्रागामुको यो विः पक्षी गरुडलक्षणः स वाहो वाहनं यस्य । तथा कंसासुरस्य न अलङ्घनमनलङ्घनम् । अर्थातुकंसस्य लङ्घनं मारणात्मकम् । तथाभूतं चापलं यस्य । अर्थाद्विष्णुस्तेन स्वीकृता । तथा उश्च अथ वा शिवविष्णू उत्कृष्टौ वौ यस्य स उद्वः (ईश्वरो विष्णुश्च यस्य प्रसन्नः) तस्मिन् जयति । अथवा या श्रीर्विष्णुना स्वीकृतापि सती नीरे उषिता । कालकूटद्वितीयापि सती घनस्य मेघ- स्य चापलेन विलसितेन कंसमेव जगत्संतापकारित्वादनलमुद्वेजयति पीडयति अर्था- च्छमयितरि विवाहे गरुडवाहने आर्द्रहृदया न न भवति । भवत्येवेत्यर्थः । या किल कालकूटद्वितीया सा कथमिवार्द्रहृदयेति विरोधोद्भावनयापिशब्दो भिन्नक्रमे । आर्द्रशब्दोऽत्र स्निग्धार्थः । यदि वा विवाहो विष्णुस्तेनापि श्रीः स्वीकृता । तत उपादेयेत्यर्थः । अपिरत्रापि भिन्नक्रमे ॥ ख ॥
१ ‘विप्रतारयति’.
चतुर्थ उच्छ्वासः । १०७ अस्याः कारणेऽभ्रान्तः समस्तोमन्दरागः सदालोकः, लोलनेत्री- कृता धृष्टा भुजंगमण्डली, प्राप्नो जलधी राजकुमारपराभवम् ॥ क ॥ अनयावष्टब्धः को न गुरुवौरणयोग्यो भवति, को न वाजिपृष्ठमौ- रोहति, कः कंकणन्नवञ्चनातः प्रकटयति, कः कण्ठे हारावमोचनं न कुरुते, को न काञ्चनशृङ्खलामनुभवति । कुरङ्ग इवान्धीभूतः को वागुरावैञ्चनं करोति, कः कार्मुकनिर्मुक्तशिलीमुख इव न वैलक्ष्य- मागच्छति ॥ ख ॥ अस्या इति ॥ अस्याः श्रिया हेतोर्लोकः समस्तोऽप्यमन्दरागो दृढानुरागः स- न्सदा भ्रान्तः । तथा भुजंगानां विटानां मण्डली चपलाक्षीकृता सती धृष्टा विप्र- लब्धा । तथा जडा धीरस्येति जडधीर्जडबुद्धिः राज्ञः सकाशात् कुत्सितो योऽसौ मारः पञ्चबिल्वादिबन्धने न विगोप्यहिंसा स एव पराभवस्तं प्राप्तः । अथवा राज्ञ- स्तथा कुत्सिताच्च मारात् स्मरात्पराभवं प्राप्नोति कुबुद्धिः । 'अपि भ्राता सुतो- ऽर्च्यो वा श्वशुरो मातुलोऽपि वा । नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्धि चलितः स्वकात्' इति स्मार्ताः । ततः स्वपितुरपि राज्ञः सकाशाद्राजकुमारस्यान्यायवतः परिभवो युज्यत एव । पक्षे अस्याः श्रियो निमित्ते । मन्दरोऽगः पर्वतः । अभ्र- माकाशमन्तोऽस्येत्यभ्रान्तो व्योमावसानः । सन्नू शोभन आलोकोऽस्येति सदालोकः । सम्यगस्तः क्षिप्त इत्यर्थः । संपूर्वादस्यतेः क्तः । यद्वा सम्यगस्तः सन्नप्सु भ्रान्तः क्षुब्धोऽभ्रान्तः ( अर्थान्तरे भङ्गित्त्वेन न दोषः ) । तथा अलोलनेत्रं लोलनेत्रं कृता भुजंगमण्डली वासुकिप्रभृतिनागमण्डली । नेत्रं मन्थानरज्जुः । तथा जल- धिरब्धिः पराभवं मन्थनलक्षणं प्राप्तः । राजकुमारेल्यामन्त्रणे ॥ क ॥ अनयेति ॥ अनया श्रिया आश्रितः कः पुरुषो गुरूणां वारणे निषेधे । वा अथवाऽर्थे । आजिः कलहः । वञ्चनाया वञ्चनातः ( पञ्चम्यास्तसिल् ) प्रतारणात् । कं सुखं वञ्चनाकृतं सुखमित्यर्थः । कणन् शब्दायमानः । को न प्रकटयति । कण्ठे गलान्तः हा इति य आरावास्तस्य मोचनम् । कांचनेति कांचिदर्थे । शृङ्खलां बन्ध- नम् । गुरौ गुरुविषये अञ्जना पूजा । कुरङ्गपक्षे वागुराया मृगजालिकाया वञ्चना । पराभवादेः प्रागवस्थाया विसदृशो लक्ष्यत इति विलक्षः । तस्य भावो वैलक्ष्यम् । धनुर्मुुक्तबाणस्तु वै स्फुटं लक्ष्यं वेध्यमायाति । पक्षे अनया लक्ष्म्या । गुरुर्महान् वारणो गजः । वाजिपृष्ठं तुरंगपृष्ठम् । कंकणं हस्तसूत्रम् । नवमविच्छायम् । चः समुच्चये । नेति निषेधे । अतोऽस्या इत्यर्थः । हारस्य मुक्तासरस्य । अवमोचनं बन्धनम् । काञ्चनस्य शृङ्खलामाभरणविशेषम् । अगौरवार्हं नीचे । अन्धीभूतो निर्विवेकः । अपिंतु सविवेकः सन्गुरुनेव पूजयति । वै स्फुटम् । लक्षं शतसहस्रं नाप्नोति ॥ ख ॥ १ 'भुजंगावली.' २ 'वारण'. ३ 'अधिरोहति'. ४ 'वञ्चनां न'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
कस्य न पराभूतिर्भवति । कस्य नापूर्व यशः समुच्छलति ॥ क ॥ किमतोऽप्यस्याः परमुच्यते ॥ ख ॥ यादवप्रियं शार्दूलमिव शूरं महत्तरं भयान्नोपसर्पति । सुनयनादे- वरं सिंहमिव बलभद्रं दृष्ट्वा प्रपलायते । न वसुदेवेऽपि चक्षुः पातयति ॥ ग ॥ केवलमनवरतशिक्षितवैदग्ध्यकलापराधात्मिकात्रपापरापरिहृत्य गु- णिनो गुरून्परपुरुषे मायाविनि कृतकेशिवधे धृतमन्दरागे रागं बध्नाति ॥ घ ॥
कस्येति ॥ क्लीवभागस्य पराभूतिः पराभवः। प्रतिषेधवाची अः पूर्वो यस्माद्य- शःशब्दस्वरूपात्तदपूर्वं यशोऽयश इत्यर्थः । पक्षे परा प्रकृष्टा भूतिरुन्नतिः । अपूर्व- मुत्कृष्टं यशः ॥ क ॥ खस्थावस्थायां स्त्रैणानि वञ्चनाकूटराजपराभवादीन्यभिधाय संप्रति परं परि- णामे यत्स्यात्तदाह—यादवेति ॥ दवमुपतापं प्रीणाति दवप्रियं रागणम् । अथवा दुनोतीति दवः कुतश्चिद्वैगुण्यादुपतापजनको यः प्रियः कान्तस्तं शूरं वि- क्रान्तं महत्तरं वृद्धं भयान्न समीपे व्रजति । अगमने वार्धकं भये च शूरत्वं हेतुः । शार्दूलपक्षे दवः काननम् । सुनयेति नयप्रवर्तनप्रोत्साहनायामामन्त्रणम् । नादे शब्दे, वरं प्रियंवदं, बलेन शक्त्या भद्रं, दृष्ट्वापि प्रणश्यति । प्रियमिति शेषः । सिंहस्तु नादे शब्दे वरः सिंहनादस्य प्रतीतत्वात् । तथा वसुदे धनप्रदे । अवे रक्षकेऽपि चक्षुर्नयनं न पातयति । संमुखमपि नालोकत इत्यर्थः । यदिवा वेपते- ऽवश्यमिति वेपीति चक्षुर्विशेषणम् । पक्षे यादवा यदुवंश्यास्तेषां प्रियः शूरनामा- द्यपुरुषस्तं भयात्स्थितिलङ्घनलक्षणात् नोपसर्पति न तत्समीपे व्रजति । एतेन श्वशुरो वध्वा न स्पृश्यते इति स्थितिरुक्ता । शोभने नयने यस्याः सा देवरं गदनामानं कृष्णस्य गदाग्रजत्वात् । बलभद्रमपि ज्येष्ठसंबन्धेन प्रतीतं वीक्ष्य प्रकर्षेण पलायते स्पर्शभयात् । तथा वसुदेवः कृष्णस्य पिता ॥ ग ॥ यदीदृशे परमोपकारिणि न प्रेमवती स्त्री, तदान्यत्र कस्मिन्नपि गुणिणि प्रेम- बन्धं विधास्यतीति निरस्यन्नाह—केवलेति ॥ नूयते इति नवं प्रशस्यं न नवम- नवमप्रशस्यं रतं यस्याः । केवलं बीजक्षयहेतुत्वात् । नहि तस्याः संततिः। रतं च संतत्या सफलम् । तथा विशेषेण दग्धो विदग्धः। तस्य भावो वैदग्ध्यं संतापस्तस्य कला वैदग्ध्यकला शिक्षिता यया । पश्चात्कर्मधारयः । अपराधा एवात्मा स्वरूपं यस्याः। तथा न त्रायते नरकाद् अत्रं तथाभूतं यत्पापं कमप्युपसर्गं राति ददाती- त्यत्रपापरा । गुरून् पित्रादीन् गुणिनः सगुणांश्च ग्राह्यपुरुषान् परिहृत्य परस्याः पुरुषेऽन्यनारीकान्ते मायाविनि कापटिके कृतके कृत्रिमे अशिवमकल्याणं दधाती-
१ 'गदमिव'. २ 'दृष्ट्वापि'. ३ 'पलायते'.
चतुर्थ उच्छ्वासः । १०९ तदायूष्मन्नतिगम्भीरगुहा गिरीन्द्रभूरिव हृदयहराश्रेयोऽर्थिनां शरणं नै स्त्री श्रीर्वा ॥ क ॥ शृङ्गारप्रधानास्तात, गाव ईव विचारिताः सरसा भवन्ति नै स्त्रियः ॥ ख ॥
ल्यशिवधे मन्दरागे क्षणप्रेमण्यनुरज्यते । परपुरुष इत्यत्र सर्वनामत्वाद्द्वृत्तौ पूर्वप- दस्य पुंवत्त्वम् । पक्षे अनवरतं शश्वच्छिक्षितो वैदग्ध्यकलापो दक्षतातिशयो यया सा चासौ राधात्मिका । राधा च कृष्णपत्नी । सापि श्रिया एव भेदः । त्रपापरा सलज्जा सती । गुणिनो गुरुञ्छूरादीन्यदूनामादिपुरुषान् परिहृत्य परपुरुषे मुरारौ रागं प्रीतिं बध्नाति । किम्भूते माया त्रिलोकीनिर्माणलक्षणा वामननृसिंहमहिलात्वा- दिलक्षणा वा विद्यते यस्य । तथा कृतः केशिनोऽस्वरूपस्य दैत्यस्य वधो येन । तथा धृतो मन्दरनामाऽगोऽद्रिर्येन ॥ क ॥ एवमुक्तकपटानामनाईहृदयत्वादिवोपान्वितानां स्त्रीणां विश्वासं विश्रम्भं स्त्रीणां च विश्वासं यत्र तत्र निक्षेपं सर्वथा परिहरन्सर्वोऽप्यायुष्मानित्यायुष्मन्निति संबोधने- नाभिहितम् । तदित्युपसंहारे । श्रेयोर्थिनां पुण्यार्थिनां स्त्री न रक्षित्री । कीदृशी । हृदयं चेतो हरति मोहकारिणी । एतेन क्षयहेतुत्वमुक्तम् । तथा अतिगमतिशयेन बिभेतीति भीर्भीरुः स्त्रीस्वभावत्वात् । अथवा भीर्भयहेतुत्वात् । दुष्टाशयत्वात् । तथा न गौर्वाग्यस्य सोऽगुस्तं जहाति अगुहा । य एव मायामयं वक्तुं वेत्ति क्षण- मपि तमेव श्रयतीत्यर्थः । अथवा गौर्धन्वर्थः । तच्चोपलक्षणम् । तेन निर्धनं वि- हाय धनिनमेवाश्रयतीति । यदिवा नतौ नम्रतायां गम्भीरा गौर्वाग्यस्य तमपि जहा- तीत्यर्थः । नच भवादृशाश्चाद्वनि कुत्रापि वक्तुं प्रभविष्णवः । सर्वोन्नतत्वात् । यदिवा अतिगमतिशयम् भियं राति ददातीति भीरा गौर्यस्य तमतिगम्भीरगुं जहाति । हिमाचलभूरपि अतिगम्भीरा गुहाः पाषाणसन्धयो यस्याम् । श्रीश्चाश्रेयोऽर्थिनां न शरणम् । किंतु श्रेयोऽर्थिनाम् । कीदृशी हृत्स्वान्तं तथाऽयं शुभकर्म हरति । तत्प्राप्त्या शुभकर्मणो भुक्तत्वात् । यदुक्तं नैषधे— 'पूर्वजन्मविभवव्ययसृष्टाः संपदोऽथ विपदश्च विमृष्टाः' इति । गौरी अपि हृदये हरो यस्याः । तथा नतिग- म्भीरः प्रणामप्रगल्भो गुहः कार्तिकेयो यस्याः । तत्पुत्रत्वात् ॥ क ॥ अधुना दुःस्त्रियः सर्वथा परिहार्य साध्या अपत्यन्तविश्वासप्रतिषेधद्वारेण 'सेवेत विषयान्काले मुक्त्वा तत्परतां वशी । सुखं हि फलमर्थस्य तन्निरोधे वृथा श्रियः' इति पूर्वकृतिकथितमनुगामुकोऽप्यासक्तिमनासक्तिं च निषेधयन्नाह— शृङ्गारेति ॥ रूक्षशिक्षावचोभिरास्त्राकीनैरसौ विमनस्को भविष्यतीति चित्ते धारयन् कृत्यं चोपदिशन् तातेति कोमलमामन्त्रयति । शृङ्गारो रसः प्रधानं यासु । तथा विचारिता विवेचिता गावो गिर एव सरसाः प्रीतिहेतवो भवन्ति । अथवा
१ 'न पुनः स्त्री श्रीश्च'; 'न लक्ष्मीः स्त्री च'. २ 'एव'. ३ 'श्रियः स्त्रियश्च'.
१०८ नलचम्पूः । कस्य न पराभूतिर्भवति । कस्य नापूर्वं यशः समुच्छलति ॥ क ॥ किमतोऽप्यस्याः परमुच्यते ॥ ख ॥ यादवप्रियं शार्दूलमिव शूरं महत्तरं भयान्नोपसर्पति । सुनयनादे- वरं सिंहमिव वलभद्रं दृष्ट्वा $^२$ प्रपलायते $^३$ । न वसुदेवेऽपि चक्षुः पातयति ॥ ग ॥ केवलमनवरतशिक्षितवैदग्ध्यकलापराधात्मिकात्रपापरापरिहृत्य गु- णिनो गुरून्परपुरुषे मायाविनि कृतकेशिवधे धृतमन्दरागे रागं बध्नाति ॥ घ ॥ कस्येति ॥ स्त्रीवशगस्य पराभूतिः पराभवः । प्रतिषेधवाची अः पूर्वो यस्माद्य- शःशब्दस्वरूपात्तदपूर्वं यशोऽयश इत्यर्थः । पक्षे परा प्रकृष्टा भूतिरुन्नतिः । अपूर्व- मुत्कृष्टं यशः ॥ क ॥ खस्थावस्थायां छैणानि वञ्चनाकूटराजपराभवादीन्यभिधाय संप्रति परं परि- णामे यत्स्यात्तदाह—यादवेति ॥ दवमुपतापं . प्रीणाति दवप्रियं रागगणम् । अथवा दुनोतीति दवः कुतश्चिद्वैगुण्यादुपतापजनको यः प्रियः कान्तस्तं शूरं वि- क्रान्तं महत्तरं वृद्धं भयान्न समीपे व्रजति । अगमने वार्धकं भये च शूरत्वं हेतुः । शार्दूलपक्षे दवः काननम् । सुनयेति नयप्रवर्तनप्रोत्साहनायामामन्त्रणम् । नादे शब्दे, वरं प्रियंवदं, बलेन शक्त्या भद्रं, दृष्ट्वापि प्रणश्यति । प्रियमिति शेषः । सिंहस्तु नादे शब्दे वरः सिंहनादस्य प्रतीतत्वात् । तथा वसुदे धनप्रदे । अवे रक्षकेऽपि चक्षुर्नयनं न पातयति । संमुखमपि नालोकत इत्यर्थः । यदिवा वेपते- ऽवश्यमिति वेपीति चक्षुर्विशेषणम् । पक्षे यादवा यदुवंश्यास्तेषां प्रियः शूरनामा- द्यपुरुषस्तं भयात्स्थितिलङ्घनलक्षणात् नोपसर्पति न तत्समीपे व्रजति । एतेन श्वशुरो वध्वा न स्पृश्यते इति स्थितिरुक्ता । शोभने नयने यस्याः सा देवरं गदनामानं कृष्णस्य गदाग्रजत्वात् । बलभद्रमपि ज्येष्ठसंबन्धेन प्रतीत वीक्ष्य प्रकर्षेण पलायते स्पर्शभयात् । तथा वसुदेवः कृष्णस्य पिता ॥ ग ॥ यदीदृशे परमोपकारिणि न प्रेमवती स्त्री, तदान्यत्र कस्मिन्नपि गुणिने प्रेम- बन्धं विधास्यतीति निरस्यन्नाह—केवलेति ॥ नूयते इति नवं प्रशस्यं न नवम- नवमप्रशस्यं रतं यस्याः । केवलं बीजक्षयहेतुत्वात् । नहि तस्याः संततिः । रतं च संतत्या सफलम् । तथा विशेषेण दग्धो विदग्धः। तस्य भावो वैदग्ध्यं संतापस्तस्य कला वैदग्ध्यकला शिक्षिता यया । पश्चात्कर्मधारयः । अपराधा एवात्मा स्वरूपं यस्याः । तथा न त्रायते नरकाद् अत्रं तथाभूतं यत्पापं कमप्युपसर्गं राति ददाती- त्यत्रपापरा । गुरून् पित्रादीन् गुणिनः सगुणांश्च ग्राह्यपुरुषान् परिहृत्य परस्याः पुरुषेऽन्यनारीकान्ते मायाविनि कापटिके कृतके कृत्रिमे अशिवमकल्याणं दधाती- १ 'गदमिव'. २ 'दृष्ट्वापि'. ३ 'पलायते'.
चतुर्थ उच्छ्वासः । १०९ तदायूष्मन्नतिगम्भीरगुहा गिरीन्द्रभूरिव हृदयहराश्रेयोऽर्थिनां शरणं न॑ स्त्री श्रीर्वा ॥ क ॥ शृङ्गारप्रधानास्तात, गाव इव² विचारिताः सरसा भवन्ति न³ स्त्रियः ॥ ख ॥ ल्यशिवधे मन्दरागे क्षणप्रेमण्यनुरज्यते । परपुरुष इत्यत्र सर्वनामत्वाद्दृत्तौ पूर्वप- दस्य पुंवत्त्वम् । पक्षे अनवरतं शश्वच्छिक्षितो वैदग्ध्यकलापो दक्षतातिशयो यया सा चासौ राधात्मिका । राधा च कृष्णपत्नी । सापि श्रिया एव भेदः । त्रपापरा सलज्जा सती । गुणिनो गुरूञ्छूरादीन्यदूनामादिपुरुषान् परिहृत्य परपुरुषे मुरारौ रागं प्रीतिं बध्नाति । किम्भूते माया त्रिलोकीनिर्माणलक्षणा वामननृसिंहमहिलात्वा- दिलक्षणा वा विद्यते यस्य । तथा कृतः केशिनोऽस्वरूपस्य दैत्यस्य वधो येन । तथा धृतो मन्दरनामाऽगोऽद्रिर्येन ॥ क ॥ एवमुक्तकपाटानामनाईहृदयत्वादिदोषान्वितानां स्त्रीणां विश्वासं विश्रम्भं स्त्रीणां च विश्वासं यत्र तत्र निक्षेपं सर्वथा परिहरन्सर्वोऽप्यायुष्मानित्यायुष्मन्निति संबोधने- नाभिहितम् । तदित्युपसंहारे । श्रेयोऽर्थिनां पुण्यार्थिनां स्त्री न रक्षित्री । कीदृशी । हृदयं चेतो हरति मोहकारिणी । एतेन क्षयहेतुत्वमुक्तम् । तथा अतिगमतिशयेन बिभेतीति भीर्भीरुः स्त्रीस्वभावत्वात् । अथवा भीर्भयहेतुत्वात् । दुष्टाशयत्वात् । तथा न गौर्वाग्यस्य सोऽगुस्तं जहाति अगुहा । य एव मायामयं वक्तुं वेत्ति क्षण- मपि तमेव श्रयतीत्यर्थः । अथवा गौर्धेन्वर्थः । तच्चोपलक्षणम् । तेन निर्धनं वि- हाय धनिनमेवाश्रयतीति । यदिवा नतौ नम्रतायां गम्भीरा गौर्वाग्यस्य तमपि जहा- तीत्यर्थः । नच भवादृशाश्वाद्गनि कुत्रापि वक्तुं प्रभविष्णवः । सर्वोन्नतत्वात् । यदिवा अतिगमतिशयम् भियं राति ददातीति भीरा गौर्यस्य तमतिगम्भीरगुं जहाति । हिमाचलभूरपि अतिगम्भीरा गुहाः पाषाणसन्धयो यस्याम् । श्रीश्चाश्रेयोऽर्थिनां न शरणम् । किंतु श्रेयोऽर्थिनाम् । कीदृशी हृत्स्वान्तं तथाऽयं शुभकर्म हरति । तत्प्राप्त्या शुभकर्मणो भुक्तत्वात् । यदुक्तं नैषधे— 'पूर्वजन्मविभवव्ययसृष्टाः संपदोऽथ विपदश्च विमृष्टाः' इति । गौरी अपि हृदये हरो यस्याः । तथा नतिग- म्भीरः प्रणामप्रगल्भो गुहः कार्त्तिकेयो यस्याः । तत्पुत्रत्वात् ॥ क ॥ अधुना दुःस्त्रियः सर्वथा परिहार्य साध्या अपत्यन्तविश्वासप्रतिषेधद्वारेण 'सेवेत विषयान्काले मुक्त्वा तत्परतां वशी । सुखं हि फलमर्थस्य तन्निरोधे वृथा श्रियः' इति पूर्वकविकथितमनुगामुकोऽप्यासक्तिमनासक्तिं च निषेधयन्नाह— शृङ्गारेति ॥ रूक्षशिक्षावचोभिरास्माकीनैरसौ विमनस्को भविष्यतीति चित्ते धारयन् कृत्यं चोपदिशन तातेति कोमलमामन्त्रयति । शृङ्गारो रसः प्रधानं यासु । तथा विचारिता विवेचिता गावो गिर एव सरसाः प्रीतिहेतवो भवन्ति । अथवा १ 'न पुनः स्त्री श्रीश्च'; 'न लक्ष्मीः स्त्री च'. २ 'एव'. ३ 'श्रियः स्त्रियश्च'.
तदेताः कंदर्पकण्डूक्षणविनोदमात्रोपकारिण्यो नात्यन्तविश्वास- योग्याः सर्वथा विश्वस्तं विश्वासमेव नरं कुर्वन्ति स्त्रियः ॥ क ॥ श्रियोऽपि दानोपभोगाभ्यामुपयोगं नयेत् । न लोभं कुर्यात् बहुलोभानुगतः किरणकलापोऽपि संतापयति जनम् ॥ ख ॥ अतः पुत्र, प्राप्स्यसि नचिरात्निजकुलकमलराजहंसीं राज्यश्रियम् ॥ अनवरतं कृतयशोदानन्देहि नारायण इव त्वयि चिरं रंस्यते खल्वियं लक्ष्मीः ॥ ग ॥ पाहि प्रजाः ॥ प्रजापो ब्राह्मण इव क्षत्रियोऽपि न लिप्यते पोतकैः ॥ घ ॥ गावो विशेषेण चारिता दत्तास्वादवृत्तणकवलाः । तथा शृङ्गस्यारमग्रं प्रधानं यासु । तास्तथोक्ताः । तथा सरसाः सदुग्धाः । स्त्रियस्तु शृङ्गारो मण्डनं प्रधानं यासाम् । विचारिताः स्तृणन्तिं दुःशीलाः सत्यो गुणगणं छादयन्तीति तत्त्वतो विमृष्टाः सत्यो न सरसाः । किंतु वैराग्यहेतवः ॥ ख ॥ तदेता इति ॥ तत्तस्माद्धेतोरेताः स्त्रियो नात्यन्तं विश्रम्भाः । कियदेवे- त्यर्थः । तत्र हेतुमाह—कंदर्पेत्यादि । सर्वथा विश्वन्धं नरं स्त्रियो विगतश्वासमिव कुर्वन्ति । तत् साध्योऽपि नात्यन्तं विश्रम्भाः । तथाच चाणक्यः—'अन्तर्गृ- हगतः स्थविरस्त्री-परिशुद्धां देवीं पश्येत् । अपरिशुद्धां न कांचिदभिगच्छेत्' । श्रूयते हि—'देवीगृहगतो भ्राता भद्रसेनं जघान मातुः शय्यान्तर्गतश्च पुत्रः कारूपम्' इत्यादि ॥ क ॥ स्त्रीणां दोषान्कण्डूविनोदमात्रफलं चाभिधाय संप्रति स्त्रीणां फलमाह— श्रि- योऽपीत्यादि ॥ लोभे दूषणमाह—वहिति । बहुना लोभेनानुगतः । करौघस्तु । बहुलः प्राज्यः । तथा भानुं रविं गतो भानवीय इत्यर्थः ॥ ख ॥ यदि लोभवता मया संतप्यते जनस्तत्किमित्याशङ्कयाह—अत इति ॥ अत एतस्माज्जनाच्छ्रियमाप्स्यसि । जनानुरागप्रभवा हि संपदः । अथवा एतस्मात्पूर्वो- क्तादस्मदुपदेशात् । प्राप्य च श्रियं निरन्तरं कृतं यशो येन तद्वानं देहि धर्मादि- पात्रेषु श्रियं नियुङ्क्ष्वेति भावः । खलु निश्चितमियं लक्ष्मीः पात्रेषु व्यवकलयति त्वयि विष्ण्वाविव बहुकालं सहर्षं स्थास्यति । विष्णौ कीदृशि । कृतो यशोदाख्याया जनन्या आनन्दो येन तस्मिन् । हि स्फुटम् ॥ ग ॥ बलादपि प्रजाभ्यो वित्तमादाय पात्रेषु मयोपकरणीयमिति मा कृथा हृदि तदाह—पाहीति ॥ पालय प्रजाः । यस्मात्प्रजां पाति यः क्षत्रियः स न पापी। ब्राह्मणस्तु प्रकृष्टो जपो यस्य स प्रजापः । जपनं जापः ॥ घ ॥ १ 'श्रियः स्त्रियोऽपि'. २ 'दानोप'. ३ 'पापैः'.
चतुर्थ उच्छ्वासः। १११ मा च वृद्धिं प्राप्य गुणेषु द्वेषं¹ कार्षीः । व्याकरणे हि वृद्धिर्गुणं बाधते, न सत्पुरुषेषु ॥ क ॥ वत्स मा चैवं चेतसि कृथाश्छान्दसोऽयम् । छान्दसश्च गुरुर्वक्र- स्वभाव एव भवति तत्किमानेनेति यस्माच्चतुरानन्दिपदः पुण्यश्लोको भवान् । अतोऽङ्गभावं यान्ति ते वक्रोक्तयोऽपि गुरवः । सरलतया लघवोऽप्यन्तरङ्गा भवन्ति । किंतु ते ह्यवसाने कुटिलतामपि दर्शय- न्ति ॥ ख ॥ तत्किं बहुना । तथा भव यथा तात त्रैलोक्योदरदर्पणे । विशेषैर्भूषितस्तैस्तैर्नित्यमात्मानमीक्षसे ॥ १७ ॥ किं चान्यत् । बिभर्ति यो ह्यर्जुनवारि पौरुषं करोति नम्रे च न वा रिपौ रुपम् । न तेन राज्ञा सहसागराजिता भवेन्मही किं सहसागरा जिता १८ मा चेति ॥ वृद्धिं राज्यादिसमृद्धिम् । गुणेषु पाण्डित्यादिषु । हि यस्माद्गुणबा- धिका वृद्धिरिति वैयाकरणसमयः ॥ क ॥ इदानीं शिक्षामभिधायात्मनोपदिष्टे आदरपरं कुमारं कुर्वन्मृदुवचोभिः प्रोत्साह- यन्नाह—वत्सेत्यादि ॥ छन्दो वेदः छन्दःशास्त्रं च । गुरुस्त्वोपदेष्टा छन्दोह- ष्टलघुद्वितीय आकारादिश्च । यस्मात्कारणाद्भवान्पुण्यश्लोकः पवित्रयशाः । तथा चतु- रानन्दयति । तथाविधं पदं राज्यलक्षणं यस्य । अतो वक्रवचसोऽपि गुरवः । तेन च अङ्ग तव भावं भावनां यान्ति । त्वयि भावितात्मानो भवन्तीत्यर्थः । अ- ङ्गेति कोमलामन्त्रणे । सरलतया एकमार्गतया लघवो लघुवृत्ता अप्यन्तरङ्गाश्चेतो- भिग्रेताः स्युः । परं तेऽन्ते कौटिल्यमपि प्रकाशयन्ति । अथ च पुण्यः श्रेयान् श्लोकः पद्यम् । तदा चत्वारि आनन्दीनि पदानि पादा यस्य ते प्रसिद्धा गुरवो वक्राकृतयोऽङ्गभावमवयवत्वं यान्ति । श्लोकस्येति शेषः । सरलतया ऋजुतया लघवो लेखाकृतयोऽन्तरङ्गा मध्यगताः स्युः । परमन्ते पादान्ते कुटिला अपि स्युः। 'वा पादान्ते लसौ ग्वक्र' इति वचनात् ॥ ख ॥ तथेति ॥ तातेति कोमलामन्त्रणे । तथा तेन प्रकारेण भव यथा तैस्तैरस्म- दुपदिष्टैः प्रजात्राणादिभिर्विशेषैरुपलक्षितमात्मानं भुव्युषितः पृथिवीस्थित एव त्रैलो- क्यमेव योऽसौ दर्पणस्तत्र नित्यमविनश्वरं पश्यसि । अन्योऽपि तैस्तैराकल्पविशेषै- र्मण्डितमात्मानं दर्पणे पश्यतीति । यशोऽर्थमेव प्रयतितव्यमिति भावः ॥ १७ ॥ बिभर्तीति ॥ अर्जुनमेव वृणोत्याच्छादयति वारयति वेत्येवंशीलं निजप्रकर्षेण १ 'प्रद्वेषम्'. २ 'सत्पुरुषे'. ३ 'सरलतया युक्ताः'. ४ 'अवमाने'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
११२ नलचम्पूः । अपि च । 'किं तेन जातु जातेन मातुर्यौवनहारिणा । आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा' ॥ १९ ॥ एवमुक्त्वा विश्रान्तवाचि वाचस्पतिसमे मन्त्रिणि राजापि प्रेमार्द्र- या दृशा नलमवलोक्य वक्तुमारभत ॥ क ॥ 'तात, युक्तमुक्तोऽसि सालङ्कायनेन । कस्यान्न्यस्य निर्यान्ति वदनारविन्दादेवंविधाः पदे पदेऽर्थसमर्था मृद्व्यो मृष्टाः श्लिष्टाश्च वाचः ॥ ख ॥ तद्दर्शितस्तवानेन निर्वापितदेहः स्नेहः । स्वीकृतस्त्वं मनसा सम- स्तसाम्राज्यभारोद्वहनधुर्यतां प्रति । तेनायमनुशास्ति ॥ ग ॥ युज्यते चैतत् ॥ तथाहि । संग्रहं नाकुलीनस्य सर्पस्येव करोति यः । स एव श्लाघ्यते मन्त्री सम्यग्गारुडिको यथा ॥ २० ॥ किं च । न पश्यसि सांप्रतमिदमस्माकमतिभीरुभूपालमण्डलमिव वलिभि- राक्रान्तम् अशेषमङ्गम् अतिजीर्णशीर्णकर्पटमिवावरीतुं न शक्यते । तच्चरित्रापह्नवकारि पौरुषं यो राजा धत्ते । अथवा नम्रे रिपौ शत्रावपि रुषं कोपं नच नैव करोति । धर्मविजयत्वात् । तेन राज्ञा अगराजिता अष्टसंख्यकुलाचलाल- कृता । तथा सहसागरा ससमुद्रा सहसा बलेन किं मही न जिता भवेत् । जितै- वेति भावः ॥ १८ ॥ किं नेति ॥ मातुर्जनन्यास्तारुण्यमुषा तेन जातेन किम् । किमपि नेत्यर्थः । यो जातु कदाचिदपि स्वस्यान्वयस्याग्रं नारोहति । अग्रेगण्यतां न यातीत्यर्थः । ध्वजपक्षे वंशो वेणुः ॥ १९ ॥ संग्रहमिति ॥ न निषेधे । अकुलीनस्यानभिजातस्य । सर्पस्य तु नाकुर्वल्मीक- स्तत्र लीनस्य । कर्मणामारम्भोपायः पुरुषद्रव्यसंपत् । देशकालविभागो विनिपात- प्रतीकारः, कार्यसिद्धिश्चेति पञ्चाङ्गो मन्त्रः गारुडाद्विषयश्चेति योगान्मन्त्रिणावमा- त्याहितुण्डिकौ ॥ २० ॥ नेति ॥ वलयस्त्वक्शैथिल्यानि । बलिनो बलवन्तश्च । आवरणं संव्यानम् । अ- ङ्गपक्षे संवरणम् । निःसौष्ठवादशक्यम् । उपरिपतितं शैथिल्यात्स्रस्तं भ्रूचक्रं यस्याम् । १ 'अग्रम्'. २ 'प्रेमद्रवार्द्रया'. ३ 'स्वीकृतश्वासि'. ४ 'तेनायमेवमनुशास्ति'; 'तेने- यमेवमनुशास्ति'. ५ 'सांप्रतमस्माकम्'. ६ 'अतिशीर्णकुथकर्पटम्'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
चतुर्थ उच्छ्वासः । ११३ क्वाप्युपरिपतितभ्रूचक्रा भीरुभटपेटीव नष्टा दृष्टिः ॥ क ॥ ये हितवर्गोपदेशिनो मुख्यास्तेऽपि सालङ्कायनप्रभृतयो मन्त्रिण इव विरलीभूता दन्ताः । शब्दशास्त्रे हि राजादीनामदन्तता श्लाघ्यते । नान्यत्र ॥ ख ॥ तदिदानीं मम वन्यश्वापदमिव विषयविमुखं मनो वनाय धावति । कृतं च यन्मनुष्यजन्मनि क्रियते ॥ ग ॥ तथाहि । एताः प्राप्य परोपकारविधिना नीताः श्रियः श्लाघ्यता मापूर्वापरसिन्धुसीम्नि च नृपाः स्वाज्ञां चिरं ग्राहिताः । भूभारक्षमदोर्युगेन भवता जाता वयं पुत्रिण- स्तत्संप्रत्युचितं यदस्य वयसस्तत्कर्म कुर्मो वने ॥ २१ ॥ इत्यभिधाय तत्कालमेव मौहूर्तिकानाहूयादिदेश- ‘कथ्यतां यौव- राज्याभिषेकोत्सवाय दिवसः' इति ॥ घ ॥ अथ कथयामासुस्तेऽपि—‘देव, श्रूयतामनवद्यतनमेव राज्याभि- षेकयोग्यमहः । केन्द्रस्थानवर्तिनः सर्वेऽप्युच्चग्रहाः, पुण्यो मासः, पूर्णा तिथिः, श्लाघ्यो योगः, प्रशस्तो वारः, शुभं नक्षत्रम्, कल्याणी वेला, विधीयतां यद्विधेयम्' इत्यभिधाय स्थितेषु तेष्वनन्तरमेव 'सुश्रोणि, श्रूयतां यदस्माभिः श्रुतमाश्चर्यम् ॥ ङ ॥ उचितमुचितमेतद्धैर्यधाम्नां नृपाणां वयसि कटुनि कान्तालोचनानां तृतीये । भीरुनाहलमण्डलीपक्षे तु प्रतिभटानामिति शेषः । भीरवो हि वैरिणि विलोकयति पलायन्ते । पेटशब्दः संघाते त्रिलिङ्गः ॥ क ॥ य इति ॥ हितवर्गे हितसमूहमुपदिशन्ति मुख्याश्च प्रधानभूताः सालङ्कायन- प्रभृतयोऽमात्या यथा विरलीभूता विरला एव केचित् । न सर्वे तथाविधाः । तथा ये दन्ताः हि स्फुटं तवर्गमुपदिशन्त्युच्चारयन्ति । तवर्गस्य दन्त्यत्वात् । तथा मुखे भवा मुख्याः । तेऽप्यविरला विरलाः संपन्ना विरलीभूताः । बलिप्रस्तानां हि मांस- मुक्ता दन्ता विरलाः स्युः । मुख्याश्चतुःसंख्या राजदन्ताः । 'राजाद्दः—' इति सूत्रोक्ता राजादयः ॥ ख ॥ तदिति ॥ विषया इन्द्रियार्था देशाश्च ॥ ग ॥ एता इति ॥ यथाक्रमं धर्मार्थकाममोक्षाणामुपन्यासः ॥ २१ ॥ अथेति ॥ केन्द्रस्थानं शुभस्थानम् ॥ ङ ॥ १. 'अयम्' २. 'अभिषेकाय' ३. 'प्रस्थितेषु'
११४ नलचम्पूः । इति रभसमिवास्य प्रस्तुतं श्लाघमानो वियति पटुरकस्मादुत्थितस्तूर्यनादः ॥ २२ ॥ अपि च । उपरि परिमलान्धैः सस्वनं संचरद्भि- र्मधुकरनिकुरम्बैश्चुम्ब्यमाना भैरेण । अविरलमधुधारासारसंसिक्तभूमिः सदसि सुरविमुक्ता प्रापतत्पुष्पवृष्टिः ॥ २३ ॥ अवतेरुश्च तत्कालमेवाम्बरतलादुल्लसद्ब्रह्मकान्तिकलापपवित्रीकृता- ष्टाग्दिग्भागभूमयः सकलसागरसरित्तीर्थाम्बुपूर्णकमण्डलुमृत्कुशकुसुमौ- षधिरुद्धपाणयो दर्शनादेवापनीतसमस्तकलिकल्मषाः केऽपि कुतोऽपि ब्रह्मर्षयः ॥ क ॥ सहर्षेण सविनयेन सपरिवारेण च चलत्कर्णोत्पलगलद्वहलरजः- पुञ्जपिञ्जरितकपोलपालिना पृथिवीपालेन प्रणम्य कृतातिथेयाः समु- चितान्यलंचक्रुरासनानि ॥ ख ॥ कृतकुशलप्रश्नालापाश्च प्रस्तुतकुमाराभिषेकस्य नरपतेः स्वस्वक- ण्डलुवारीणि दर्शयामासुः ॥ ग ॥ इदं मन्दाकिन्याः सलिलमवगाहागतमरु- त्पुरंध्रीणां पीनस्तनशिखरभङ्गोर्मिवलयम् । इदं कालिन्द्याश्च प्रविकसिततीरद्रुमलता- पतत्पुष्पैरन्तः सुरभिततरङ्गं नृप पयः ॥ २४ ॥ इदं गोदावर्यास्त्रिनयनजटाखण्डगलितं महाराष्ट्रीनेत्रैः कृतकुवलंय मज्जनविधौ । इदं चापि प्रेङ्खन्मुनिजनविकीर्णाधकमलं पयो विन्ध्यस्कन्धस्थलविलुलितं नार्मदमपि॥ २५॥ युग्मम् । उचितेति ॥ कटुत्वमत्राप्रियत्वमेव ॥ २२ ॥ तदेतदिति ॥ शयनसमये युगान्ते शार्ङ्गधनुषो विष्णोः संबन्धिनौ चरणौ प्रक्षाल्य पुण्यानां परमसीमानं गतमुदधेः समुद्रस्य तदेतत्पयो वर्तते । यत्र विहा- राय क्रीडार्थमुन्मज्जन्ति यानि वरुणवधूवृन्दवक्त्राणि तैः कृत्वा विकसदम्भोजख- ण्डशोभां क्षणं दधौ ॥ २३ ॥ १ 'श्लाघ्यमानः'. २ 'देरेण'. ३ 'मृत्कुसुम'. ४ 'प्रणय'. ५ 'भग्न'. ६ 'जटाजूट'. ७ 'जनम्'.
चतुर्थ उच्छ्वासः। १९५ इतश्च तदेतत्पुण्यानां परममवधिं प्राप्तमुदधेः पयः प्रक्षाल्याङ्घ्री^१ शयनसमये शार्ङ्गधनुषः। विहारायोन्मज्जत्तरुणवनितावृन्दवदनैः क्षणं य॑^२त्रोत्फुल्लन्नवकमलखण्डश्रियमधात् ॥ २६ ॥ राजा तु तत्कालमुन्मीलद्बहलपुलकाङ्कुरकोरकितदेहः किमप्यद्भुत- रसेनावेशित इव विधूय शिरो॑^४श्चिन्तयांचकार ॥ क ॥ '५नूनमयमस्मद्गृहे हरिहरब्रह्माणाम॑^६न्यतमः कोऽप्यवतीर्णो भविष्यति। यतः। कार्यं^३ शिक्षाक्रमंः^७, केयम्^३स्माकमाकस्मिकी यूनोऽस्या^८भिषेकाय बुद्धिः, क॑^९ चानुकूलकालसंपत्तिः, क चामी समस्ताभिषेकोपकरणपा- णयो महामुनयः ॥ ख ॥ सर्वथा नमोऽस्तु घटितदुर्घटाय वेधसे। यस्यायमेवमद्भुतो व्यापारः' इत्यवधारयन्नुत्थाय गृहीत्वा तानि तीर्थोदकानि कृत्वा कनककुम्भेषु तात्कालिकास्फालितमृदङ्गझल्लरीरवभरसोल्ला॑^१०स्यविलासिनीवृन्दैरानन्द्य- मानो मङ्गलोद्गारमुखरपरिजनपरिवृतः सह सालङ्कायनेन 'सहस्रं समास्तात एवानुपालयतु राज्यम्' इत्यभिधानमनिच्छन्तमपि नलं बलान्निवेश्याभिषेकपट्टे स्वयमेवाभिषेकमकरोत् ॥ ग ॥ परिधाप्य च मङ्गलाभरणवाससी सिंहासनमारोप्य पुत्रप्रेम्णा पुरः स्थित्वा कनकदण्डपाणिः क्षणं प्रातिहार्यमन्वतिष्ठत् ॥ घ ॥ सालङ्कायनोऽप्यतिस्नेहेनास्योपरि लम्बितमुक्ताकलापमास्रवत्सुधा- धारे॑^११मिन्दुमण्डलमिव कनकदण्डमापाण्डुरमातपत्रमधारयत् ॥ ङ ॥ सौ^१२मन्तचक्रं च चलच्चामीकरचारुचामरकलापव्यापृतकरपल्लवम- स्याग्रे विनय्मदर्शयत् ॥ च ॥ मुनयोऽप्युच्चारयांचक्रुश्चतुर्वेदप्रशस्तमन्त्रान् । उत्थाय च गृहीत्वा- क्षताञ्शिरसि विकिरन्तोऽस्य पुनरिदमवोचन् ॥ छ ॥ सर्वथेति ॥ घटितं योजितं दुर्घटं शिक्षाप्रकमादिलक्षणं येन तस्मै वेधसे नमः ॥ ग ॥ १ 'अङ्गीन्'. २ 'यत्रोत्फुल्लन्न'. ३ 'कायः.'. ४ 'शिरश्चिरं चिन्त'. ५ 'नूनमस्मत्'. ६ 'एकतमः'. ७ 'प्रक्रमः' ८ 'यूनोऽप्यस्य'. ९ 'क चाविलम्बितानुकूल'. १० 'उल्ला- सि'. ११ 'धारं कनकगिरिशिखरस्थितमिन्दुः'. १२ 'सकलसामन्तचक्रम्'.
११६ नलचम्पूः । 'याः स्कन्दस्य जगाद तारकजये देवः स्वयंभूः स्वयं स्वःसाम्राज्यमहोत्सवेऽपि च शचीकान्तस्य वाचस्पतिः । ताभिस्तेऽद्य विरञ्चिवक्त्रसरसीहंसीभिराशास्महे वैदर्भीवसुधाविवाहसमये मन्त्रोक्तिभिर्मङ्गलम् ॥ २७ ॥ अन्यदपि तत्र दिवसे ३सुभ्रु समाकर्ण्यतां यदद्भुतमभूत् ॥ क ॥ दिशः प्रसेदुः सुरभिर्ववौ मरु- द्दिवो निपेतुः सुरपुष्पवृष्टयः । कृताभिषेकस्य नलस्य निस्वना- ननाहता दुन्दुभयोऽपि चक्रिरे ॥ २८ ॥ अन्तरिक्षे च कोऽप्यदृश्यमान एवाशीःश्लोकद्वयमपठत् ॥ 'अहीनां मालिकां बिभ्रत्तथापीताम्बरं वपुः । हरो हरिश्च भूपेन्द्र करोतु तव मङ्गलम् ॥ २९ ॥ अपि च । लीलया मण्डलीकृत्य भुजंगान्धारयन्हरः । देयाद्देवो वराहश्च तुभ्यमभ्यधिकां श्रियम् ॥ ३० ॥ इत्याशास्य विश्रान्तायां वियद्वाचि स्थित्वा च किंचित्कृँतोचितापचि- तिषु गतेषु क्षणादन्तर्धानं मुनिषु 'समुच्छ्रीयन्तां वैजयन्त्यः, बध्यन्तां तोरणानि, सिच्यन्तां चन्दनाम्भोभिः पन्थानः, मण्ड्यन्तां मसृणमु- अहीति ॥ शिवोऽहीनां सर्पाणां स्रजं तथा तेन प्रकारेण इताम्बरं ताण्डवा- दिष्वतिततमूर्तित्वाद्ब्याप्ताकाशम् । अथ च पराचीनावस्थायां दिगम्बरत्वादित्ता- म्बरं गतवस्त्रम् । यदिवा आ समन्तातपीतं प्रस्तमतिवितततया छन्नमम्बरमाकाशं येन । तथाविधं वपुर्नित्यं बिभ्रत् । हरिश्च विष्णुर्वनमालीति ख्यातत्वात् । अहीनां पूर्णामेव मालिकाम् । तथा पीताम्बरं हारिद्रवसनं वपुर्बिभ्रत् । राजेन्द्र, तवं मङ्गलं करोत्वित्यर्थः । न केवलं व्याप्तपृथ्वीकम् । इताम्बरमपीत्यपिशव्दार्थः । अष्ट- मूर्तिर्हि भगवान् । यदाह मल्हणः 'उर्वींसमीरयजमानजलानलार्कसोमाम्बरादिभिः' इति ॥ २९ ॥ लीलयेति ॥ लीलयावज्ञया भुजंगान्सर्पान् मण्डलीकृत्य हरः । भुजं मण्डली- कृत्य गां वसुधां धारयन् वराहश्च तुभ्यं समधिकां श्रियं देयात् । अत्र वराह इति नरवराहमूर्तिर्नरसंसहवद्भुजमण्डलीकरणानुरोधाज्ज्ञेयः ॥ ३० ॥ १ 'ताभिस्तस्य'. २ 'विरिंच'. ३ 'शुभम'. ४ 'च तस्य'. ५ 'भूपाल'. ६ 'प्रकृ- तोचितोपचितेषु'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
क्ताफलक्षोदरङ्गावलीभिः प्राङ्गणानि, क्रियन्तां कुसुमप्रकरभाञ्जि च- त्वराणि, पूज्यन्तां द्विजन्मानो देवताश्च, दीयन्तां दानानि, गीयन्तां मङ्गलानि, विसृज्यन्तां वैरिबन्धः, मुच्यन्तां पक्षिणोऽपि पञ्जरेभ्यः' इति श्रूयमाणेषु परितः परिजनालापेषु लास्योन्मादिनि मृदुमङ्गलोद्गार- मुखरे संचरति पुरपथेपु पौरनारीजने स दिवसः संप्राप्तस्वर्गसुखस्येव भुक्ताशेषभुवनस्येवास्वादितामृतसस्येवानुभूतपरमानन्दस्येव राज्ञः कृतकृत्यतां मन्यमानस्यातिक्रान्तवान् ॥ क ॥ एवमतिक्रामत्सु केषुचिद्दिवसेषु, जरठीभूते महोत्सवव्यतिकरे, गत- वति यैथायथमामन्त्रितायाते समस्तसामन्तलोके, यौवराज्यरञ्जिते च परितः परिजने जनेश्वरॊ रिपुपयोधिबडवानलं नलर्मोवभाषे ॥ ख ॥ 'तात, किमपि ब्रूमो यदि न खिद्यसे । संप्रति प्रियं सख्यं श्रेयस्क- रमस्माकमैणम्, न त्रैणम् । आभरणाय योग्या जटाभाराः, न हाराः । साहाय्याय साधवो बुधाः, न बान्धवाः । शयनायोचिता कुशपूलिका, न तूलिका । क्रीडार्थे वरा वेगवन्तो निर्झरप्रवाहाः, न वाहाः । प्रार्थनी- याश्च हरप्रसादाः, न प्रासादाः ॥ ग ॥ तदायूष्मन्नेष दृष्टोऽस्यापृष्टोऽस्याश्लिष्टोऽसि क्षमितोऽसि दुरुक्तमुक्तः' इत्यभिधायोत्सङ्गमारोप्य च तत्कालगलद्बहुलबाष्पाम्बुप्लवप्लावित वक्ष- सि निधाय परिष्वज्य च पुनः पुनः पुलककोरकितभुजलताभ्यामन्त- र्मन्युभरनिरुध्यमानोत्तरमजस्रमास्रवद्दृक्शुक्तिकपोलमाविर्भवन्मोहमू- र्छान्धकारकुञ्चितलोचनमिममाघ्राय मूर्ध्नि वनाय वनितासहायः प्रतस्थे ॥ घ ॥ प्रस्थिते च तस्मिन्परिहृतराज्ये राजनि, रजनीवियुज्यमानचलच्च- क्रवाकीष्विव कृतकरुणाक्रन्दासु प्रजासु, प्रतिभवनमुच्चलितेषु जरत्पौ- रजनेषु, 'कल्याणिन्, एष पितृप्रणयप्रणामाञ्जलिरस्य क्रमागतकर्म- कारिणः श्रुतशीलस्य कृतापराधस्यापि त्वया सहनीयाः कतिपयेऽप्य- स्मदनुकम्पयाऽपराधाः । पश्यैय । पयोराशेर्नोद्वेगाय मृगाङ्कस्य मीलय- तातेति ॥ स्त्रीणामिदं त्रैणम् । 'स्त्रीपुंसाभ्यां नञ्स्नञौ' इति नञ् ॥ ग ॥ तदेति ॥ अन्तर्मध्ये मन्युभरेण दैन्यातिशयेन निरुद्ध्यमानमुत्तरं यस्य ॥ घ ॥ १ 'देवाश्च'. २ 'भुक्त'. ३ 'यथागतम्'. ४ 'बभाषे'. ५ 'संप्रति सख्यम्'. ६ 'आहरणाय योग्या नीवाराः'; 'नाहाराः'. ७ 'क्रीडार्हा'. ८ 'उक्तम्'. ९ 'लपिते च'. १० 'कोरकिताभ्याम्'. ११ 'आकुञ्चित'. १२ 'यतः'.
११८ नलचम्पूः । न्तोऽपि कमलाकरान्र्कराः । किं न सहन्ते सुमनसोऽपि भ्रमरभरभञ्ज- नानि' इत्यभिधाय समर्प्य च स्वसुतमुच्चलिते च प्रेम्णानुगतभूमूजि भुंजायामानिर्जितसाले सालङ्कायने, बालमत्स्य इव शुष्यत्सरःसलिल- संतापवेपिताङ्गः, करिकलभ इव वियुज्यमानयूथपतिः, पैतद्बहलवा- ष्पबिन्दुसंदोहैर्वक्षसि विधीयमानहारः 'हा तात' इति ब्रुवन्नलो न लोचने तं दिवसं समुदमीलयत् ॥ ख ॥ केवलममन्दर्मन्यूद्गारगद्गदया गिरा पुनः पुनरिमं श्लोकमपठत्।।ग।। तच्चातस्य कृतादरस्य रभसार्दाह्वाननं दूरत- स्तच्चाङ्के विनिवेश्य बाहुयुगलेनाश्लिष्य संभाषणम् । ताम्बूलं च तदर्थचर्वितमतिप्रेम्णा मुखेनार्पितं पाषाणोपम हा कृतघ्न हृदय स्मृत्वा न किं दीर्यसे' ॥ ३१ ॥ एंतच्चाकर्ण्य दमयन्ती चिन्तितवती—'अहो, स्नेहवानाद्रहृदयः खल्वसौ महानुभावः । तत्सर्वथास्मत्प्रीतिपात्रं भवितुमर्हति' इत्यव- धारयन्ती पुनः प॑प्रच्छ ॥ घ ॥ 'हुं हंस, ततस्ततः' ॥ क ॥ सोऽपि राजहंसः कथामुपसंहर्तुमिच्छन्निमं श्लोकमुच्चारयांचकार।ख 'सुन्दरादरि, तैतँश्च किमपि परिजनेन स्वेन तैस्तैर्विनोदैः पितृविरहविषादं सोऽथ विस्मार्यमाणः । गमयति परिवर्तं वासराणामिदानीं हरचरणसरोजद्वन्द्वदत्तावधानः ॥ ३२ ॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हर- चरणसरोजाङ्कायां चतुर्थ उच्छ्वासः समाप्तः ॥ हुं हंसेति ॥ हुमित्यव्ययं प्रश्ने ॥ क ॥ इति विषमपदप्रकाशमेतं दमयन्त्यां तनुते स्म चण्डपालः । शिशुमतीलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥ इति चण्डपालविरचिते दमयन्तीकथाविवरणे चतुर्थ उच्छ्वासः समाप्तः ॥ १ 'भुजाभ्यां निर्जित'. २ 'मृगशावक इव मार्गच्युतः'. ३ 'गलद्'. ४ 'दैन्य'. ५ 'इदम्'. ६ 'आवाहनम्'; 'अद्येहितम्'. ७ 'एतदाकर्ण्य'. ८ 'पप्रच्छ हंसं ततस्ततः'. ९ 'उपसंहरन्'. १० 'तदस्तु'.
अथ विश्रान्तवाचि वाचस्पताविवोच्चारितानष्टविस्पष्टवर्णे वर्णितनि- षधराजे राजहंसे 'अहं सेवार्थी' इत्य²भिधायोपरुध्यमाना कृतोत्तरा- सङ्गेन द्विज³न्मना श्रुतानुरागेण । 'वत्से, चिरान्मिलितासि' इत्यु- क्त्वैवोपश्लिष्टा हृदये प्रवृद्धया चिन्तया । 'पुत्रि, क⁵थंकथमपि दृष्टासि' इति संभाव्येवालिङ्गिता सर्वाङ्गेषूत्कम्पजनन्यौ रोमाञ्चावस्थया⁸ । 'तरु- णि, त्यज्यतामिदानीं शैशवव्यवहारः' ६त्यभिधायेव मुग्धे स्पृष्टा प्रमु- खेण मुखे वैवर्ण्येन । 'मुग्धे मुच्यतां स्वच्छन्दभावः' इत्यनुशास्येव⁷ ग्राहिता निजाज्ञां गुरुणा मकरध्वजेन दमयन्ती । तथापि क्षणमिव महानुभावतामवलम्ब्यानुपलक्षितावस्थमवतस्थे ॥ क ॥ तां च तथा बलात्सरलीभवन्निश्वाससूचितान्तर्मन्मथव्यथावेगाम्, अकाण्डकुण्ठितधैर्यासिधारां, हृत्पुण्डरीके मनोरथानीत⁹नै¹⁰लावलोकना- र्थमिवान्तर्मुखीभूतचक्षुर्व्यापाराम्, आकस्मिकस्मरापस्मारेण दाम्यन्तीं दमयन्तीमवलोक्य तदिङ्गिताकारकुशला परिहासन्यसनिनो परिहा- सशीला नाम सखी 'महानुभाव, नास्माकमद्यापि तद्गुणश्रवणाय श्राम्यति श्रोत्रे¹¹न्द्रियम् । न तृप्यति प्र¹²श्नरसायनाय जिह्वा । न संतु- ष्यति विशेषज्ञानाय शेमुषी । नै¹³नुरागायोपरमते मनः । तै¹⁴त्कथं कृत- अथेति ॥ अनन्तरं । स्तुतनले हंसे । सेवितुकामोऽहमित्युक्त्वैव कृत उत्पा- दित उत्तरास्यां दिशि विषये आसङ्ग आसक्तिर्येन । नलाधारत्वादुत्तरस्याः । तथा द्वाभ्यां (तस्मिन्स्मितमुखे यूनि यूपदीर्घभुजद्वये । १ उ. ५९ श्लो.) येनोदीच्याध्व- गेनोक्तं तस्मादेकस्मात् द्वितीयादंसोत्पत्तिर्यस्य स तथाभूतः। श्रुतादाकर्णना- द्योऽनुरागः प्रेमबन्धः । तेनोपरुध्यमाना व्याप्यमाना । कृतवैकक्षेकेणाध्ययनानुरा- गेन विप्रेण दाक्षिण्यं नीयमानेत्यर्थान्तरम् । एवम्भूता दमयन्ती प्रकर्षेण वृद्धिं गतया चिन्तया पुत्रि चिरान्मिलिता त्वमित्युक्तेवेव चित्तेऽवष्टब्धा । तथा उत्कम्पं जनयतीति उत्कम्पजनन्या । प्रमुखेन प्रधानेन । गुरुणा दुर्वाहभारेण । अर्थान्तरे तु प्रवृद्धया जरत्या । उद्गतकम्पया जनन्या मात्रा । प्रकृष्टं मुखं यस्य तेन प्रमु- खेन । गुरुणा आचार्येण ॥ क ॥ तां चेति ॥ दाम्यन्तीं गृह्यमाणां स्मरणपरवशामित्यर्थः । तदिङ्गिताकारेत्यत्रै- १ 'वत्सि'. २ 'अभिधायैवोपस्थ्यमाना'; 'अंमथायोपसृत्य निरुध्यमाना'. ३ 'द्वि- जन्मनेव'. ४ 'इव'. ५ 'कथमपि'. ६ 'इत्यालप्येव'. ७ 'एव'. ८ 'अवस्थांम्'. ९ 'मनोरथपथानीत'. १० 'नललावण्यावलोकनार्थम्'. ११ 'श्रवणेन्द्रियम्'. १२ 'प्रश्न- रसायने'. १३ 'न विरमत्यनुरागाय मनः'. १४ 'तत्कथय कथम्'.