नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 138, कुल 258 में से
संदर्भ में पढ़ें११८ नलचम्पूः । न्तोऽपि कमलाकरान्र्कराः । किं न सहन्ते सुमनसोऽपि भ्रमरभरभञ्ज- नानि' इत्यभिधाय समर्प्य च स्वसुतमुच्चलिते च प्रेम्णानुगतभूमूजि भुंजायामानिर्जितसाले सालङ्कायने, बालमत्स्य इव शुष्यत्सरःसलिल- संतापवेपिताङ्गः, करिकलभ इव वियुज्यमानयूथपतिः, पैतद्बहलवा- ष्पबिन्दुसंदोहैर्वक्षसि विधीयमानहारः 'हा तात' इति ब्रुवन्नलो न लोचने तं दिवसं समुदमीलयत् ॥ ख ॥ केवलममन्दर्मन्यूद्गारगद्गदया गिरा पुनः पुनरिमं श्लोकमपठत्।।ग।। तच्चातस्य कृतादरस्य रभसार्दाह्वाननं दूरत- स्तच्चाङ्के विनिवेश्य बाहुयुगलेनाश्लिष्य संभाषणम् । ताम्बूलं च तदर्थचर्वितमतिप्रेम्णा मुखेनार्पितं पाषाणोपम हा कृतघ्न हृदय स्मृत्वा न किं दीर्यसे' ॥ ३१ ॥ एंतच्चाकर्ण्य दमयन्ती चिन्तितवती—'अहो, स्नेहवानाद्रहृदयः खल्वसौ महानुभावः । तत्सर्वथास्मत्प्रीतिपात्रं भवितुमर्हति' इत्यव- धारयन्ती पुनः प॑प्रच्छ ॥ घ ॥ 'हुं हंस, ततस्ततः' ॥ क ॥ सोऽपि राजहंसः कथामुपसंहर्तुमिच्छन्निमं श्लोकमुच्चारयांचकार।ख 'सुन्दरादरि, तैतँश्च किमपि परिजनेन स्वेन तैस्तैर्विनोदैः पितृविरहविषादं सोऽथ विस्मार्यमाणः । गमयति परिवर्तं वासराणामिदानीं हरचरणसरोजद्वन्द्वदत्तावधानः ॥ ३२ ॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हर- चरणसरोजाङ्कायां चतुर्थ उच्छ्वासः समाप्तः ॥ हुं हंसेति ॥ हुमित्यव्ययं प्रश्ने ॥ क ॥ इति विषमपदप्रकाशमेतं दमयन्त्यां तनुते स्म चण्डपालः । शिशुमतीलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥ इति चण्डपालविरचिते दमयन्तीकथाविवरणे चतुर्थ उच्छ्वासः समाप्तः ॥ १ 'भुजाभ्यां निर्जित'. २ 'मृगशावक इव मार्गच्युतः'. ३ 'गलद्'. ४ 'दैन्य'. ५ 'इदम्'. ६ 'आवाहनम्'; 'अद्येहितम्'. ७ 'एतदाकर्ण्य'. ८ 'पप्रच्छ हंसं ततस्ततः'. ९ 'उपसंहरन्'. १० 'तदस्तु'.