भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 139, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 139

अथ विश्रान्तवाचि वाचस्पताविवोच्चारितानष्टविस्पष्टवर्णे वर्णितनि- षधराजे राजहंसे 'अहं सेवार्थी' इत्य²भिधायोपरुध्यमाना कृतोत्तरा- सङ्गेन द्विज³न्मना श्रुतानुरागेण । 'वत्से, चिरान्मिलितासि' इत्यु- क्त्वैवोपश्लिष्टा हृदये प्रवृद्धया चिन्तया । 'पुत्रि, क⁵थंकथमपि दृष्टासि' इति संभाव्येवालिङ्गिता सर्वाङ्गेषूत्कम्पजनन्यौ रोमाञ्चावस्थया⁸ । 'तरु- णि, त्यज्यतामिदानीं शैशवव्यवहारः' ६त्यभिधायेव मुग्धे स्पृष्टा प्रमु- खेण मुखे वैवर्ण्येन । 'मुग्धे मुच्यतां स्वच्छन्दभावः' इत्यनुशास्येव⁷ ग्राहिता निजाज्ञां गुरुणा मकरध्वजेन दमयन्ती । तथापि क्षणमिव महानुभावतामवलम्ब्यानुपलक्षितावस्थमवतस्थे ॥ क ॥ तां च तथा बलात्सरलीभवन्निश्वाससूचितान्तर्मन्मथव्यथावेगाम्, अकाण्डकुण्ठितधैर्यासिधारां, हृत्पुण्डरीके मनोरथानीत⁹नै¹⁰लावलोकना- र्थमिवान्तर्मुखीभूतचक्षुर्व्यापाराम्, आकस्मिकस्मरापस्मारेण दाम्यन्तीं दमयन्तीमवलोक्य तदिङ्गिताकारकुशला परिहासन्यसनिनो परिहा- सशीला नाम सखी 'महानुभाव, नास्माकमद्यापि तद्गुणश्रवणाय श्राम्यति श्रोत्रे¹¹न्द्रियम् । न तृप्यति प्र¹²श्नरसायनाय जिह्वा । न संतु- ष्यति विशेषज्ञानाय शेमुषी । नै¹³नुरागायोपरमते मनः । तै¹⁴त्कथं कृत- अथेति ॥ अनन्तरं । स्तुतनले हंसे । सेवितुकामोऽहमित्युक्त्वैव कृत उत्पा- दित उत्तरास्यां दिशि विषये आसङ्ग आसक्तिर्येन । नलाधारत्वादुत्तरस्याः । तथा द्वाभ्यां (तस्मिन्स्मितमुखे यूनि यूपदीर्घभुजद्वये । १ उ. ५९ श्लो.) येनोदीच्याध्व- गेनोक्तं तस्मादेकस्मात् द्वितीयादंसोत्पत्तिर्यस्य स तथाभूतः। श्रुतादाकर्णना- द्योऽनुरागः प्रेमबन्धः । तेनोपरुध्यमाना व्याप्यमाना । कृतवैकक्षेकेणाध्ययनानुरा- गेन विप्रेण दाक्षिण्यं नीयमानेत्यर्थान्तरम् । एवम्भूता दमयन्ती प्रकर्षेण वृद्धिं गतया चिन्तया पुत्रि चिरान्मिलिता त्वमित्युक्तेवेव चित्तेऽवष्टब्धा । तथा उत्कम्पं जनयतीति उत्कम्पजनन्या । प्रमुखेन प्रधानेन । गुरुणा दुर्वाहभारेण । अर्थान्तरे तु प्रवृद्धया जरत्या । उद्गतकम्पया जनन्या मात्रा । प्रकृष्टं मुखं यस्य तेन प्रमु- खेन । गुरुणा आचार्येण ॥ क ॥ तां चेति ॥ दाम्यन्तीं गृह्यमाणां स्मरणपरवशामित्यर्थः । तदिङ्गिताकारेत्यत्रै- १ 'वत्सि'. २ 'अभिधायैवोपस्थ्यमाना'; 'अंमथायोपसृत्य निरुध्यमाना'. ३ 'द्वि- जन्मनेव'. ४ 'इव'. ५ 'कथमपि'. ६ 'इत्यालप्येव'. ७ 'एव'. ८ 'अवस्थांम्'. ९ 'मनोरथपथानीत'. १० 'नललावण्यावलोकनार्थम्'. ११ 'श्रवणेन्द्रियम्'. १२ 'प्रश्न- रसायने'. १३ 'न विरमत्यनुरागाय मनः'. १४ 'तत्कथय कथम्'.