नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 140, कुल 258 में से
संदर्भ में पढ़ें१२० नलचम्पूः । वानसि गीतस्येव विस्वरम्, वाद्यस्येव वितालम्, लास्यस्येवान्यथा- पदप्रचारम्, अत्यन्तरसविच्छेदकारिणं कथाक्रमस्य विरामम्, एतत्परमपि पिपासया पयः पातुमुद्यतस्येवाविरतायां तृषि वारिधारा- निवारणम् । इयं सा भुञ्जानस्यार्धतृप्तिः । सोऽयमप्राप्तरतस्य रिरंसा- व्याघातः । तन्न युक्तमिवान्तरे विरन्तुम् । निष्कारणोपकारिन्, प्रव- र्त्यतां पुण्यराशेस्तस्य स्वरूपाख्यानामृतप्रपामैण्डपो, निर्वाण्तु च चिर- कालमनङ्गाग्निभोपतप्ता एवंविधकन्याकाः प्रसारितश्रवणाञ्जलयः' इति दमयन्तीमर्धेक्षणेन कटाक्षयन्ती तं राजहंसमालापयांचकार ॥ क ॥ सोऽपि 'सुन्दरि, किमन्यत्तस्य समस्तस्त्रीहृदयप्रासादप्रतिष्ठापित- प्रतिमस्याद्यापि प्रैशस्यते ॥ ख ॥ यत्र श्रूयमाणे न मधुरो वेणुवीणाँक्वणः, दृष्टे नाभिरामः कामः । संभाषिते न सारा सरस्वती, परिचिते न श्लाघ्यममृतम्, अभ्यस्ते नानन्दीन्दुः, प्रैसादिते न प्रशंसास्पदं धैनदः ॥ ग ॥ किं बहुना । भवति यदि सहस्रं वाक्पटूनां मुखानां निरुपममवधानं जीवितं चापि दीर्घम् । कमलमुखि तथापि क्ष्मापतेस्तस्य कर्तुं सकलगुणविचारः शक्यते वा न वेति ॥ १ ॥ अपि च । संसाराम्बुनिधौ तदेतदजनि स्त्रीपुंसरत्नद्वयं नारीणां भवती नृणां पुनरसौ सौभाग्यसीमा नलः । गितं चेष्टितम् । आकारो मुखरागादिः । वारिधाराया विधारणं विच्छेदः । 'निवार- णम्' इति वा पाठः । रिरंसायां सत्यां व्याघातोऽन्तरायः । 'रतिव्याघातः' इति पाठे तु स्पष्टमेव ॥ क ॥ यत्रेति ॥ श्रूयमाणे नेत्यादौ सप्तम्यन्तान्नञ् । अभ्यस्ते परिशीलिते ॥ ग ॥ संसारेति ॥ खस्तियोगे त इति चतुर्थ्यन्तम् ॥ २ ॥ १ 'कारिणः'. २ 'अर्धगतायाम्'. ३ 'असमाप्तरतस्य'; 'असमाप्तरसस्य'. ४ 'अवान्तरे'; 'अत्रान्तरे'. ५ 'अकारणो'. ६ 'पुनः पुण्य'. ७ 'मण्डपे.' ८ 'निर्वांतु चिर'. ९ 'दमयन्ती तामर्धेन'; 'दमयन्तीमर्धेक्षितेन'. १० 'समालपयां'. ११ 'किं प्रशस्यते'. १२ 'वीणाकलकाणः'; 'वीणाकाणः'. १३ 'अनुप्रसादिते'. १४ 'धनद इत्यभाषत'.