भारतकोश
संग्रह पर लौटें

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

११८ नलचम्पूः । न्तोऽपि कमलाकरान्र्कराः । किं न सहन्ते सुमनसोऽपि भ्रमरभरभञ्ज- नानि' इत्यभिधाय समर्प्य च स्वसुतमुच्चलिते च प्रेम्णानुगतभूमूजि भुंजायामानिर्जितसाले सालङ्कायने, बालमत्स्य इव शुष्यत्सरःसलिल- संतापवेपिताङ्गः, करिकलभ इव वियुज्यमानयूथपतिः, पैतद्बहलवा- ष्पबिन्दुसंदोहैर्वक्षसि विधीयमानहारः 'हा तात' इति ब्रुवन्नलो न लोचने तं दिवसं समुदमीलयत् ॥ ख ॥ केवलममन्दर्मन्यूद्गारगद्गदया गिरा पुनः पुनरिमं श्लोकमपठत्।।ग।। तच्चातस्य कृतादरस्य रभसार्दाह्वाननं दूरत- स्तच्चाङ्के विनिवेश्य बाहुयुगलेनाश्लिष्य संभाषणम् । ताम्बूलं च तदर्थचर्वितमतिप्रेम्णा मुखेनार्पितं पाषाणोपम हा कृतघ्न हृदय स्मृत्वा न किं दीर्यसे' ॥ ३१ ॥ एंतच्चाकर्ण्य दमयन्ती चिन्तितवती—'अहो, स्नेहवानाद्रहृदयः खल्वसौ महानुभावः । तत्सर्वथास्मत्प्रीतिपात्रं भवितुमर्हति' इत्यव- धारयन्ती पुनः प॑प्रच्छ ॥ घ ॥ 'हुं हंस, ततस्ततः' ॥ क ॥ सोऽपि राजहंसः कथामुपसंहर्तुमिच्छन्निमं श्लोकमुच्चारयांचकार।ख 'सुन्दरादरि, तैतँश्च किमपि परिजनेन स्वेन तैस्तैर्विनोदैः पितृविरहविषादं सोऽथ विस्मार्यमाणः । गमयति परिवर्तं वासराणामिदानीं हरचरणसरोजद्वन्द्वदत्तावधानः ॥ ३२ ॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हर- चरणसरोजाङ्कायां चतुर्थ उच्छ्वासः समाप्तः ॥ हुं हंसेति ॥ हुमित्यव्ययं प्रश्ने ॥ क ॥ इति विषमपदप्रकाशमेतं दमयन्त्यां तनुते स्म चण्डपालः । शिशुमतीलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥ इति चण्डपालविरचिते दमयन्तीकथाविवरणे चतुर्थ उच्छ्वासः समाप्तः ॥ १ 'भुजाभ्यां निर्जित'. २ 'मृगशावक इव मार्गच्युतः'. ३ 'गलद्'. ४ 'दैन्य'. ५ 'इदम्'. ६ 'आवाहनम्'; 'अद्येहितम्'. ७ 'एतदाकर्ण्य'. ८ 'पप्रच्छ हंसं ततस्ततः'. ९ 'उपसंहरन्'. १० 'तदस्तु'.

अथ विश्रान्तवाचि वाचस्पताविवोच्चारितानष्टविस्पष्टवर्णे वर्णितनि- षधराजे राजहंसे 'अहं सेवार्थी' इत्य²भिधायोपरुध्यमाना कृतोत्तरा- सङ्गेन द्विज³न्मना श्रुतानुरागेण । 'वत्से, चिरान्मिलितासि' इत्यु- क्त्वैवोपश्लिष्टा हृदये प्रवृद्धया चिन्तया । 'पुत्रि, क⁵थंकथमपि दृष्टासि' इति संभाव्येवालिङ्गिता सर्वाङ्गेषूत्कम्पजनन्यौ रोमाञ्चावस्थया⁸ । 'तरु- णि, त्यज्यतामिदानीं शैशवव्यवहारः' ६त्यभिधायेव मुग्धे स्पृष्टा प्रमु- खेण मुखे वैवर्ण्येन । 'मुग्धे मुच्यतां स्वच्छन्दभावः' इत्यनुशास्येव⁷ ग्राहिता निजाज्ञां गुरुणा मकरध्वजेन दमयन्ती । तथापि क्षणमिव महानुभावतामवलम्ब्यानुपलक्षितावस्थमवतस्थे ॥ क ॥ तां च तथा बलात्सरलीभवन्निश्वाससूचितान्तर्मन्मथव्यथावेगाम्, अकाण्डकुण्ठितधैर्यासिधारां, हृत्पुण्डरीके मनोरथानीत⁹नै¹⁰लावलोकना- र्थमिवान्तर्मुखीभूतचक्षुर्व्यापाराम्, आकस्मिकस्मरापस्मारेण दाम्यन्तीं दमयन्तीमवलोक्य तदिङ्गिताकारकुशला परिहासन्यसनिनो परिहा- सशीला नाम सखी 'महानुभाव, नास्माकमद्यापि तद्गुणश्रवणाय श्राम्यति श्रोत्रे¹¹न्द्रियम् । न तृप्यति प्र¹²श्नरसायनाय जिह्वा । न संतु- ष्यति विशेषज्ञानाय शेमुषी । नै¹³नुरागायोपरमते मनः । तै¹⁴त्कथं कृत- अथेति ॥ अनन्तरं । स्तुतनले हंसे । सेवितुकामोऽहमित्युक्त्वैव कृत उत्पा- दित उत्तरास्यां दिशि विषये आसङ्ग आसक्तिर्येन । नलाधारत्वादुत्तरस्याः । तथा द्वाभ्यां (तस्मिन्स्मितमुखे यूनि यूपदीर्घभुजद्वये । १ उ. ५९ श्लो.) येनोदीच्याध्व- गेनोक्तं तस्मादेकस्मात् द्वितीयादंसोत्पत्तिर्यस्य स तथाभूतः। श्रुतादाकर्णना- द्योऽनुरागः प्रेमबन्धः । तेनोपरुध्यमाना व्याप्यमाना । कृतवैकक्षेकेणाध्ययनानुरा- गेन विप्रेण दाक्षिण्यं नीयमानेत्यर्थान्तरम् । एवम्भूता दमयन्ती प्रकर्षेण वृद्धिं गतया चिन्तया पुत्रि चिरान्मिलिता त्वमित्युक्तेवेव चित्तेऽवष्टब्धा । तथा उत्कम्पं जनयतीति उत्कम्पजनन्या । प्रमुखेन प्रधानेन । गुरुणा दुर्वाहभारेण । अर्थान्तरे तु प्रवृद्धया जरत्या । उद्गतकम्पया जनन्या मात्रा । प्रकृष्टं मुखं यस्य तेन प्रमु- खेन । गुरुणा आचार्येण ॥ क ॥ तां चेति ॥ दाम्यन्तीं गृह्यमाणां स्मरणपरवशामित्यर्थः । तदिङ्गिताकारेत्यत्रै- १ 'वत्सि'. २ 'अभिधायैवोपस्थ्यमाना'; 'अंमथायोपसृत्य निरुध्यमाना'. ३ 'द्वि- जन्मनेव'. ४ 'इव'. ५ 'कथमपि'. ६ 'इत्यालप्येव'. ७ 'एव'. ८ 'अवस्थांम्'. ९ 'मनोरथपथानीत'. १० 'नललावण्यावलोकनार्थम्'. ११ 'श्रवणेन्द्रियम्'. १२ 'प्रश्न- रसायने'. १३ 'न विरमत्यनुरागाय मनः'. १४ 'तत्कथय कथम्'.

१२० नलचम्पूः । वानसि गीतस्येव विस्वरम्, वाद्यस्येव वितालम्, लास्यस्येवान्यथा- पदप्रचारम्, अत्यन्तरसविच्छेदकारिणं कथाक्रमस्य विरामम्, एतत्परमपि पिपासया पयः पातुमुद्यतस्येवाविरतायां तृषि वारिधारा- निवारणम् । इयं सा भुञ्जानस्यार्धतृप्तिः । सोऽयमप्राप्तरतस्य रिरंसा- व्याघातः । तन्न युक्तमिवान्तरे विरन्तुम् । निष्कारणोपकारिन्, प्रव- र्त्यतां पुण्यराशेस्तस्य स्वरूपाख्यानामृतप्रपामैण्डपो, निर्वाण्तु च चिर- कालमनङ्गाग्निभोपतप्ता एवंविधकन्याकाः प्रसारितश्रवणाञ्जलयः' इति दमयन्तीमर्धेक्षणेन कटाक्षयन्ती तं राजहंसमालापयांचकार ॥ क ॥ सोऽपि 'सुन्दरि, किमन्यत्तस्य समस्तस्त्रीहृदयप्रासादप्रतिष्ठापित- प्रतिमस्याद्यापि प्रैशस्यते ॥ ख ॥ यत्र श्रूयमाणे न मधुरो वेणुवीणाँक्वणः, दृष्टे नाभिरामः कामः । संभाषिते न सारा सरस्वती, परिचिते न श्लाघ्यममृतम्, अभ्यस्ते नानन्दीन्दुः, प्रैसादिते न प्रशंसास्पदं धैनदः ॥ ग ॥ किं बहुना । भवति यदि सहस्रं वाक्पटूनां मुखानां निरुपममवधानं जीवितं चापि दीर्घम् । कमलमुखि तथापि क्ष्मापतेस्तस्य कर्तुं सकलगुणविचारः शक्यते वा न वेति ॥ १ ॥ अपि च । संसाराम्बुनिधौ तदेतदजनि स्त्रीपुंसरत्नद्वयं नारीणां भवती नृणां पुनरसौ सौभाग्यसीमा नलः । गितं चेष्टितम् । आकारो मुखरागादिः । वारिधाराया विधारणं विच्छेदः । 'निवार- णम्' इति वा पाठः । रिरंसायां सत्यां व्याघातोऽन्तरायः । 'रतिव्याघातः' इति पाठे तु स्पष्टमेव ॥ क ॥ यत्रेति ॥ श्रूयमाणे नेत्यादौ सप्तम्यन्तान्नञ् । अभ्यस्ते परिशीलिते ॥ ग ॥ संसारेति ॥ खस्तियोगे त इति चतुर्थ्यन्तम् ॥ २ ॥ १ 'कारिणः'. २ 'अर्धगतायाम्'. ३ 'असमाप्तरतस्य'; 'असमाप्तरसस्य'. ४ 'अवान्तरे'; 'अत्रान्तरे'. ५ 'अकारणो'. ६ 'पुनः पुण्य'. ७ 'मण्डपे.' ८ 'निर्वांतु चिर'. ९ 'दमयन्ती तामर्धेन'; 'दमयन्तीमर्धेक्षितेन'. १० 'समालपयां'. ११ 'किं प्रशस्यते'. १२ 'वीणाकलकाणः'; 'वीणाकाणः'. १३ 'अनुप्रसादिते'. १४ 'धनद इत्यभाषत'.

पञ्चम उच्छ्वासः । १२१ सा त्वं तस्य कुरङ्गशावनयने योग्यासि पृथ्वीपते- रेतत्ते कथितं किमन्यदधुना यामो वयं स्वस्ति ते ॥ २ ॥ अन्यच्च । चन्द्रमुखि, महानाम्नि सुसंधिकृति सुसमासाख्याततद्धिते सत्का- रके परिभाषाकुशले बलाबलविचारिणि विचार्यमाणे व्याकरणे प्रेष्य- माणे च दूते नापशब्दसंबंधो भवति । तत्प्रेष्यतां तथाविधस्तस्या- न्तिकं कोऽपि दूतः ॥ क ॥ नच वृहत्यासंपदान्विते जगत्याख्याते सत्कृतगुरुगणे शार्दूलविक्री- डिताडम्बरिणि पुण्यश्लोके पर्यालोच्यमाने छन्दसि प्रार्थ्यमाने च तस्मिन्निषधेश्वरे वृत्तभङ्गो भवति' इत्यभिधाय गन्तुमुदचलत् ॥ ख ॥ उच्चलितं च तं परिहासशीला पुनर्वभाषे ॥ ग ॥ चन्द्रेति ॥ चन्द्रमुखीति संबोधनम् । नाम प्रातिपदिकं तद्विषयं प्रकरणमपि नामेत्युपचारे सति महदिति विशेषणस्य सफलत्वम् । नाममात्रस्य महच्छब्देन व्यवच्छेदाभावात् । सुष्ठु संधिर्वर्णसंश्लेषः कृत्संज्ञकप्रत्ययश्च यत्र । समासस्तत्पुरु- षादिः । आख्यातं क्रिया । तद्धितोऽणादिः । कारकमपादानादि । परिभाषा न्याय- सूत्राणि । बलाबलं पूर्वापरविधीनां बाधस्थितिः । अपशब्दोऽसाधुशब्दः । दूतपक्षे । नाम संज्ञा । सुष्ठु संधिं पणबन्धं करोतीति कौ सप्तमी । सुष्ठु समासेन संक्षेपेणा- ख्यातं कथितं तस्मै हितं येन तस्मिन् । सत्कारके सत्क्रियाजनके । परितो भाषाः संस्कृतप्राकृताद्याः कर्णाटादिदेशभाषा वा तासु दक्षे । वलावलं शक्त्यशक्ती । अपशब्दोऽपवादः ॥ क ॥ ननु यद्यहं दूतं प्रेषयिष्यामि । तदा 'स्वच्छन्दचारिणीयाम्' इति किंवदन्ती भविष्यतीत्याशङ्क्याह—नचेति ॥ बहतीजगतीशब्दौ छन्दोजातिवचनौ तृती- यान्तौ ख्यातपदेन प्रसिद्धार्थेन योज्यौ । तथा संगतैः पदैरन्विते । अथवा छन्दसि कथंभूते पदान्विते कथं यथा भवति वृहत्यासं वृहत्यां जातौ आसोऽवस्थानं यस्येति पदान्वयक्रियाविशेषणम् । यदिवा वृहत्या जात्या हेतुभूतया याऽसौ संप- च्छोभा तयान्विते । पक्षे वृहत्या गुर्व्या संपदा श्रियान्विते । जगति लोके आ- ख्याते कीर्तिते । गुरवो विपरीतलकारादयः । आचार्याश्च । शार्दूलविक्रीडितं छन्दोनाम, सिंहविलसितं च । श्लोकः पद्यं यशश्च । वृत्तं पद्यं शीलं च । इह यद्यपि श्लोकोऽनुष्टुप्छन्दो लोके प्रसिद्धम् । तथापि केचित्सर्वमपि पद्यं श्लोक- माहुः ॥ ख ॥ १ 'संवाधो;', 'संबोधो' २ 'सुषूक्तेऽतिसुप्रतिष्ठिते जगति'. ३ 'सात्कृति'. ४ 'स्वार्थे सद्धंशस्थे विलसत्करकंकणे पुण्यश्लोके'. ५ 'विचार्यमाणे'. ६ 'न वृत्तभङ्ग'. ७ 'लीला'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

१२२ नलचम्पूः । 'महानुभाव, यथेयमनुरागकन्दलैर्रालापैस्त्वयोक्ता, तथा सोऽपि स्पृहणीयोक्तिभिरभिधातव्यः । यतो नैहैकहस्ततलेन तालिका वाद्यते, नचैकं तप्तमतप्तेनापरेण लोहं लोहेन संधीयते, नाप्येकं रक्तमरक्तेना- न्येन वस्त्रमपि वाससा संयोजितं शोभां लभते । केवलं विर्युगलमेव भवति' इति ॥ क ॥ एवंवादिनीं दमयन्ती परिहासशीलामलपत् ॥ ख ॥ 'सखि, किमस्य निष्कारणवत्सलस्यैवमभ्यर्थ्यते ॥ ग ॥ यंस्यास्मासु निरपेक्षः पक्षपातः, स्वभावजं सौर्जन्यम्, अकृत्रिमः स्नेहभावः, अनुपचरितमुपकारित्वम्, अपरिचया प्रीतिः, अनभ्यासं सौहार्दम्, अदृष्टपूर्वा मैत्री ॥ घ ॥ तदेवंविधो निर्निमित्तबन्धुः किमभ्यर्थ्यते । केन याच्यन्ते चन्द्रच- न्दनसज्जनाः परोपकाराय । किंतु कतिपयमुहूर्तमैत्रीर्रञ्जितास्मन्म- नसो दुस्त्यजस्याकाण्ड एवास्य गन्तुमुत्सहमानस्य किं ब्रूमः । मा गा इत्येशकुनम्, गच्छेति निष्ठुरता, यदिष्टं तद्विधीयतामित्यौदासीन्यम्, आदर्शनारप्रियोऽसीति क्रियाशून्यालापः, कस्त्वमेवंविधो दिव्यवाक्प- क्षिरत्नमित्यप्रस्तुतप्रश्नः, केनार्थीत्यप्रक्रान्तम्, किं ते प्रियमोराचरामीत्यु- पचारवचनम्, कृतोपकारोऽसीति प्रत्यक्षस्तुतिः ॥ ङ ॥ तन्न जानीमः कल्याणबन्धो, किमुच्यसे । वरमदर्शनमेव र्भवादृ- शाम्, नतु लूयमानाङ्गावयवदुःसहो दर्शनव्याघातः । वरमनास्वादित- मेवामृतम्, नतु सकृत्पीत्वा पुनरैलाभदुःखम् ॥ च ॥ अैतः प्रार्थ्यसे भूयो दर्शनार्थम्, इैयं भविष्यति भवत्प्रियस्य कस्या- प्युपायनमात्रमस्मदनुस्मरणनाटकसूत्रधारी हारलता' इत्यभिधाय नल- सुररीकृत्य 'महानुभाव, द्वाभ्यां श्रुतोऽसि पान्थार्दॆस्माद्राजहंसाच्च, द्वाभ्यामुह्यसे वाचा हृदयेन च, द्विकालं स्मर्यसे दिवा नक्तं च, द्वयी गतिरस्माकमिदानीं त्वं वा मृत्युर्वा' इति द्विसंख्यैसंदेशौर्थमिव द्विगु- यस्येति ॥ पक्षो मित्राद्यवष्टम्भः पक्षती च । अभ्यासः सामीप्यम् ॥ घ ॥ १ 'नह्येकहस्तेन'. २ 'अपरेण'. ३ 'विफलमेतद्भवति'. ४ 'लीलाम्'. ५ 'यदस्य'. ६ 'सौन्दर्यम्'. ७ 'अनायासम्'. ८ 'परोपकारकरणाय'. ९ 'मैत्रीरस'. १० 'अशकुनः'. ११ 'अप्रस्तुतम्'; 'अप्रस्तुतः'. १२ 'आचरामः'. १३ 'उपचारः'. १४ 'भवादृशानाम्'. १५ 'अलाभस्तद्दुःखमेव'. १६ 'एष प्रार्थ्यसे'. १७ 'इयं च'. १८ 'द्विधा'. १९ 'अस्माच्च राजहंसात्'. २० 'द्विःकालम्'. २१ 'त्वं मृत्युश्चेति'. २२ 'संख्या'. २३ 'संदेशानार्थम्'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

णीकृत्योन्मुच्य च स्वकण्ठकन्दलादुत्कण्ठितामिव स्वां मूर्तिमतीं तस्य मुक्तावलीं गले व्यलम्बयत् ॥ क ॥ सोऽपि 'सुन्दरि, सोऽयं स्कन्धीकृतो मया मुक्तावलीच्छलेन तस्य पुरो भवद्वर्णनाभारः' इत्यभिधाय सह तेन विहंगमगणेनोत्प- पात ॥ ख ॥ उत्पतिते च नभस्तलम् 'आगच्छत, संपद्यन्तां सफललोचनाः, पश्यतापूर्वं खीरत्नम्' इति चलत्पक्षपल्लवव्याजेन दूराद्दिक्पालानि- वाह्वयति, तीव्रप्रभ्रमयूखसंतप्तां दिवमिवोपवीजयति, दिक्कुञ्जरनिरुद्धा- वकाशा आशा इवाश्वासयति, पक्षिमण्डले तस्मिन्विस्मयोन्मुखी सा भूपालपुत्री निर्निमेपं निक्षिप्य चक्षुश्चिरमूर्ध्वैवावतस्थे ॥ ग ॥ चिन्तितवती च ॥ 'तात तावन्ममाप्येवं न विधत्से प्रजापते । पक्षौ पक्षिवदुड्डीय येन पश्यामि तन्मुखम् ॥ ३ ॥ अपिच । उड्डीय वाञ्छितं यान्तो वरमेते विहंगमाः । न पुनः पक्षहीनत्वात्पङ्गुप्रायं कुमानुषम्' ॥ ४ ॥ इति चिन्तयन्ती गतेष्वपि तेषून्मुखी तां दिशमनुविस्मयविस्फार- लोचना निस्पन्दतया काष्ठकल्पावस्थां दधाना चिरात्सखीभिः संबोध्य स्वगृहंमनीयत ॥ घ ॥

सोऽपीति ॥ स्कन्धीकृतोऽङ्गीकृतः ॥ ख ॥ उत्पतिते च नभस्तलमिति ॥ दिक्पालानाह्वयतीत्यनेन भाविदिक्पाला- गमनं सूच्यते ॥ ग ॥ उड्डीयेति ॥ यद्यपि मनोरपत्यं स्त्री मानुषी पुमान्मानुष इति 'स्त्रीपुंसयोरप- त्यान्ता द्विचतुःषट्पडोरगाः' इति लिङ्गवचनान्मानुषशब्दस्य स्त्रीपुंसस्य वृत्तित्ता, तथापि नपुंसकलमपि । लिङ्गस्य लोकाश्नयलात् । तथाच भवभूतिः—'अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः । कालेनावरणात्ययात्परिणते यत्स्नेहसारस्थितं भद्रं तस्य सुमानुषस्य कथम- प्येकं हि तद्दुर्लभम्' ॥ ४ ॥

१ 'उत्कण्ठामिव मूर्तिमतीम्'. २ 'संपद्यताम्'. ३ 'लोचनानि; लोचनता'. ४ 'पटले'. ५ 'निक्षिप्तचक्षु'. ६ 'ऊर्ध्वमुखैव'. ७ 'संचिन्तयन्ती'. ८ 'विस्मयेन'. ९ 'विस्फारित- विलोचना'; 'विस्तारितलोचना'; 'विस्फारितलोचना'. १० 'स्वगृहान्'.

१२४ नलचम्पूः । ततः प्रभृति च तस्याः सरलीभवन्ति निश्वासा न हासाः, स्खलन्ति वाचो न शुचः, वर्धते तन्द्रा न निद्रा, द्र्वति स्वेदाम्भो न स्तम्भः, मन्दायते स्वरो न स्मरः, वाञ्छा चन्दनाय न स्पन्दनाय, संतापशान्तये तद्गुणादानं न ज्ञानम्, प्रीयते हारो नाहारः, सुखायाङ्गे लग्नमुद्यानप्र- भञ्जनो न जनः ॥ क ॥ पठति च मुहुर्मुहुरिमं श्लोकम् ॥ ख ॥ विश्राम्यन्ति न कुत्रचिन्ने च पुनर्मुह्यन्ति मार्गेष्वपि प्रोत्तुङ्गे विलैगन्ति नान्तरतरुश्रेणीशिखापञ्जरे । खिद्यन्ते न मनोरथाः कथममी तं देशमुत्कण्ठया धावन्तः पथि न स्खलन्ति विषमेऽप्यास्ते स यस्मिन्प्रियः॥५॥ तेऽपि राजहंसाः शशाङ्कधरेषु, सप्रपञ्चपञ्चाननेषु, शिवरूपेषु, वनेषु, सुशोभां कौमुदीं दधत्सु, शश्वदनुकृतसौमुद्रवृद्धिषु, चन्द्रमण्ड- लरूपेष्विव सरःसलिलेषु विर्हरन्तस्तुहिनाद्रिकुञ्जॉंनिव सत्रिपथगान्न- गनगराग्राम्राग्रहारप॑त्तनप्रदेशानुलङ्घयन्तः कतिपयदिवसैरासेतुरुद्यानं निषधायाः ॥ ग ॥ तत इति ॥ प्रभञ्जनो वात एवाङ्गे लग्नन्सुखाय न परिजनः ॥ क ॥ विश्राम्यन्तीति ॥ मनसि रथा इव मनोरथाः संकल्पाः । विश्रामादयो रथ- धर्माः ॥ ५ ॥ तेऽपीति ॥ हंसा वनेषु सरोजलेषु च विहरन्तो नगादिप्रदेशान् व्यतिक्राम- न्तो निषधोद्यानमापुः । कीदृक्षु वनेषु । शशा अङ्के यस्यास्ताथाभूता धरा भूमिर्येषु । तथा सच्छद्मानः पञ्चाननाः सिंहा येषु । शिवस्तु शशाङ्कं चन्द्रं धरति । तथा सह प्रपञ्चैः पृथग्भागमोपदेशलक्षणैर्वर्तन्ते तथाभूतानि पञ्चसंख्यानि आननानि वक्त्रा- णि यस्य । सरोजलेषु कीदृक्षु कुमुदानांमियं कौमुदी शोभा ताम् । चन्द्रमण्डले तु कौमुदी चन्द्रिका ताम् । तद्विशेषणं सुशोभामिति । अनुकरणमनुहरणम् । चन्द्र- पक्षे अनु पश्चात्कृता सामुद्री वृद्धिर्येन । चन्द्रोद्यो हि जलधिविवृद्धये । न विद्यन्ते नावो यत्र तदनु, अनु यथा भवति एवं कृतवृद्धिषु । पूरोत्पीडे हि न केऽपि नावं क्षिपन्तीति । नगनगरप्रदेशान् । कीदृशः । सत्राणि ब्राह्मणादीनां भोजनानि यज्ञा वा विद्यन्ते येषु । ते च ते पन्थानश्च सत्रिपथास्तानाच्छन्ति प्राप्नुवन्तीति सत्र्रि- पथगास्तान् । हिमाद्रिनिकुञ्जांस्तु सह त्रिपथगया गङ्गया ( तस्य द्वित्वम् ) ॥ ग ॥ १ 'सुखायालमुद्यान'. २ 'ननु'. ३ 'अपि गलन्ति'. ४ 'समुद्र'. ५ 'रूपेषु सरः'; 'रूपेषु च सरः'. ६ 'विहरन्तो बिसशकलानि कवलयन्तः कूजन्तः'. ७ 'निकुञ्जानिव'. ८ 'पुरपत्तन'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

क्रीडितुमारभन्त च स्वच्छन्दम् ॥ क ॥ अथ तेषामन्यतममवलोक्य क्रीडातडागपङ्कजपञ्जरे राजहंसीमा- गत्य त्वरया हंसदर्शनोत्सुकं सरोरक्षिका राजानं व्यजिज्ञपन् ॥ ख ॥ 'देव, हंसवार्तामनुदिनं पृच्छति देवस्तदद्य काचित् ॥ ग ॥ कुरुते नालकवलनं दूरं विक्षिपति गर्भजम्बालम् । त्वदरिवधूरिव राजन्नुद्यानस्रोगता हंसी ॥ ६ ॥ अपि च । अभिलषति नालमशनं स्वपिति नवाम्भोजपत्रशयनेऽपि । नीरागमना नृपते तव रिपुवनितातये हंसी' ॥ ७ ॥ राजापि तस्याः श्लिष्टार्थमिदमार्यायुगलमवधारयन्स्तोकस्मितसुधा- धवलिताधरपल्लवः 'लवङ्गिके, यथा कथयसि तथा तेऽप्यागता हंसाः कथमन्धथा तस्याः खल्वेकाकिन्याः संभवः' इति तद्वार्तया यावदा- स्ते ॥ घ ॥ तावन्नीलोत्पलदलदीर्घलोचना चन्द्रमुखी बन्धूककुसुमकान्तदन्त- च्छदा नीलांशुकपटीं परिदधाना पक्वकलममञ्जरीगौराङ्गी प्रकाशहासा हंसैरनुगम्यमाना मूर्तिमती शरदिव वनपालिका प्रविश्य 'देव, सोऽयं कथमप्यागतो रणरणककारणमपराधी विहंगः' इत्यभिधाय तं राजहंसमुभयकरकमलाञ्जलिगतमुत्फुल्लपाण्डुपङ्कजार्धमिव पुरः पादा- रविन्दयोर्निधाय राज्ञः प्रणाममकरोत् ॥ ङ ॥ कुरुत इति ॥ राजन् नृप, उद्यानतडागगता हंसी नालस्य बिसकाण्डस्य कव- लनं ग्रासं कुरुते । तथा गर्भे मध्ये यो जम्बालः कर्दमस्तं च दूरं परिक्षिपति । वधूस्तु उद्यानेन पलायनेन सरोगता रोगवत्ता यस्याः । तथा अलकस्य वलनं न कुरुते । गर्भजातं बालं दूरे क्षिपति । भीत्या हि गर्भः पतति ॥ ६ ॥ अभिलषतीति ॥ नालं कमलकाण्डमशनमाहारं वाञ्छति । स्वपित्यपि नूत- नाभ्जपत्रशय्यायाम् । नीरे आगमनं यस्याः । रिपुवनिता तु नीरागं वैराग्योपेतं मनो यस्याः । अतएवालमत्यर्थमशनं नाभिलषति । नापि कमलदलतल्पे शेते । वा अथवा ॥ ७ ॥ तावदिति ॥ यावत्तद्वार्तयास्ते नृपस्तावत् । शरदुपमा वनपालिका प्रविश्य देवेत्यभिधाय तं राजहंसं राज्ञः पादयोर्निधाय प्रणामं चकार । नीलोत्पलदलादीनि लोचनादीनामुपमानानि । दन्तच्छद ओष्ठः । नीलमंशुकं वासस्तस्य पटी उत्त- १ 'तेषां मध्येऽन्य'. २ 'पङ्कजपुञ्जपञ्जरे'. ३ 'राजहंस'. ४ 'दिवसम्'. ५ 'यतते'. ६ 'अवधार्य सावसरं प्रशस्य स्तोक'. ७ 'राजहंसाः'. ८ 'अकथयनातः'.

१२६ नलचम्पूः । राजापि 'सारसिके, साधु कृतम् । तत्क्रियतामशून्यः स्वाधिकारः । गम्यतामिदानीं १यथास्थानम्' इत्यभिधाय तुष्टिप्रदानपरितोषितां तां लवङ्गिकासहितां विसृज्य, विरलीकृतपरिजनः प्रत्युज्जीवनौषधमिव प्राणरक्षाक्षरमिव स्वस्तीकरणमणिमिवो२श्वासनाभेषजमिवान्लादनकन्द- मिव तमग्रेस्थितमानन्दनिःस्पन्दपक्ष्मपालिना चिरं चक्षुषा३ऽवलोक्य बहु मानयन्मुग्धस्मितेन स्वागतमपृच्छत् ॥ क ॥ सोऽपि 'देव, ४दर्शनामृतमनुभवतो ममाद्य स्वागतम्' इत्यभिधा- योपश्लोकयांचकार ॥ ख ॥ 'देव, प्रसृतकमलगन्धं नीरसंसक्तकण्ठं धृतकुवलयमालं जातभङ्गोर्मिकं च । त्वयि कृतरुषि भीतास्तावदास्तां तडागं निजमपि च कलत्रं शत्रवो नाद्रियन्ते ॥ ८ ॥ किं चान्यत् । असमहरिततीरं विस्रजम्बालशेषं स्फुटकुमुदपरागोल्लाससंपद्वियु५क्तम् । रीयम् । परिपाके हि शालिगौरः स्यादतस्तन्मञ्जरीवद्गौरमङ्गं यस्याः । प्रवृद्धाः काशाः काशपुष्पाण्येव हासो यस्याः ॥ ङ ॥ प्रसूतेति ॥ प्रसृतः कमलानामब्जानां गन्धो यत्र । तथा नीरेण संसक्तो युक्तः कण्ठः पालिप्रान्तो यस्य । तथा धृता कुवलयानां नीलोत्पलानां माला येन । तथा जाता उत्पन्ना भङ्गास्तरङ्गा ऊर्मयः कल्लोला यत्र । एतच्चतुष्टयमपि तडागा- दरहेतुः । देव, त्वयि रुष्टे यद्भीताः शत्रवस्तडागमेवंविधं नाद्रियन्ते । यावत्क- लत्रमपि । तत्किंविशिष्टम् । प्रसृतः के मूर्ध्नि मलगन्धो यस्य । स्नानाभावात् । तथा निर्गतो रसो वक्त्रामृतकला शृङ्गारादिर्वा यत्र । तथा सक्तोऽन्तर्लग्नः कण्ठो यस्य । तथा धृता कुत्सितवलयानां सुवर्णाद्यभावात्काचादिवलयानां माला येन । तथा जातभङ्गा भग्ना ऊर्मिका अङ्गुलीयकं यस्य ॥ ८ ॥ असमेति ॥ हरित्पतेः सिंहपद्धतेः सकाशादीरः क्षेपस्त्रासो हरिततीरः, असमो हरिततीरो यस्य । अथवा मा लक्ष्मीस्तया सह समं, न सममसममश्रीकम् । तथा हरित्तीवार्नरपङ्कीरीरयति क्षिपति । पश्चात्कर्मधारयः । तथा विगतस्रजं विगतमा- ल्यम् । तथा बालशेषं हतमन्त्र्यादित्वात् । तथा स्फुटं कु कुत्सा यस्य तं स्फुटकुम् । १ 'यथावस्थानम्'; 'यथास्वस्थानम्'. २ 'आश्वासन'. ३ 'विलोक्य'. ४ 'त्वद्दर्शन'. ५ 'विमुक्तम्'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

पञ्चम उच्छ्वासः । १२७ वयमिह बहुशोकं दृष्टवन्तो वनान्ते त्वदरियुवतिलोकं ग्रीष्ममासे सरश्च¹ ॥ ९ ॥ राजापि 'श्लेषोक्तिनिधे, तथा गृहीत्वास्मन्मनो गतवानसि, यथा सुखसंवित्तिशून्याः संतापारम्भिणो रणरणकाङ्कुरप्ररोहकाः कँथमप्य- स्माकमेतेऽतिक्रान्ता दिवसाः ॥ क ॥ तत्कथय। का नामाभिनन्दनीया सा दिक्, यस्यां विहारमकरोः । के ते सफलचक्षुषो जनाः, यैश्चिरमालोकितोऽसि । के लब्धसुभाषिता- मृतसास्वादाः, यैः संभाषितोऽसि । के प्राप्तप्राणितव्यफलाः, यैः सह गोष्ठीमनुष्ठितवानसि ॥ ख ॥ स्पृहणीयसंगम, गते त्वयि तर्कशास्त्रमिव प्रस्तुतपरमोहम्, व्याक- रणमिव भूतनिष्ठमिदमस्माकमासीन्मनः ॥ ग ॥ तँद्देोहि' इत्यभिधाय स्वयं करकमलतलेनोत्क्षिप्य सस्नेहं प॑रामृ- ष्टन् ॥ घ ॥ सोऽपि 'एष महान्प्रसादो यदेवमनुकम्पतेऽस्मान्देवः' इत्यभि- धाय गमनादारभ्य दमयन्तीदर्शनालापव्यतिकरमशेषं हारलंतार्पणप- र्यन्तमाचचक्षे ॥ ङ ॥ आख्याय च चरणेनैकेन ग्रीवाग्रादाकृष्य तां तथास्थितामेव मुक्ता- वलीमिँदमवादीत् ॥ च ॥ तथा उद्गतोपरागस्य रागाभावस्योल्लासो यस्य । स चासौ संपत्तिद्युक्तश्च । अथवा स्फुटा कुत्सितोदरभरणादिमात्रजा सुधस्य स स्फुटकमुत् । तथापगतो रागोल्लासो यस्य । स्फुटकमुच्चासावपरागोह्लासश्च स्फुटकमुदपरागोह्लासः, स चासौ संपत्तिद्यु- क्तश्च । बहुः शोको यस्य । ईदृशं त्वदहितस्त्रीजनमपश्याम । ग्रीष्मे सर इव । तदपि कीदृक् । समं हरितं तीरं यस्य तत्समहरितीरं, न समहरितीरमसमह- रितीरं, विषमं शुष्कं च तीरं यस्येत्यर्थः । तथा विस्रं आमगन्धिको जम्बालः कर्दम एव शेषो यत्र । तथा विकसित कुमुदरेणूल्लाससमृद्धिरहितम् । नास्ति कं जलं यत्रेत्यकम् । बहुश इति क्रियाविशेषणम् ॥ ९ ॥ स्पृहेति ॥ प्रकृतोत्कृष्टमोहं मनः, शास्त्रं तु प्रस्तुततः परम ऊहो वितर्को यत्र । भूता संजाता निष्ठा क्लेशो यत्र मनसि, व्याकरणे तु भूतेऽतीतकाले निष्ठासंज्ञः प्रत्ययो यत्र ॥ ग ॥ १ 'संपत्ति'. २ 'कथमप्येते'. ३ 'समम्'. ४ 'प्रमृत'. ५ 'तदेहि'. ६ 'परामृशत'. ७ 'एवम्'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

१२८ नलचम्पूः । 'उन्मादिनी मदनकार्मुकमण्डलज्या सौभाग्यभाग्यपरंपरवैभववैजयन्ती । मुक्तावलीकुलधनं नरनाथ सैषा कण्ठग्रहं तव करोतु भुजेव तस्याः ॥ १० ॥ अपिच । प्रेमप्रपञ्चनवनाटकसूत्रधारी मूर्ता मनोभवनृपस्य नियन्त्रणाज्ञा । तस्याः स्वयंवरपरिग्रहेहेतुरेषा हारावली हृदि पदं भवतः करोतु' ॥ ११ ॥ राजा तु तामादाय निरूप्य च चिरं चिन्तयांचकार ॥ क ॥ 'आनन्दिसुन्दरैगुणामलकोपमान- मुक्ताफलप्रचयमद्भुतमूद्वहन्ती । एषा च सा च नयनोत्सवकारिकान्ति- श्चेतोहरा हृदि पदं न करोति कस्य' ॥ १२ ॥ इति चिन्तयन्द्विगुणामेकगुणीकृत्य पुनः सस्पृहमैक्षत ॥ ख ॥ हंसस्तु विहस्य परिहासमकरोत् ॥ ग ॥ 'तया दत्ता मयानीता स्वयमाह्लादिनी त्वया । इत्यनेकगुणाप्येषा कथमेकगुणीकृता' ॥ १३ ॥ राजापि परिहासेनान्तःसूत्रं दर्शयन् 'पक्षिपुंगव, किं न पश्यस्ये- क॑र्गुणैवेयम् ॥ घ ॥ आनन्दीति ॥ गुणस्तन्तुः शौर्यादिश्च । आमलकोपमानानां मुक्ताफलानां मौक्तिकानां प्रचयं समचायम् । अद्भुतमाश्चर्यकारिणम् । वहन्ती । दमयन्ती तु मलातपापान्मालिन्याद्वा, कोपात्क्रुधो, मानाद्रर्वात्साहश्याद्वा मुक्ता भ्रष्टा । तथाद्भुतं चित्रं फलानां प्रचयं वहन्ती परिणेतुरिति शेषः । चेतोहरा मनोज्ञा । अन्यत्र चेत- सि हरोऽस्याः । एवम्भूतेयं मुक्तावली सा च कस्य हृदि वक्षसि चेतसि च, पदमवस्थानं न करोति, सर्वस्यापि करोत्येवेत्यर्थः ॥ १२ ॥ तया दत्तेति ॥ गुणाश्चारुतादयस्तन्तुसरिका च ॥ १३ ॥ १ 'भर'. २ 'दूति'. ३ 'मुद्गतम्'. ४ 'आवहन्ती'. ५ 'आह्लादिता'; 'आसादिता'. ६ 'गुणेयम्'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

पञ्चम उच्छ्वासः । १२९ अथवा । कः करोति गुणवान्गुणसंख्यां श्लाघ्यजन्ममहसः स्फुटमस्याः । कुम्भिकुम्भपरिणाहिनि तस्याः स्वैरमास्यत यया कुचयुग्मे ॥ १४ ॥ इत्यभिधाय नीत्वा च निजकण्ठकन्दलम्, 'इहास्ते सा तव पूर्वप्र- णयिनी' इत्यन्तःस्थितां दमयन्तीं दर्शयितुमिव हृन्मध्यवर्तिनीं ताम- करोत् ॥ क ॥ कृत्वा च किंचिदनुच्चस्मितं मधुरमधुरया वाचा 'विहंगपुंगव, पुनः कथ्यतां कीदृशी सा, कीदृग्रूपा, किं¹ च वयः, कीदृशी² लावण्यसंपत्, को विनोदः, कीदृशं वाग्वैदग्ध्यम्, किं प्रियम्, का गोष्ठी, इति श्रुता- मप्यपूर्वामिव तद्वार्तामादरेण पृच्छन्ना³गच्छंश्च चटुलकरकृतशरसंधा- नस्यानवरतविरचिताद्रुतभ्रमणकर्मकार्मुकवलयस्य लक्ष्यतां म⁴करके- तोरविदिताप्रक्रमानतिबहून्वेलाँ⁵लवानवतस्थे ॥ ख ॥ स्थिते च विभूष्य मध्यं⁶ नभोभागं भगवति भासुर⁷भासि भास्वति, श्रवणपुटपथमवतरति च प्रहरावसानप्रहारभांकारिभेरीरवे, 'वयस्य, विश्रम्यतामिदानीम⁸मन्दमन्दारतरुपरिकरतरोधसि मन्दिरोद्यानारवि- न्ददीर्घिकायामेवं⁹ प्रार्थ्यसे च न गन्तव्यमविसर्जितेन त्वया पूर्ववत्' इति नियम्य तं राजहंसं स्वयमप्याह्निको¹⁰यदतिष्ठत् ॥ ग ॥ एवं च शिथिलितसकलान्यव्यापृतस्तस्य राज्ञः परिहृतनिजवन्ध्योर्यान्ति हंसेन सार्धम् । दिनमनु दमयन्तीवृत्तवार्ताविनोदै- रविदितपरिवर्ता वासराः शारदीनाः ॥ १५ ॥ कः करोतीति ॥ परिणाहो विशालता ॥ १४ ॥ शिथिलितेति ॥ दिनमनुदिनं लक्षीकृत्य । एतेन रात्रिन्निषेधः । पक्षिणो हि निशि नीडे निलीयन्ते । तापहेतवोऽपि दिवसा हंसवार्तया अविदितपरिवर्ताः। शरदि भवं शारदं रूपमुष्णलातिशयादि तद्दियते यस्यासौ शारदी इनो येषु ते शारदीनाः ॥ १५ ॥ १ 'कीदृग्वयाः', 'किंवयाः' २ 'कीदृश' ३ 'श्रुतां श्रुतामपि'; 'अतिभूयाः श्रुतामपि', ४ 'अपृच्छत्'. ५ 'च मकरः'. ६ 'कालवेला'. ७ 'मध्यम्'. ८ 'भास्वर'. ९ 'विश्राम्यताम्'. १० 'एष'. ११ 'अपि माध्याह्निकाय'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

॰१३०॰ नलचम्पूः । एकदो१ प्रस्फुरत्प्रभातारम्भप्रभया प्रभिद्यमाने नवनीलाञ्जनिकाकुं- सुम२कान्तिनि तमसि, विलीनलाक्षाम्भोभिरिव सिच्यमानायां शनैः३ शचीदयितदिशि, मन्द४मुन्मिषत्कमलमुकुलोच्छलच्चटुलालिचक्रवालक- लकलेनोन्निद्रितेन तन्द्रामुद्रितोन्मिषच्चक्षुषा चलच्चञ्चूकोटिकण्डूयन- विरामधुतपक्षरोमराजिना राजहंसकदम्बके५नानुगम्यमानो विहाय वि- हंगमः सरस्तीरम्, उपसृत्य६ किंनरमधुर७गीतध्वनिविनिद्रितमावश्यका८- वसाने राजानम्, इदमवादीत् ॥ क ॥ 'देव, विज्ञापयामो देवस्य दर्शनम्, अनालेप्यं चन्दनम्, अस्पर्श कर्पूरपांसुपटलोद्धूलनम्, अपातव्यममृतम्, अनास्वाद्यं रसायनम्, अलेह्यं९ मधु । कुतः किलैतदनुभवतामस्माकमपि वर्षसहस्रेणापि परि१०- तोषः । किं तु तिरयति स्वातन्त्र्यं प्राणिनां परपरिग्रहो दुस्त्यजाश्च जल११जन्मनोऽपि जन१२जन्मभूमयो भवन्ति । अवगमिष्यति च विश्रब्धमे- तत्सर्वमपि देवो यादृशा येन१३ च जन्मान्तराराधनोपरोधेन१४ प्रेषिता वयम् । अनवसरः खल्वयमस्य कथाप्रक्रमस्य । तदादिशतु देवोऽस्मा- नामनाय । न च प्रस्तुतानुचरालापेषु वयं विस्मरणीयाः । किमन्यज्ज- न्म च जीवितं च तदेव श्लाघ्यं१५मन्यामहे, यत्र१६ प्रसङ्गेन भवादृशा अ- नुस्मृतिं कुर्वन्ति । तदेष प्रस्थानप्रार्थनाप्रणामः' इत्युक्तवन्तमिममवनि- पालः कथ१७मपि विसर्जयामास१८ ॥ ख ॥ गते च तस्मिन्नविस्मरणी१९योपकारे कादम्बकदम्बकेश्वरे, श्रवणप्रणा- लिकया प्रविश्य मानसं२० सरस्तरलयन्त्यां विदर्भराजहंससुतायां, प्रह- रति प्रत्यङ्गमनङ्गधनुष्के, समीपवनविकासिकुन्दमकरन्दास्वादमदमे- एकदेति ॥ नीलाञ्जनिका तापिच्छः ॥ क ॥ देवेति ॥ आस्तां मनुष्याणाम्, अस्माकमपि पक्षिजातीयानामपीत्यपिशब्दार्थः। तिरयति तिरस्करोति ॥ ख ॥ गते चेति ॥ तस्मिन्हंसद्यून्दनेतरि । श्रवणमाकर्णनमेव प्रणाली जलमार्ग- स्तया । कृत्वा मानसं चेत एव सरस्तडागम् । अथ च मानसाख्यं देवतडागं कर्म- १ 'एकदा तु'. २ 'कुसुम्भ'. ३ 'शनैः शनैः'. ४ 'मन्दमन्दम्'. ५ 'कदम्बेन'. ६ 'उपगम्य'. ७ 'मधुमधुर'. ८ 'आवश्यकशौचावसाने'. ९ 'अनालेह्यम्'. १० 'परितः परितोषः'. ११ 'जलजन्मानोऽपि'; 'जलजनोऽपि'. १२ 'निजजन्म'. १३ 'येच येन'. १४ 'राधनोपरोधिता'. १५ 'वयं श्लाघ्यम्'. १६ 'यत्र प्रस्तावेन भवन्तोऽस्मृतिं कुर्वन्ति'; 'यत्र प्रसङ्गेन भवादृशा अनुस्मृतिं कुर्वन्ति'. १७ 'कथंकथमपि'. १८ 'विसर्जयांचकार'. १९ 'अस्मरणीय'. २० 'मानससरः'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

पञ्चम उच्छ्वासः । १३१ दुरगिरां गच्छति श्रवणपथमतिमधुरे मधुलिहां झंकारे, आकर्णपूरीकृ- तकार्मुकगुणे रणरणकारम्भिणि तत्रावसरे ॥ क ॥ आविर्भूतविषादकन्दमसमव्यामोहमीलन्मन- श्चिन्तोत्तानितनिर्निमेषनयनं निःश्वासदग्धाधरम् । जातं स्थानकमुत्सुकस्य नृपतेस्तत्तस्य यस्मिन्नभू- त्प्रेयान्पञ्चमराग एव रिपवः शेषास्तु सर्वे रसाः ॥१६॥ ततश्च वृश्चिकदंशदुःसहव्यथामवस्थामनुभवन्निव, १कण्टकैश्चरणम- र्मणि विध्यमान इव, मुहुर्मुहुर्मुर्मुर२पुञ्जराजीवाङ्गानि धारयन्नुमग्रीष्मा- निलोल्लोलैरिवानिङ्ग्यमानो, ३मनागपि न क्वापि शर्म लेभे ॥ ख ॥ तथाहि । ४श्च्योतच्चन्द्रमणि५प्रणालशिशिराः सौगन्ध्यरुद्धाम्बरै- र्निर्गच्छन्नवधूपधूमपटलैः संभिन्नवातायनाः । सौधोत्सङ्गभुवो विकीर्णकुसुमाः पूर्णेन्दुरश्मि६श्रिया रम्यायां निशि नो हरन्ति हृदयं हृद्यं किमुद्वेगिनाम् ॥ १७ ॥ अपि च । तापन्नम् । विदर्भराज एव हंसस्तस्य पुत्र्यां तरलयन्त्यां सत्याम् । तथा श्रवणीकृ- तधनुर्गुणे अनङ्गधनुर्धरे । तथा मधुलिहां मधुरगिरां झंकारे कर्णे गच्छति औत्सु- क्यकारिणि वावसरे सति । ‘हंसो विहंगभेदे स्यान्निर्लोभनृपतावपि’ ॥ क ॥ आविरिति ॥ उत्कण्ठितस्य नृपतेस्तत्स्थानकमवस्थान्तरं जातम्। यत्र (स्थान- के ) पञ्चमे पञ्चमाख्ये रागविशेषे रागो रसवत्ता स एव प्रियः । शेषास्तु रसा विषयानुरागा रिपवः ॥ १६ ॥ ततश्चेति ॥ तापातिरेकात्प्रतिक्षणं क्षणमात्रशुष्कम्लान्मुर्मुरः पुञ्जो येषां तानि मुर्मुरपुञ्जानि, तथाभूतानि राजीवानि येष्वङ्गेषु तानि । मुर्मुवस्तुषवह्निः । यद्विश्वप्र- काशः-‘मुर्मुवस्तुषवह्नौ स्यान्मन्मथे रविवाजिनि' ॥ ख ॥ श्च्योतदिति ॥ क्षरच्चन्द्रकान्तप्रणालशीताः । सुगन्धितनभोभिर्धूपधूमैर्मिश्रग- वाक्षाकीर्णपुष्पाः । प्रासादभूमयः परिपूर्णचन्द्रेण रमणीयायामपि रात्रौ चेतो हरन्ति । उद्वेगायेत्यर्थः । राज्ञ इति शेषः । युक्तं चैतत् । दुःखितानां किं हृद्यं । न किमपीति भावः ॥ १७ ॥ १ 'भिन्न इव'. २ 'पुञ्जमाक्षीव'. ३ 'मनागपि क्वापि शयितो विप्रबुधो वा न शर्म'. ४ 'श्चोतन्'. ५ 'प्रणालि'. ६ 'श्रियो'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

१३२ नलचम्पूः ।

हृद्योद्यानसरस्तरङ्गशिखरप्रेङ्खोलनायासिताः संभोगश्रमखिन्नकिंनरवधूस्वेदोदबिन्दुच्छिदः । सायं सान्द्रविनिद्रकैरववनान्यन्दोलयन्तः शनै- रङ्गेऽङ्गारसमाः पतन्ति पवनाः प्रालेयशीता अपि ॥ १८ ॥ तदाप्रभृति चास्य प्रायः प्रीतिरभूद्दाक्षिणात्यजनेष्वेव, पुलकमकरो- न्नामापि विदर्भदेशस्य, श्रुतापि श्रवणयोः सुखमजीजनद्दक्षिणा दिक् ॥ क ॥ किं बहुना । लिप्तेवामृतपङ्केन स्पृष्टेवानन्दकन्दलैः । आसीद्दिग्दक्षिणा तस्य कर्णयोर्मनसो दृशोः ॥ १९ ॥ दमयन्त्यपि हंसदर्शनदिवसादारभ्य भ्रमद्भृङ्गकुलकलकलोन्नादि- तपर्यन्तेषु, प्रत्यग्रोल्लूनपुष्पपल्लवास्तरणेषु, विचलद्विनोदविहंगेषु विह- रति नासन्नोद्यानलतामण्डपेषु, न च विकचकुवलयकहारकुशेशयै- सारवारिणि रणच्चटुलचञ्चरीकचक्रवाकचक्रे क्रीडति क्रीडासरसि, न च स्पृशति पाणिनापि माणिक्यमालामण्डनानि, न च रचयति रुचि- रालकवल्लीर्भङ्गान्तरालेषून्मिषत्कुसुमविन्यासान् 'न च कचिदुच्चहंस- तूलिकातल्पेऽपि कोमलकपोलावष्टम्भभाजि निद्रासुखमनुभवति, केव- लमधिपाण्डुगण्डस्थलस्थापितपाणिपल्लवा प्रेषयन्ती प्रतिक्षणमुत्तरस्यां दिशि दृशं, तद्देशागतानागने पक्षिणोऽपि सस्पृहं पश्यन्ती, तत्रत्यान- ध्वगानपि बन्धुबुद्ध्यालापयन्ती, तन्मण्डलागताय मरुतेऽप्यपनीतोत्त- रीयांशुका हृद॑यमर्पयन्ती दिनं दिनमनङ्गेनाभ्यभूयत ॥ ख ॥ तथाहि । लास्यं पांसुकणायते नयनयोः, शल्यं श्रुतेर्वल्लकी, नाराचाः कुचयोः सचन्दनरसाः कर्पूरवारिच्छटाः । तस्याः काप्यरविन्दसुन्दरदृशः सा नाम जज्ञे दशा प्राणत्राणनिबन्धनं प्रियकथा यस्यामभूत्केवलम् ॥ २० ॥


हृद्योद्यानेति ॥ रम्यतडागोर्मितरलनेन खेदिताः । तथा किंनरीस्वेदजलवि-
न्दुमुषः । वनानि कम्पयन्तः । शनैरङ्गे लगन्तो हिमसमा अपि वायवोऽङ्गारा इव
पतन्ति ॥ १८ ॥
---------------------------------------------
१ 'स्पृष्टेव'. २ 'दिनात्'. ३ 'कुरेशये सार'; 'कुशेशयचारु'. ४ 'स्पृहयति'.
५ 'रुचिता'. ६ 'भङ्गान्तरेषु'. ७ 'तूली'. ८ 'अधिकपाण्डु'. ९ 'गण्डपालिनिहित'.
१० 'स्वयं हृदय'.

पञ्चम उच्छ्वासः । १३३ एवमनयोरन्योन्यप्रेषितप्रच्छन्नदूतोक्तिवर्धितानुरागयोः च१लन्त्य- ङ्गानि न मनोरथाः, परिवर्तते चक्षुर्न हृदयम्, कृशतामेत्यङ्गयष्टिनो- त्कण्ठा, मन्दतां यात्युत्साहो नाभिलाषः, स्फारीभवति निःसहता न निद्रा, वर्धते चिन्ता न रतिः, शुष्यत्यधरपल्लवो नाग्रहरसः ॥ क ॥ किं बहुना । कर्पूराम्बुनिषेकभाजि सरसैरम्भोजिनीनां दलै- र्दो२स्तीर्णेऽपि विवर्तमानवपुषोः स्रस्तस्रजि स्र३स्तरे । मन्दोन्मेषदृशोः किमन्यदभवत्सा काप्यवस्था तयो४- र्यस्यां चन्दनचन्द्रचम्पकद५लश्रेण्यादि वहीयते ॥ २१ ॥ आसीच्च तयोः कृतान्योन्यगुणप्रशंसालापजपयोः पुनरुक्तावर्तित- नामधेयस्वाध्याययोः संकल्पसमागमविबद्ध६ध्यानयोः स्मरानले खं७ हृदयं जुह्वतोस्तप्यमानयोरङ्गीकृतमौनव्रतयोरपि वियोग एव, न८ योगः॥ख॥ कदाचित्तु तरुणजननयनकुरङ्गवागुरामनङ्गगजेन्द्रमदप्रवाहढक्का- मं९पहसितसुरासुरसुन्दरीरूपश्रियं शृङ्गाररस१०राजधानीमवलोक्य यौव- नावस्थां दमयन्त्याः ‘कोऽस्याः किलानुस्पः पतिर्भवेत्’ इति, चिरं चिन्ताकुलो विदर्भेश्वरः स्वयं स्वं११यंवरधर्मप्रारम्भाय समं मन्त्रिभिर्म- न्त्रनिश्चयं चकार ॥ ग ॥ न चिराच्च प्रा१२च्यप्रतीच्यादीच्यदाक्षिणात्यनरपतिनिम१३न्त्रणे समा- वृतान्प्रगल्भप्रौ१४यान्प्रधानप्रेष्यान्प्रेषयामास ॥ घ ॥ एवमिति ॥ तां दिशं प्रति चलन्त्यभिमुखीभूय निवर्तन्ते । एवं चक्षुरपि ॥ क ॥ आसीच्चेति ॥ कृतोऽन्योन्यगुणप्रशंसालाप एव जपो जाप्यं यकाभ्याम् । पुन- रावर्तितं नामैव स्वाध्यायो ययोः । संकल्पे चित्तकर्मणि यः समागमस्तत्राबद्धं ध्यानं यकाभ्याम् । कामाग्नौ स्वचेतो होमयतोः । तप्यमानयोः । मौनिनो- रप्यनयोर्वियोगो विरह एवासीत् । न योगः । योगः संबन्धोऽध्यात्मविषयश्च । अन्यस्य जपं स्वाध्यायं ध्यानं होमं तपो मौनं व्रतं च कुर्वतो योगलाभः स्यात् । तप्यमानेति संतापपक्षे कर्मकर्तरि, तपःपक्षे तु कर्तरि, तपेः कर्मविषयत्वात् ॥ ख ॥ १ ‘स्खलन्ति’; ‘वलन्ति’. २ ‘आकीर्णे’. ३ ‘प्रस्तरे’. ४ ‘द्वयोः’. ५ ‘वन’. ६ ‘अव- बद्ध’. ७ ‘स्वहृदयम्’. ८ ‘नियोगः’. ९ ‘उपहसित’. १० ‘रसराजराजधानी’. ११ ‘स्वयंवरकर्म’; ‘स्वयंवरधर्मकर्म’. १२ ‘प्राच्योदीच्यावाच्यदाक्षिणात्य’. १३ ‘निमन्त्रणाय’. १४ ‘प्रश्रयान्’. १२

१३४ नलचम्पूः । प्रस्थितं च कंचिदुदीच्यनरपतिनिमन्त्रणाय प्रबुद्धवृद्धब्राह्मणमास- सखीमुखेन दमयन्ती श्लिष्टार्थमिदमवादीत् ॥ क ॥ 'भूपालामन्त्रणे तात तथा संचार्यतां यथा । नलोप्यागमबुद्धिः स्यात्प्रार्थ्यसे किमतः परम्' ॥ २२ ॥ सोऽप्यवगतश्लोकार्थस्तथाविधमेव प्रत्युत्तरमदात् ॥ ख ॥ 'केनापि व्यवहारेण कयापि प्रौढलीलया । करिष्याम्यागमस्यार्थे रभसेन नलङ्घनम्' ॥ २३ ॥ तदायुष्मति सुखमास्ताम्' इत्यभिधाय गतवान् ॥ ग ॥ अथ नातिचिरेणागतस्तया रहः समाहूय स ब्राह्मणः सोमशर्मा नर्मलापलीलया दमयन्त्या बभाषे ॥ घ ॥ 'आहूतोदीच्यभूपेन तातादेशविधायिना । नालीकापि त्वया वार्ता विद्वन्नावेदिता मम' ॥ २४ ॥ सोऽपि 'एष कथयामि श्लेषोक्तिकुशले, श्रूयताम्' इत्यभिधाय विहसन्नाख्यातुमारब्धवान् ॥ ङ ॥ इतो निर्गत्य मया मण्डलेश्वरामन्त्रणक्रमेण परिभ्रमताऽभ्रंकषानेक- कूटकोटिस्थपुटितकटकस्य निषधनाम्नो महीध्रस्य दक्षिणारण्यस्थलीषु मृगयासक्तः ॥ च ॥ माद्यन्मांसलतुङ्गपुंगवककुत्कूटांनतांसस्थलः कालिन्दीजलकान्तिकुन्तलशिराः पूर्णेन्दुविम्वाननः । एकः कोऽपि मनोहरः पथि युवा दृष्टः स यस्मिन्सकृ- दृष्टे नष्टनिमेषया मम दृशा लब्धं फलं जन्मनः ॥ २५ ॥ तेनापि 'दाक्षिणात्योऽयम्' इति निश्चित्य साभिलाषमाभाषितो- ऽस्मि ॥ छ ॥ भूपेति ॥ तातेति संबोधने । नृपनिमन्त्रणे तथा संचार्यतां, यथा आगमाव- गतिः शास्त्रप्रतीतिर्लोप्या न स्यादिति बाह्यार्थः । इष्टार्थस्तु नलनामापि नृपो यथा- गमनबुद्धिर्भवेदिति ॥ २२ ॥ केनेति ॥ आगमस्य शास्त्रस्य । अर्थे लङ्घनं न करिष्यामीति बाह्यार्थः । इष्टा- र्थस्तु आगमनस्यार्थे रभसेनाौत्सुक्येन घनं निबिडं नलाल्यं नृपं करिष्यामि आने- ष्याम्येवेत्यर्थः ॥ २३ ॥ आहूतेति ॥ आकारितोत्तरनृपेण त्वया विद्वन्नलीकापि वार्ता न कथितेति बा- ह्योऽर्थः । आन्तरस्तु नलस्येयं नाली वार्ता सा कापि त्वया नाभ्यधायि ॥ २४ ॥ १ 'संचय्र्यताम्'. २ 'उत्तरम्'. ३ 'गुर्वा'. ४ 'परिभ्रमता सवाञ्न'. ५ 'क्रान्त'.

मयापि कृतोचितालापेनोक्तम् ॥ क ॥ 'यथेयमाकृतिर्लोकलोचनानन्ददायिनी । तव भद्र तथा सत्यं सत्यागोऽसि नलोभवान्' ॥ २६ ॥ एवमुक्तः सोऽपि मनाङ्मुग्धस्मितमेवोत्तरं कल्पितवान् ॥ ख ॥ अथ प्रथमवयोविभूषिताङ्गस्तुङ्गतुरंगमारूढो गाढग्रंथितपरिकरः करेण कोदण्डमाकलयंस्तद्वितीयो युवा तमेव देशमंगतवान् ॥ ग ॥ आगत्य च बालनीलनलशालिनि शिलोच्चयस्थलीप्रदेशे कांचित्का- ञ्चनकुम्भकान्तिकुर्चकंठलुलितर्तंकुसुममालिकामवलोकयन्निदमवादीत् ॥ घ ॥ 'युवराज, पश्य । नद्यास्तीरे विदर्भायाः कापि गोपालवालिका । गाः समुच्चारयत्येषा क्षेत्रीकृत्य नलं वरम्' ॥ २७ ॥ एतदाकर्ण्य मयाप्युक्तम्— 'महानुभाव, न केवलमियंमैन्यापि काँपि कापि' इति ॥ ङ ॥ इत्युक्तवन्तं मामवलोक्य भावितार्थः स पुनः सस्मितमवो- चत् ॥ च ॥ 'इयं च सा च


यथेयमिति ॥ सन् शोभनस्त्यागो यस्य । तथा न लं लोभवान् । असीत्य- व्ययं युष्मदर्थे । पक्षे सत्यागस्त्वम् । तथा नलाख्यो भवान् इति पृथग्वाक्यद्वयम् । एकवाक्यतायां तु भवानसीति मध्यमपुरुषो दुर्लभः ॥ २६ ॥ नद्या इति ॥ विशिष्टदर्भाया नद्यास्तीरे । काप्यनिर्दिष्टनामा । गोपी । वरं श्रेष्ठं नलं ( डं ) तृणविशेषं । केदारीकृत्य । गा धेनूः । समुत् सहर्षा । चारयति । श्लेषवक्रोक्त्या तु विदर्भाभिधानाया नद्यास्तीरे, कापि महनीयमहिमा, गोपालस्य भूपस्य, बालिका सुता, नलं राजानं, वरं वरयितारं, क्षेत्रीकृत्याश्रयीकृत्य, गिरः समुच्चारयति । वर ईप्सायाम्, वर्यत इति वरः । क्षेत्रं सद्भूमिः ॥ २७ ॥


१ 'ततो मया'; 'मया च'. २ 'कृतोचिताचारालापेन'. ३ 'प्रथम वयोविशेषभूषि'; 'प्रथमवयोभू'. ४ 'तुरङ्ग'. ५ 'ग्रन्थिग्रथितप'; 'ग्रथित'. ६ 'तमेवोद्देशम्'. ७ 'आया- तवान्'. ८ 'नलशाद्दलशालि'. ९ 'कान्त'. १० 'कुचकुम्भ'. ११ 'लुलित'. १२ 'मालिकां बालिका'; 'मालिकां गोपबालिकाम्'. १३ 'इयमेवान्यापि'. १४ 'कापि कापि नद्यास्तीरे विदर्भायाः कापि गोपालबालिका । गाः समुच्चारयत्येषा क्षेत्रीकृत्य नलं वरमित्युक्तवन्तं'. १५ 'पुनः पुनः'.

१३६ नलचम्पूः । अनुभवतु चिराय चञ्चलाक्षी- रसपरिणामफलानि गोपपुत्री । अपसरति महोद्यमेन यस्याः कथमपि संप्रति नैषधेऽनुरागः' ॥ २८ ॥ आस्तां तावदन्यत् । अध्वन्य, कथय कुतः प्रष्टव्योऽसि, किंच कियद्धाद्यापि वर्त्मातिक्रमितव्यम्' इति ॥ क ॥ अथ कथितस्ववृत्तान्तेन मयापि 'कोऽयमशेषमनुष्यमस्तकमणिः, कश्च भवानपि स्वप्रज्ञाप्राग्भारपराङ्मुखीकृतपुरंदरगुरुः' इति पर्यन्वयु- क्तः स पुनरुक्तवान् ॥ ख ॥ 'अयमसो सौम्य, समस्तशर्स्त्राशास्त्रकोविदो विदारितवैरीवैरसेनि- र्नलैः । किमन्यदहमपि श्रुतशीलो नामास्यैवाज्ञाकारी, इत्यभिधाय विश्रान्तवान् ॥ ग ॥ नलोऽपि कृत्वा त्वदाश्रयास्तास्ताः प्रकटितप्रेमकन्दलाः कथाः, समर्थ्य चैं स्वयंवरआमन्त्रणमुत्सुकतया तत्कालमेवोड्डीर्य गन्तुमीहमानः संभाषितैन स्मितेनैर्नालोकितेन च माममृतवर्षेणेवाह्लादयन्ननिच्छन्तमपि प्रतिग्राह्य च वलादनर्घ्याणि स्वाङ्गाभरणानि चिराँदेव व्यसर्ज- यत् ॥ घ ॥ स्वयं च मृगयाव्यसनितया मृगयालुभिः सह ॥ ङ ॥ धीरं रङ्गन्तमारुह्य सारं रंहसि वाजिनम् । हारं रम्यं गले विभ्रत्स्वैरं रन्तुमगात्पुनः ॥ २९ ॥ अनुभवत्विति ॥ गोपालिका क्षीरस्य सपरिणामानि परिणतानि यानि फला- नि क्षैरेयीदधिघृतप्रभृतीनि तान्यनुभवतु चिराय । चञ्चला लोला गोचारणवशात् । यस्याः संप्रत्येष धेनुरागो । महोद्यमेन हेतुना । कथमपि केनापि प्रकारेण । न निवर्तते । श्लेषे तु गोपपुत्री भूपपुत्री दमयन्तीलक्षणा चञ्चलाक्षी लोलनेत्रा शृङ्गारादिरसपरिपाकफलान्यपभुङ्क्ताम् । यस्याः संप्रति नैषधे नले महोद्यमेऽनुरागः प्रेमबन्धः । कथमपि नापसरति ॥ २८ ॥ धीरमिति ॥ धीरमत्रासं रङ्गन्तं वलगन्तं रंहसि वेगे सारमुत्कृष्टं वाजिनमश्व- मारुह्य कण्ठे हारं गुणं बिभ्राणः स्वच्छन्दं क्रीडितुं पुनरप्यगात् ॥ २९ ॥ १ 'आस्तां च'. २ 'कियच्चाद्यापि'. ३ 'सौम्यः'. ४ 'शस्त्रास्त्रशास्त्र'. ५ 'नलो नाम'. ६ 'श्रुतशीलनाम'. ७ 'च स्वयं स्वयं'. ८ 'उड्डीयेवागन्तुम्'. ९ 'सस्मितेन'; 'कुत्रचित्पुस्तके स्मितेनेत्येतन्नास्ति'. १० 'अवलोकितेन'. ११ 'चिरादिव'.

तदायुष्मति, स्वामिसुते यथा मया तँत्कथाप्रश्नानुराग उपलक्षित- स्तथा निश्चितमँचिरादयमेष्यति' इत्यभिधाय स ब्राह्मणः स्वगृहैम- गात् ॥ क ॥ गते च तस्मिन्दमयन्ती 'श्लाघ्यः स कः कालः, धन्यः स कैतमो वासरः, सँलक्षणा सा का नाम वेला, यस्यामिदमिन्दुदर्शनेनेव कुमु- द्मसच्चक्षुस्तदालोकनेन कैम्प्यानन्दमनुभविष्यति, इति चिन्तयन्ती कान्यपि दिनानि कयाप्यवस्थया व्यनैषीत् ॥ ख ॥ अथ नलोऽप्याम्मन्त्रितस्तेन ब्राह्मणेन रणरणकेन च, प्रेरितो म- न्त्रिणा मदनेन च, परिवृतः सेनयोत्कण्ठया च, तत्कालमेव विदर्भ- मण्डलाभिमुखमुद्चलत् ॥ ग ॥ चलिते च चैतुरङ्गबैलचलनचूर्णितशिलोच्चयचक्रवाले चक्रिचक्रच- ङ्क्रमणचीत्कारबधिरितककुभि विषमवैरिवृन्दवनवैश्वानले नले, चल- न्तश्चटुलतरचरणप्रहाररणितधरणिमण्डलाः कान्तकाञ्चनरचनारोचि- ष्णवश्चकासांचक्रुश्चक्रवर्तिवाहनोचिताः साश्चर्यमपर्यन्तपर्यायाः पर्या- णितास्तुरङ्गाः, शृङ्गारिताश्च चलचारुचामरावेधूलनालंकृतकपोलभि- त्तिभागसंलॅगितभृङ्गसंगीतमुखरितमुखमण्डलाः कथमप्याधोरणनि- रुध्यमानशौर्यविकारस्फुरणाः स्फुरत्कुम्भभित्तिसिन्दूरा दूरापसा- रितस्यन्दनाः स्यन्दमानामन्दमदकर्दमितमेदिनीकाः कम्पयांबभूवुर्भुवं भूरिभारभुग्नाङ्गपन्नगशिरैः शिथिलावष्टम्भामिभेन्द्राः ॥ घ ॥ किंबहुना । तत्रावसरे पूर्वापरपयोराशिसिमासंक्रान्तसैनिके । तस्मिन्सस्मार भूर्भाराद्वराहवपुषो हरेः ॥ ३० ॥ अपिच । पूर्वेति ॥ पूर्वापरसागरावधिसंक्रान्तचमूचरे तस्मिन्नले भूर्मेदिनी भाराद्धेतो- र्हरेः सस्मार । 'अधीगर्थ-' इति सूत्रेण कर्मणि षष्ठी ॥ ३० ॥ १ 'त्वत्कथा'. २ 'अचिरादेष्यति'. ३ 'स्वगृहान्'. ४ 'कः'. ५ 'सुलक्षणा'. ६ 'कथमपि'. ७ 'चलच्चतुरङ्ग'. ८ 'बलचमूचलन'. ९ 'काञ्चनाभरणरचना'. १० 'धूनना'; 'चूला'. ११ 'संकलित'; 'संमिलितमदमिलित'; 'संग्रलितमदजललुलित'. १२ 'विस्फु- रणः'. १३ 'शिरःसहस्रैः'.