नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 144, कुल 258 में से
संदर्भ में पढ़ें१२४ नलचम्पूः । ततः प्रभृति च तस्याः सरलीभवन्ति निश्वासा न हासाः, स्खलन्ति वाचो न शुचः, वर्धते तन्द्रा न निद्रा, द्र्वति स्वेदाम्भो न स्तम्भः, मन्दायते स्वरो न स्मरः, वाञ्छा चन्दनाय न स्पन्दनाय, संतापशान्तये तद्गुणादानं न ज्ञानम्, प्रीयते हारो नाहारः, सुखायाङ्गे लग्नमुद्यानप्र- भञ्जनो न जनः ॥ क ॥ पठति च मुहुर्मुहुरिमं श्लोकम् ॥ ख ॥ विश्राम्यन्ति न कुत्रचिन्ने च पुनर्मुह्यन्ति मार्गेष्वपि प्रोत्तुङ्गे विलैगन्ति नान्तरतरुश्रेणीशिखापञ्जरे । खिद्यन्ते न मनोरथाः कथममी तं देशमुत्कण्ठया धावन्तः पथि न स्खलन्ति विषमेऽप्यास्ते स यस्मिन्प्रियः॥५॥ तेऽपि राजहंसाः शशाङ्कधरेषु, सप्रपञ्चपञ्चाननेषु, शिवरूपेषु, वनेषु, सुशोभां कौमुदीं दधत्सु, शश्वदनुकृतसौमुद्रवृद्धिषु, चन्द्रमण्ड- लरूपेष्विव सरःसलिलेषु विर्हरन्तस्तुहिनाद्रिकुञ्जॉंनिव सत्रिपथगान्न- गनगराग्राम्राग्रहारप॑त्तनप्रदेशानुलङ्घयन्तः कतिपयदिवसैरासेतुरुद्यानं निषधायाः ॥ ग ॥ तत इति ॥ प्रभञ्जनो वात एवाङ्गे लग्नन्सुखाय न परिजनः ॥ क ॥ विश्राम्यन्तीति ॥ मनसि रथा इव मनोरथाः संकल्पाः । विश्रामादयो रथ- धर्माः ॥ ५ ॥ तेऽपीति ॥ हंसा वनेषु सरोजलेषु च विहरन्तो नगादिप्रदेशान् व्यतिक्राम- न्तो निषधोद्यानमापुः । कीदृक्षु वनेषु । शशा अङ्के यस्यास्ताथाभूता धरा भूमिर्येषु । तथा सच्छद्मानः पञ्चाननाः सिंहा येषु । शिवस्तु शशाङ्कं चन्द्रं धरति । तथा सह प्रपञ्चैः पृथग्भागमोपदेशलक्षणैर्वर्तन्ते तथाभूतानि पञ्चसंख्यानि आननानि वक्त्रा- णि यस्य । सरोजलेषु कीदृक्षु कुमुदानांमियं कौमुदी शोभा ताम् । चन्द्रमण्डले तु कौमुदी चन्द्रिका ताम् । तद्विशेषणं सुशोभामिति । अनुकरणमनुहरणम् । चन्द्र- पक्षे अनु पश्चात्कृता सामुद्री वृद्धिर्येन । चन्द्रोद्यो हि जलधिविवृद्धये । न विद्यन्ते नावो यत्र तदनु, अनु यथा भवति एवं कृतवृद्धिषु । पूरोत्पीडे हि न केऽपि नावं क्षिपन्तीति । नगनगरप्रदेशान् । कीदृशः । सत्राणि ब्राह्मणादीनां भोजनानि यज्ञा वा विद्यन्ते येषु । ते च ते पन्थानश्च सत्रिपथास्तानाच्छन्ति प्राप्नुवन्तीति सत्र्रि- पथगास्तान् । हिमाद्रिनिकुञ्जांस्तु सह त्रिपथगया गङ्गया ( तस्य द्वित्वम् ) ॥ ग ॥ १ 'सुखायालमुद्यान'. २ 'ननु'. ३ 'अपि गलन्ति'. ४ 'समुद्र'. ५ 'रूपेषु सरः'; 'रूपेषु च सरः'. ६ 'विहरन्तो बिसशकलानि कवलयन्तः कूजन्तः'. ७ 'निकुञ्जानिव'. ८ 'पुरपत्तन'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA