नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 145, कुल 258 में से
संदर्भ में पढ़ेंक्रीडितुमारभन्त च स्वच्छन्दम् ॥ क ॥ अथ तेषामन्यतममवलोक्य क्रीडातडागपङ्कजपञ्जरे राजहंसीमा- गत्य त्वरया हंसदर्शनोत्सुकं सरोरक्षिका राजानं व्यजिज्ञपन् ॥ ख ॥ 'देव, हंसवार्तामनुदिनं पृच्छति देवस्तदद्य काचित् ॥ ग ॥ कुरुते नालकवलनं दूरं विक्षिपति गर्भजम्बालम् । त्वदरिवधूरिव राजन्नुद्यानस्रोगता हंसी ॥ ६ ॥ अपि च । अभिलषति नालमशनं स्वपिति नवाम्भोजपत्रशयनेऽपि । नीरागमना नृपते तव रिपुवनितातये हंसी' ॥ ७ ॥ राजापि तस्याः श्लिष्टार्थमिदमार्यायुगलमवधारयन्स्तोकस्मितसुधा- धवलिताधरपल्लवः 'लवङ्गिके, यथा कथयसि तथा तेऽप्यागता हंसाः कथमन्धथा तस्याः खल्वेकाकिन्याः संभवः' इति तद्वार्तया यावदा- स्ते ॥ घ ॥ तावन्नीलोत्पलदलदीर्घलोचना चन्द्रमुखी बन्धूककुसुमकान्तदन्त- च्छदा नीलांशुकपटीं परिदधाना पक्वकलममञ्जरीगौराङ्गी प्रकाशहासा हंसैरनुगम्यमाना मूर्तिमती शरदिव वनपालिका प्रविश्य 'देव, सोऽयं कथमप्यागतो रणरणककारणमपराधी विहंगः' इत्यभिधाय तं राजहंसमुभयकरकमलाञ्जलिगतमुत्फुल्लपाण्डुपङ्कजार्धमिव पुरः पादा- रविन्दयोर्निधाय राज्ञः प्रणाममकरोत् ॥ ङ ॥ कुरुत इति ॥ राजन् नृप, उद्यानतडागगता हंसी नालस्य बिसकाण्डस्य कव- लनं ग्रासं कुरुते । तथा गर्भे मध्ये यो जम्बालः कर्दमस्तं च दूरं परिक्षिपति । वधूस्तु उद्यानेन पलायनेन सरोगता रोगवत्ता यस्याः । तथा अलकस्य वलनं न कुरुते । गर्भजातं बालं दूरे क्षिपति । भीत्या हि गर्भः पतति ॥ ६ ॥ अभिलषतीति ॥ नालं कमलकाण्डमशनमाहारं वाञ्छति । स्वपित्यपि नूत- नाभ्जपत्रशय्यायाम् । नीरे आगमनं यस्याः । रिपुवनिता तु नीरागं वैराग्योपेतं मनो यस्याः । अतएवालमत्यर्थमशनं नाभिलषति । नापि कमलदलतल्पे शेते । वा अथवा ॥ ७ ॥ तावदिति ॥ यावत्तद्वार्तयास्ते नृपस्तावत् । शरदुपमा वनपालिका प्रविश्य देवेत्यभिधाय तं राजहंसं राज्ञः पादयोर्निधाय प्रणामं चकार । नीलोत्पलदलादीनि लोचनादीनामुपमानानि । दन्तच्छद ओष्ठः । नीलमंशुकं वासस्तस्य पटी उत्त- १ 'तेषां मध्येऽन्य'. २ 'पङ्कजपुञ्जपञ्जरे'. ३ 'राजहंस'. ४ 'दिवसम्'. ५ 'यतते'. ६ 'अवधार्य सावसरं प्रशस्य स्तोक'. ७ 'राजहंसाः'. ८ 'अकथयनातः'.