नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 143, कुल 258 में से
संदर्भ में पढ़ेंणीकृत्योन्मुच्य च स्वकण्ठकन्दलादुत्कण्ठितामिव स्वां मूर्तिमतीं तस्य मुक्तावलीं गले व्यलम्बयत् ॥ क ॥ सोऽपि 'सुन्दरि, सोऽयं स्कन्धीकृतो मया मुक्तावलीच्छलेन तस्य पुरो भवद्वर्णनाभारः' इत्यभिधाय सह तेन विहंगमगणेनोत्प- पात ॥ ख ॥ उत्पतिते च नभस्तलम् 'आगच्छत, संपद्यन्तां सफललोचनाः, पश्यतापूर्वं खीरत्नम्' इति चलत्पक्षपल्लवव्याजेन दूराद्दिक्पालानि- वाह्वयति, तीव्रप्रभ्रमयूखसंतप्तां दिवमिवोपवीजयति, दिक्कुञ्जरनिरुद्धा- वकाशा आशा इवाश्वासयति, पक्षिमण्डले तस्मिन्विस्मयोन्मुखी सा भूपालपुत्री निर्निमेपं निक्षिप्य चक्षुश्चिरमूर्ध्वैवावतस्थे ॥ ग ॥ चिन्तितवती च ॥ 'तात तावन्ममाप्येवं न विधत्से प्रजापते । पक्षौ पक्षिवदुड्डीय येन पश्यामि तन्मुखम् ॥ ३ ॥ अपिच । उड्डीय वाञ्छितं यान्तो वरमेते विहंगमाः । न पुनः पक्षहीनत्वात्पङ्गुप्रायं कुमानुषम्' ॥ ४ ॥ इति चिन्तयन्ती गतेष्वपि तेषून्मुखी तां दिशमनुविस्मयविस्फार- लोचना निस्पन्दतया काष्ठकल्पावस्थां दधाना चिरात्सखीभिः संबोध्य स्वगृहंमनीयत ॥ घ ॥
सोऽपीति ॥ स्कन्धीकृतोऽङ्गीकृतः ॥ ख ॥ उत्पतिते च नभस्तलमिति ॥ दिक्पालानाह्वयतीत्यनेन भाविदिक्पाला- गमनं सूच्यते ॥ ग ॥ उड्डीयेति ॥ यद्यपि मनोरपत्यं स्त्री मानुषी पुमान्मानुष इति 'स्त्रीपुंसयोरप- त्यान्ता द्विचतुःषट्पडोरगाः' इति लिङ्गवचनान्मानुषशब्दस्य स्त्रीपुंसस्य वृत्तित्ता, तथापि नपुंसकलमपि । लिङ्गस्य लोकाश्नयलात् । तथाच भवभूतिः—'अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः । कालेनावरणात्ययात्परिणते यत्स्नेहसारस्थितं भद्रं तस्य सुमानुषस्य कथम- प्येकं हि तद्दुर्लभम्' ॥ ४ ॥
१ 'उत्कण्ठामिव मूर्तिमतीम्'. २ 'संपद्यताम्'. ३ 'लोचनानि; लोचनता'. ४ 'पटले'. ५ 'निक्षिप्तचक्षु'. ६ 'ऊर्ध्वमुखैव'. ७ 'संचिन्तयन्ती'. ८ 'विस्मयेन'. ९ 'विस्फारित- विलोचना'; 'विस्तारितलोचना'; 'विस्फारितलोचना'. १० 'स्वगृहान्'.