नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 148, कुल 258 में से
संदर्भ में पढ़ें१२८ नलचम्पूः । 'उन्मादिनी मदनकार्मुकमण्डलज्या सौभाग्यभाग्यपरंपरवैभववैजयन्ती । मुक्तावलीकुलधनं नरनाथ सैषा कण्ठग्रहं तव करोतु भुजेव तस्याः ॥ १० ॥ अपिच । प्रेमप्रपञ्चनवनाटकसूत्रधारी मूर्ता मनोभवनृपस्य नियन्त्रणाज्ञा । तस्याः स्वयंवरपरिग्रहेहेतुरेषा हारावली हृदि पदं भवतः करोतु' ॥ ११ ॥ राजा तु तामादाय निरूप्य च चिरं चिन्तयांचकार ॥ क ॥ 'आनन्दिसुन्दरैगुणामलकोपमान- मुक्ताफलप्रचयमद्भुतमूद्वहन्ती । एषा च सा च नयनोत्सवकारिकान्ति- श्चेतोहरा हृदि पदं न करोति कस्य' ॥ १२ ॥ इति चिन्तयन्द्विगुणामेकगुणीकृत्य पुनः सस्पृहमैक्षत ॥ ख ॥ हंसस्तु विहस्य परिहासमकरोत् ॥ ग ॥ 'तया दत्ता मयानीता स्वयमाह्लादिनी त्वया । इत्यनेकगुणाप्येषा कथमेकगुणीकृता' ॥ १३ ॥ राजापि परिहासेनान्तःसूत्रं दर्शयन् 'पक्षिपुंगव, किं न पश्यस्ये- क॑र्गुणैवेयम् ॥ घ ॥ आनन्दीति ॥ गुणस्तन्तुः शौर्यादिश्च । आमलकोपमानानां मुक्ताफलानां मौक्तिकानां प्रचयं समचायम् । अद्भुतमाश्चर्यकारिणम् । वहन्ती । दमयन्ती तु मलातपापान्मालिन्याद्वा, कोपात्क्रुधो, मानाद्रर्वात्साहश्याद्वा मुक्ता भ्रष्टा । तथाद्भुतं चित्रं फलानां प्रचयं वहन्ती परिणेतुरिति शेषः । चेतोहरा मनोज्ञा । अन्यत्र चेत- सि हरोऽस्याः । एवम्भूतेयं मुक्तावली सा च कस्य हृदि वक्षसि चेतसि च, पदमवस्थानं न करोति, सर्वस्यापि करोत्येवेत्यर्थः ॥ १२ ॥ तया दत्तेति ॥ गुणाश्चारुतादयस्तन्तुसरिका च ॥ १३ ॥ १ 'भर'. २ 'दूति'. ३ 'मुद्गतम्'. ४ 'आवहन्ती'. ५ 'आह्लादिता'; 'आसादिता'. ६ 'गुणेयम्'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA