नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 149, कुल 258 में से
संदर्भ में पढ़ेंपञ्चम उच्छ्वासः । १२९ अथवा । कः करोति गुणवान्गुणसंख्यां श्लाघ्यजन्ममहसः स्फुटमस्याः । कुम्भिकुम्भपरिणाहिनि तस्याः स्वैरमास्यत यया कुचयुग्मे ॥ १४ ॥ इत्यभिधाय नीत्वा च निजकण्ठकन्दलम्, 'इहास्ते सा तव पूर्वप्र- णयिनी' इत्यन्तःस्थितां दमयन्तीं दर्शयितुमिव हृन्मध्यवर्तिनीं ताम- करोत् ॥ क ॥ कृत्वा च किंचिदनुच्चस्मितं मधुरमधुरया वाचा 'विहंगपुंगव, पुनः कथ्यतां कीदृशी सा, कीदृग्रूपा, किं¹ च वयः, कीदृशी² लावण्यसंपत्, को विनोदः, कीदृशं वाग्वैदग्ध्यम्, किं प्रियम्, का गोष्ठी, इति श्रुता- मप्यपूर्वामिव तद्वार्तामादरेण पृच्छन्ना³गच्छंश्च चटुलकरकृतशरसंधा- नस्यानवरतविरचिताद्रुतभ्रमणकर्मकार्मुकवलयस्य लक्ष्यतां म⁴करके- तोरविदिताप्रक्रमानतिबहून्वेलाँ⁵लवानवतस्थे ॥ ख ॥ स्थिते च विभूष्य मध्यं⁶ नभोभागं भगवति भासुर⁷भासि भास्वति, श्रवणपुटपथमवतरति च प्रहरावसानप्रहारभांकारिभेरीरवे, 'वयस्य, विश्रम्यतामिदानीम⁸मन्दमन्दारतरुपरिकरतरोधसि मन्दिरोद्यानारवि- न्ददीर्घिकायामेवं⁹ प्रार्थ्यसे च न गन्तव्यमविसर्जितेन त्वया पूर्ववत्' इति नियम्य तं राजहंसं स्वयमप्याह्निको¹⁰यदतिष्ठत् ॥ ग ॥ एवं च शिथिलितसकलान्यव्यापृतस्तस्य राज्ञः परिहृतनिजवन्ध्योर्यान्ति हंसेन सार्धम् । दिनमनु दमयन्तीवृत्तवार्ताविनोदै- रविदितपरिवर्ता वासराः शारदीनाः ॥ १५ ॥ कः करोतीति ॥ परिणाहो विशालता ॥ १४ ॥ शिथिलितेति ॥ दिनमनुदिनं लक्षीकृत्य । एतेन रात्रिन्निषेधः । पक्षिणो हि निशि नीडे निलीयन्ते । तापहेतवोऽपि दिवसा हंसवार्तया अविदितपरिवर्ताः। शरदि भवं शारदं रूपमुष्णलातिशयादि तद्दियते यस्यासौ शारदी इनो येषु ते शारदीनाः ॥ १५ ॥ १ 'कीदृग्वयाः', 'किंवयाः' २ 'कीदृश' ३ 'श्रुतां श्रुतामपि'; 'अतिभूयाः श्रुतामपि', ४ 'अपृच्छत्'. ५ 'च मकरः'. ६ 'कालवेला'. ७ 'मध्यम्'. ८ 'भास्वर'. ९ 'विश्राम्यताम्'. १० 'एष'. ११ 'अपि माध्याह्निकाय'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA