नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 150, कुल 258 में से
संदर्भ में पढ़ें॰१३०॰ नलचम्पूः । एकदो१ प्रस्फुरत्प्रभातारम्भप्रभया प्रभिद्यमाने नवनीलाञ्जनिकाकुं- सुम२कान्तिनि तमसि, विलीनलाक्षाम्भोभिरिव सिच्यमानायां शनैः३ शचीदयितदिशि, मन्द४मुन्मिषत्कमलमुकुलोच्छलच्चटुलालिचक्रवालक- लकलेनोन्निद्रितेन तन्द्रामुद्रितोन्मिषच्चक्षुषा चलच्चञ्चूकोटिकण्डूयन- विरामधुतपक्षरोमराजिना राजहंसकदम्बके५नानुगम्यमानो विहाय वि- हंगमः सरस्तीरम्, उपसृत्य६ किंनरमधुर७गीतध्वनिविनिद्रितमावश्यका८- वसाने राजानम्, इदमवादीत् ॥ क ॥ 'देव, विज्ञापयामो देवस्य दर्शनम्, अनालेप्यं चन्दनम्, अस्पर्श कर्पूरपांसुपटलोद्धूलनम्, अपातव्यममृतम्, अनास्वाद्यं रसायनम्, अलेह्यं९ मधु । कुतः किलैतदनुभवतामस्माकमपि वर्षसहस्रेणापि परि१०- तोषः । किं तु तिरयति स्वातन्त्र्यं प्राणिनां परपरिग्रहो दुस्त्यजाश्च जल११जन्मनोऽपि जन१२जन्मभूमयो भवन्ति । अवगमिष्यति च विश्रब्धमे- तत्सर्वमपि देवो यादृशा येन१३ च जन्मान्तराराधनोपरोधेन१४ प्रेषिता वयम् । अनवसरः खल्वयमस्य कथाप्रक्रमस्य । तदादिशतु देवोऽस्मा- नामनाय । न च प्रस्तुतानुचरालापेषु वयं विस्मरणीयाः । किमन्यज्ज- न्म च जीवितं च तदेव श्लाघ्यं१५मन्यामहे, यत्र१६ प्रसङ्गेन भवादृशा अ- नुस्मृतिं कुर्वन्ति । तदेष प्रस्थानप्रार्थनाप्रणामः' इत्युक्तवन्तमिममवनि- पालः कथ१७मपि विसर्जयामास१८ ॥ ख ॥ गते च तस्मिन्नविस्मरणी१९योपकारे कादम्बकदम्बकेश्वरे, श्रवणप्रणा- लिकया प्रविश्य मानसं२० सरस्तरलयन्त्यां विदर्भराजहंससुतायां, प्रह- रति प्रत्यङ्गमनङ्गधनुष्के, समीपवनविकासिकुन्दमकरन्दास्वादमदमे- एकदेति ॥ नीलाञ्जनिका तापिच्छः ॥ क ॥ देवेति ॥ आस्तां मनुष्याणाम्, अस्माकमपि पक्षिजातीयानामपीत्यपिशब्दार्थः। तिरयति तिरस्करोति ॥ ख ॥ गते चेति ॥ तस्मिन्हंसद्यून्दनेतरि । श्रवणमाकर्णनमेव प्रणाली जलमार्ग- स्तया । कृत्वा मानसं चेत एव सरस्तडागम् । अथ च मानसाख्यं देवतडागं कर्म- १ 'एकदा तु'. २ 'कुसुम्भ'. ३ 'शनैः शनैः'. ४ 'मन्दमन्दम्'. ५ 'कदम्बेन'. ६ 'उपगम्य'. ७ 'मधुमधुर'. ८ 'आवश्यकशौचावसाने'. ९ 'अनालेह्यम्'. १० 'परितः परितोषः'. ११ 'जलजन्मानोऽपि'; 'जलजनोऽपि'. १२ 'निजजन्म'. १३ 'येच येन'. १४ 'राधनोपरोधिता'. १५ 'वयं श्लाघ्यम्'. १६ 'यत्र प्रस्तावेन भवन्तोऽस्मृतिं कुर्वन्ति'; 'यत्र प्रसङ्गेन भवादृशा अनुस्मृतिं कुर्वन्ति'. १७ 'कथंकथमपि'. १८ 'विसर्जयांचकार'. १९ 'अस्मरणीय'. २० 'मानससरः'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA