नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 154, कुल 258 में से
संदर्भ में पढ़ें१३४ नलचम्पूः । प्रस्थितं च कंचिदुदीच्यनरपतिनिमन्त्रणाय प्रबुद्धवृद्धब्राह्मणमास- सखीमुखेन दमयन्ती श्लिष्टार्थमिदमवादीत् ॥ क ॥ 'भूपालामन्त्रणे तात तथा संचार्यतां यथा । नलोप्यागमबुद्धिः स्यात्प्रार्थ्यसे किमतः परम्' ॥ २२ ॥ सोऽप्यवगतश्लोकार्थस्तथाविधमेव प्रत्युत्तरमदात् ॥ ख ॥ 'केनापि व्यवहारेण कयापि प्रौढलीलया । करिष्याम्यागमस्यार्थे रभसेन नलङ्घनम्' ॥ २३ ॥ तदायुष्मति सुखमास्ताम्' इत्यभिधाय गतवान् ॥ ग ॥ अथ नातिचिरेणागतस्तया रहः समाहूय स ब्राह्मणः सोमशर्मा नर्मलापलीलया दमयन्त्या बभाषे ॥ घ ॥ 'आहूतोदीच्यभूपेन तातादेशविधायिना । नालीकापि त्वया वार्ता विद्वन्नावेदिता मम' ॥ २४ ॥ सोऽपि 'एष कथयामि श्लेषोक्तिकुशले, श्रूयताम्' इत्यभिधाय विहसन्नाख्यातुमारब्धवान् ॥ ङ ॥ इतो निर्गत्य मया मण्डलेश्वरामन्त्रणक्रमेण परिभ्रमताऽभ्रंकषानेक- कूटकोटिस्थपुटितकटकस्य निषधनाम्नो महीध्रस्य दक्षिणारण्यस्थलीषु मृगयासक्तः ॥ च ॥ माद्यन्मांसलतुङ्गपुंगवककुत्कूटांनतांसस्थलः कालिन्दीजलकान्तिकुन्तलशिराः पूर्णेन्दुविम्वाननः । एकः कोऽपि मनोहरः पथि युवा दृष्टः स यस्मिन्सकृ- दृष्टे नष्टनिमेषया मम दृशा लब्धं फलं जन्मनः ॥ २५ ॥ तेनापि 'दाक्षिणात्योऽयम्' इति निश्चित्य साभिलाषमाभाषितो- ऽस्मि ॥ छ ॥ भूपेति ॥ तातेति संबोधने । नृपनिमन्त्रणे तथा संचार्यतां, यथा आगमाव- गतिः शास्त्रप्रतीतिर्लोप्या न स्यादिति बाह्यार्थः । इष्टार्थस्तु नलनामापि नृपो यथा- गमनबुद्धिर्भवेदिति ॥ २२ ॥ केनेति ॥ आगमस्य शास्त्रस्य । अर्थे लङ्घनं न करिष्यामीति बाह्यार्थः । इष्टा- र्थस्तु आगमनस्यार्थे रभसेनाौत्सुक्येन घनं निबिडं नलाल्यं नृपं करिष्यामि आने- ष्याम्येवेत्यर्थः ॥ २३ ॥ आहूतेति ॥ आकारितोत्तरनृपेण त्वया विद्वन्नलीकापि वार्ता न कथितेति बा- ह्योऽर्थः । आन्तरस्तु नलस्येयं नाली वार्ता सा कापि त्वया नाभ्यधायि ॥ २४ ॥ १ 'संचय्र्यताम्'. २ 'उत्तरम्'. ३ 'गुर्वा'. ४ 'परिभ्रमता सवाञ्न'. ५ 'क्रान्त'.