नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 153, कुल 258 में से
संदर्भ में पढ़ेंपञ्चम उच्छ्वासः । १३३ एवमनयोरन्योन्यप्रेषितप्रच्छन्नदूतोक्तिवर्धितानुरागयोः च१लन्त्य- ङ्गानि न मनोरथाः, परिवर्तते चक्षुर्न हृदयम्, कृशतामेत्यङ्गयष्टिनो- त्कण्ठा, मन्दतां यात्युत्साहो नाभिलाषः, स्फारीभवति निःसहता न निद्रा, वर्धते चिन्ता न रतिः, शुष्यत्यधरपल्लवो नाग्रहरसः ॥ क ॥ किं बहुना । कर्पूराम्बुनिषेकभाजि सरसैरम्भोजिनीनां दलै- र्दो२स्तीर्णेऽपि विवर्तमानवपुषोः स्रस्तस्रजि स्र३स्तरे । मन्दोन्मेषदृशोः किमन्यदभवत्सा काप्यवस्था तयो४- र्यस्यां चन्दनचन्द्रचम्पकद५लश्रेण्यादि वहीयते ॥ २१ ॥ आसीच्च तयोः कृतान्योन्यगुणप्रशंसालापजपयोः पुनरुक्तावर्तित- नामधेयस्वाध्याययोः संकल्पसमागमविबद्ध६ध्यानयोः स्मरानले खं७ हृदयं जुह्वतोस्तप्यमानयोरङ्गीकृतमौनव्रतयोरपि वियोग एव, न८ योगः॥ख॥ कदाचित्तु तरुणजननयनकुरङ्गवागुरामनङ्गगजेन्द्रमदप्रवाहढक्का- मं९पहसितसुरासुरसुन्दरीरूपश्रियं शृङ्गाररस१०राजधानीमवलोक्य यौव- नावस्थां दमयन्त्याः ‘कोऽस्याः किलानुस्पः पतिर्भवेत्’ इति, चिरं चिन्ताकुलो विदर्भेश्वरः स्वयं स्वं११यंवरधर्मप्रारम्भाय समं मन्त्रिभिर्म- न्त्रनिश्चयं चकार ॥ ग ॥ न चिराच्च प्रा१२च्यप्रतीच्यादीच्यदाक्षिणात्यनरपतिनिम१३न्त्रणे समा- वृतान्प्रगल्भप्रौ१४यान्प्रधानप्रेष्यान्प्रेषयामास ॥ घ ॥ एवमिति ॥ तां दिशं प्रति चलन्त्यभिमुखीभूय निवर्तन्ते । एवं चक्षुरपि ॥ क ॥ आसीच्चेति ॥ कृतोऽन्योन्यगुणप्रशंसालाप एव जपो जाप्यं यकाभ्याम् । पुन- रावर्तितं नामैव स्वाध्यायो ययोः । संकल्पे चित्तकर्मणि यः समागमस्तत्राबद्धं ध्यानं यकाभ्याम् । कामाग्नौ स्वचेतो होमयतोः । तप्यमानयोः । मौनिनो- रप्यनयोर्वियोगो विरह एवासीत् । न योगः । योगः संबन्धोऽध्यात्मविषयश्च । अन्यस्य जपं स्वाध्यायं ध्यानं होमं तपो मौनं व्रतं च कुर्वतो योगलाभः स्यात् । तप्यमानेति संतापपक्षे कर्मकर्तरि, तपःपक्षे तु कर्तरि, तपेः कर्मविषयत्वात् ॥ ख ॥ १ ‘स्खलन्ति’; ‘वलन्ति’. २ ‘आकीर्णे’. ३ ‘प्रस्तरे’. ४ ‘द्वयोः’. ५ ‘वन’. ६ ‘अव- बद्ध’. ७ ‘स्वहृदयम्’. ८ ‘नियोगः’. ९ ‘उपहसित’. १० ‘रसराजराजधानी’. ११ ‘स्वयंवरकर्म’; ‘स्वयंवरधर्मकर्म’. १२ ‘प्राच्योदीच्यावाच्यदाक्षिणात्य’. १३ ‘निमन्त्रणाय’. १४ ‘प्रश्रयान्’. १२