नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 157, कुल 258 में से
संदर्भ में पढ़ेंतदायुष्मति, स्वामिसुते यथा मया तँत्कथाप्रश्नानुराग उपलक्षित- स्तथा निश्चितमँचिरादयमेष्यति' इत्यभिधाय स ब्राह्मणः स्वगृहैम- गात् ॥ क ॥ गते च तस्मिन्दमयन्ती 'श्लाघ्यः स कः कालः, धन्यः स कैतमो वासरः, सँलक्षणा सा का नाम वेला, यस्यामिदमिन्दुदर्शनेनेव कुमु- द्मसच्चक्षुस्तदालोकनेन कैम्प्यानन्दमनुभविष्यति, इति चिन्तयन्ती कान्यपि दिनानि कयाप्यवस्थया व्यनैषीत् ॥ ख ॥ अथ नलोऽप्याम्मन्त्रितस्तेन ब्राह्मणेन रणरणकेन च, प्रेरितो म- न्त्रिणा मदनेन च, परिवृतः सेनयोत्कण्ठया च, तत्कालमेव विदर्भ- मण्डलाभिमुखमुद्चलत् ॥ ग ॥ चलिते च चैतुरङ्गबैलचलनचूर्णितशिलोच्चयचक्रवाले चक्रिचक्रच- ङ्क्रमणचीत्कारबधिरितककुभि विषमवैरिवृन्दवनवैश्वानले नले, चल- न्तश्चटुलतरचरणप्रहाररणितधरणिमण्डलाः कान्तकाञ्चनरचनारोचि- ष्णवश्चकासांचक्रुश्चक्रवर्तिवाहनोचिताः साश्चर्यमपर्यन्तपर्यायाः पर्या- णितास्तुरङ्गाः, शृङ्गारिताश्च चलचारुचामरावेधूलनालंकृतकपोलभि- त्तिभागसंलॅगितभृङ्गसंगीतमुखरितमुखमण्डलाः कथमप्याधोरणनि- रुध्यमानशौर्यविकारस्फुरणाः स्फुरत्कुम्भभित्तिसिन्दूरा दूरापसा- रितस्यन्दनाः स्यन्दमानामन्दमदकर्दमितमेदिनीकाः कम्पयांबभूवुर्भुवं भूरिभारभुग्नाङ्गपन्नगशिरैः शिथिलावष्टम्भामिभेन्द्राः ॥ घ ॥ किंबहुना । तत्रावसरे पूर्वापरपयोराशिसिमासंक्रान्तसैनिके । तस्मिन्सस्मार भूर्भाराद्वराहवपुषो हरेः ॥ ३० ॥ अपिच । पूर्वेति ॥ पूर्वापरसागरावधिसंक्रान्तचमूचरे तस्मिन्नले भूर्मेदिनी भाराद्धेतो- र्हरेः सस्मार । 'अधीगर्थ-' इति सूत्रेण कर्मणि षष्ठी ॥ ३० ॥ १ 'त्वत्कथा'. २ 'अचिरादेष्यति'. ३ 'स्वगृहान्'. ४ 'कः'. ५ 'सुलक्षणा'. ६ 'कथमपि'. ७ 'चलच्चतुरङ्ग'. ८ 'बलचमूचलन'. ९ 'काञ्चनाभरणरचना'. १० 'धूनना'; 'चूला'. ११ 'संकलित'; 'संमिलितमदमिलित'; 'संग्रलितमदजललुलित'. १२ 'विस्फु- रणः'. १३ 'शिरःसहस्रैः'.