नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 156, कुल 258 में से
संदर्भ में पढ़ें१३६ नलचम्पूः । अनुभवतु चिराय चञ्चलाक्षी- रसपरिणामफलानि गोपपुत्री । अपसरति महोद्यमेन यस्याः कथमपि संप्रति नैषधेऽनुरागः' ॥ २८ ॥ आस्तां तावदन्यत् । अध्वन्य, कथय कुतः प्रष्टव्योऽसि, किंच कियद्धाद्यापि वर्त्मातिक्रमितव्यम्' इति ॥ क ॥ अथ कथितस्ववृत्तान्तेन मयापि 'कोऽयमशेषमनुष्यमस्तकमणिः, कश्च भवानपि स्वप्रज्ञाप्राग्भारपराङ्मुखीकृतपुरंदरगुरुः' इति पर्यन्वयु- क्तः स पुनरुक्तवान् ॥ ख ॥ 'अयमसो सौम्य, समस्तशर्स्त्राशास्त्रकोविदो विदारितवैरीवैरसेनि- र्नलैः । किमन्यदहमपि श्रुतशीलो नामास्यैवाज्ञाकारी, इत्यभिधाय विश्रान्तवान् ॥ ग ॥ नलोऽपि कृत्वा त्वदाश्रयास्तास्ताः प्रकटितप्रेमकन्दलाः कथाः, समर्थ्य चैं स्वयंवरआमन्त्रणमुत्सुकतया तत्कालमेवोड्डीर्य गन्तुमीहमानः संभाषितैन स्मितेनैर्नालोकितेन च माममृतवर्षेणेवाह्लादयन्ननिच्छन्तमपि प्रतिग्राह्य च वलादनर्घ्याणि स्वाङ्गाभरणानि चिराँदेव व्यसर्ज- यत् ॥ घ ॥ स्वयं च मृगयाव्यसनितया मृगयालुभिः सह ॥ ङ ॥ धीरं रङ्गन्तमारुह्य सारं रंहसि वाजिनम् । हारं रम्यं गले विभ्रत्स्वैरं रन्तुमगात्पुनः ॥ २९ ॥ अनुभवत्विति ॥ गोपालिका क्षीरस्य सपरिणामानि परिणतानि यानि फला- नि क्षैरेयीदधिघृतप्रभृतीनि तान्यनुभवतु चिराय । चञ्चला लोला गोचारणवशात् । यस्याः संप्रत्येष धेनुरागो । महोद्यमेन हेतुना । कथमपि केनापि प्रकारेण । न निवर्तते । श्लेषे तु गोपपुत्री भूपपुत्री दमयन्तीलक्षणा चञ्चलाक्षी लोलनेत्रा शृङ्गारादिरसपरिपाकफलान्यपभुङ्क्ताम् । यस्याः संप्रति नैषधे नले महोद्यमेऽनुरागः प्रेमबन्धः । कथमपि नापसरति ॥ २८ ॥ धीरमिति ॥ धीरमत्रासं रङ्गन्तं वलगन्तं रंहसि वेगे सारमुत्कृष्टं वाजिनमश्व- मारुह्य कण्ठे हारं गुणं बिभ्राणः स्वच्छन्दं क्रीडितुं पुनरप्यगात् ॥ २९ ॥ १ 'आस्तां च'. २ 'कियच्चाद्यापि'. ३ 'सौम्यः'. ४ 'शस्त्रास्त्रशास्त्र'. ५ 'नलो नाम'. ६ 'श्रुतशीलनाम'. ७ 'च स्वयं स्वयं'. ८ 'उड्डीयेवागन्तुम्'. ९ 'सस्मितेन'; 'कुत्रचित्पुस्तके स्मितेनेत्येतन्नास्ति'. १० 'अवलोकितेन'. ११ 'चिरादिव'.