नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 137, कुल 258 में से
संदर्भ में पढ़ेंक्ताफलक्षोदरङ्गावलीभिः प्राङ्गणानि, क्रियन्तां कुसुमप्रकरभाञ्जि च- त्वराणि, पूज्यन्तां द्विजन्मानो देवताश्च, दीयन्तां दानानि, गीयन्तां मङ्गलानि, विसृज्यन्तां वैरिबन्धः, मुच्यन्तां पक्षिणोऽपि पञ्जरेभ्यः' इति श्रूयमाणेषु परितः परिजनालापेषु लास्योन्मादिनि मृदुमङ्गलोद्गार- मुखरे संचरति पुरपथेपु पौरनारीजने स दिवसः संप्राप्तस्वर्गसुखस्येव भुक्ताशेषभुवनस्येवास्वादितामृतसस्येवानुभूतपरमानन्दस्येव राज्ञः कृतकृत्यतां मन्यमानस्यातिक्रान्तवान् ॥ क ॥ एवमतिक्रामत्सु केषुचिद्दिवसेषु, जरठीभूते महोत्सवव्यतिकरे, गत- वति यैथायथमामन्त्रितायाते समस्तसामन्तलोके, यौवराज्यरञ्जिते च परितः परिजने जनेश्वरॊ रिपुपयोधिबडवानलं नलर्मोवभाषे ॥ ख ॥ 'तात, किमपि ब्रूमो यदि न खिद्यसे । संप्रति प्रियं सख्यं श्रेयस्क- रमस्माकमैणम्, न त्रैणम् । आभरणाय योग्या जटाभाराः, न हाराः । साहाय्याय साधवो बुधाः, न बान्धवाः । शयनायोचिता कुशपूलिका, न तूलिका । क्रीडार्थे वरा वेगवन्तो निर्झरप्रवाहाः, न वाहाः । प्रार्थनी- याश्च हरप्रसादाः, न प्रासादाः ॥ ग ॥ तदायूष्मन्नेष दृष्टोऽस्यापृष्टोऽस्याश्लिष्टोऽसि क्षमितोऽसि दुरुक्तमुक्तः' इत्यभिधायोत्सङ्गमारोप्य च तत्कालगलद्बहुलबाष्पाम्बुप्लवप्लावित वक्ष- सि निधाय परिष्वज्य च पुनः पुनः पुलककोरकितभुजलताभ्यामन्त- र्मन्युभरनिरुध्यमानोत्तरमजस्रमास्रवद्दृक्शुक्तिकपोलमाविर्भवन्मोहमू- र्छान्धकारकुञ्चितलोचनमिममाघ्राय मूर्ध्नि वनाय वनितासहायः प्रतस्थे ॥ घ ॥ प्रस्थिते च तस्मिन्परिहृतराज्ये राजनि, रजनीवियुज्यमानचलच्च- क्रवाकीष्विव कृतकरुणाक्रन्दासु प्रजासु, प्रतिभवनमुच्चलितेषु जरत्पौ- रजनेषु, 'कल्याणिन्, एष पितृप्रणयप्रणामाञ्जलिरस्य क्रमागतकर्म- कारिणः श्रुतशीलस्य कृतापराधस्यापि त्वया सहनीयाः कतिपयेऽप्य- स्मदनुकम्पयाऽपराधाः । पश्यैय । पयोराशेर्नोद्वेगाय मृगाङ्कस्य मीलय- तातेति ॥ स्त्रीणामिदं त्रैणम् । 'स्त्रीपुंसाभ्यां नञ्स्नञौ' इति नञ् ॥ ग ॥ तदेति ॥ अन्तर्मध्ये मन्युभरेण दैन्यातिशयेन निरुद्ध्यमानमुत्तरं यस्य ॥ घ ॥ १ 'देवाश्च'. २ 'भुक्त'. ३ 'यथागतम्'. ४ 'बभाषे'. ५ 'संप्रति सख्यम्'. ६ 'आहरणाय योग्या नीवाराः'; 'नाहाराः'. ७ 'क्रीडार्हा'. ८ 'उक्तम्'. ९ 'लपिते च'. १० 'कोरकिताभ्याम्'. ११ 'आकुञ्चित'. १२ 'यतः'.