नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 136, कुल 258 में से
संदर्भ में पढ़ें११६ नलचम्पूः । 'याः स्कन्दस्य जगाद तारकजये देवः स्वयंभूः स्वयं स्वःसाम्राज्यमहोत्सवेऽपि च शचीकान्तस्य वाचस्पतिः । ताभिस्तेऽद्य विरञ्चिवक्त्रसरसीहंसीभिराशास्महे वैदर्भीवसुधाविवाहसमये मन्त्रोक्तिभिर्मङ्गलम् ॥ २७ ॥ अन्यदपि तत्र दिवसे ३सुभ्रु समाकर्ण्यतां यदद्भुतमभूत् ॥ क ॥ दिशः प्रसेदुः सुरभिर्ववौ मरु- द्दिवो निपेतुः सुरपुष्पवृष्टयः । कृताभिषेकस्य नलस्य निस्वना- ननाहता दुन्दुभयोऽपि चक्रिरे ॥ २८ ॥ अन्तरिक्षे च कोऽप्यदृश्यमान एवाशीःश्लोकद्वयमपठत् ॥ 'अहीनां मालिकां बिभ्रत्तथापीताम्बरं वपुः । हरो हरिश्च भूपेन्द्र करोतु तव मङ्गलम् ॥ २९ ॥ अपि च । लीलया मण्डलीकृत्य भुजंगान्धारयन्हरः । देयाद्देवो वराहश्च तुभ्यमभ्यधिकां श्रियम् ॥ ३० ॥ इत्याशास्य विश्रान्तायां वियद्वाचि स्थित्वा च किंचित्कृँतोचितापचि- तिषु गतेषु क्षणादन्तर्धानं मुनिषु 'समुच्छ्रीयन्तां वैजयन्त्यः, बध्यन्तां तोरणानि, सिच्यन्तां चन्दनाम्भोभिः पन्थानः, मण्ड्यन्तां मसृणमु- अहीति ॥ शिवोऽहीनां सर्पाणां स्रजं तथा तेन प्रकारेण इताम्बरं ताण्डवा- दिष्वतिततमूर्तित्वाद्ब्याप्ताकाशम् । अथ च पराचीनावस्थायां दिगम्बरत्वादित्ता- म्बरं गतवस्त्रम् । यदिवा आ समन्तातपीतं प्रस्तमतिवितततया छन्नमम्बरमाकाशं येन । तथाविधं वपुर्नित्यं बिभ्रत् । हरिश्च विष्णुर्वनमालीति ख्यातत्वात् । अहीनां पूर्णामेव मालिकाम् । तथा पीताम्बरं हारिद्रवसनं वपुर्बिभ्रत् । राजेन्द्र, तवं मङ्गलं करोत्वित्यर्थः । न केवलं व्याप्तपृथ्वीकम् । इताम्बरमपीत्यपिशव्दार्थः । अष्ट- मूर्तिर्हि भगवान् । यदाह मल्हणः 'उर्वींसमीरयजमानजलानलार्कसोमाम्बरादिभिः' इति ॥ २९ ॥ लीलयेति ॥ लीलयावज्ञया भुजंगान्सर्पान् मण्डलीकृत्य हरः । भुजं मण्डली- कृत्य गां वसुधां धारयन् वराहश्च तुभ्यं समधिकां श्रियं देयात् । अत्र वराह इति नरवराहमूर्तिर्नरसंसहवद्भुजमण्डलीकरणानुरोधाज्ज्ञेयः ॥ ३० ॥ १ 'ताभिस्तस्य'. २ 'विरिंच'. ३ 'शुभम'. ४ 'च तस्य'. ५ 'भूपाल'. ६ 'प्रकृ- तोचितोपचितेषु'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA