नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 135, कुल 258 में से
संदर्भ में पढ़ेंचतुर्थ उच्छ्वासः। १९५ इतश्च तदेतत्पुण्यानां परममवधिं प्राप्तमुदधेः पयः प्रक्षाल्याङ्घ्री^१ शयनसमये शार्ङ्गधनुषः। विहारायोन्मज्जत्तरुणवनितावृन्दवदनैः क्षणं य॑^२त्रोत्फुल्लन्नवकमलखण्डश्रियमधात् ॥ २६ ॥ राजा तु तत्कालमुन्मीलद्बहलपुलकाङ्कुरकोरकितदेहः किमप्यद्भुत- रसेनावेशित इव विधूय शिरो॑^४श्चिन्तयांचकार ॥ क ॥ '५नूनमयमस्मद्गृहे हरिहरब्रह्माणाम॑^६न्यतमः कोऽप्यवतीर्णो भविष्यति। यतः। कार्यं^३ शिक्षाक्रमंः^७, केयम्^३स्माकमाकस्मिकी यूनोऽस्या^८भिषेकाय बुद्धिः, क॑^९ चानुकूलकालसंपत्तिः, क चामी समस्ताभिषेकोपकरणपा- णयो महामुनयः ॥ ख ॥ सर्वथा नमोऽस्तु घटितदुर्घटाय वेधसे। यस्यायमेवमद्भुतो व्यापारः' इत्यवधारयन्नुत्थाय गृहीत्वा तानि तीर्थोदकानि कृत्वा कनककुम्भेषु तात्कालिकास्फालितमृदङ्गझल्लरीरवभरसोल्ला॑^१०स्यविलासिनीवृन्दैरानन्द्य- मानो मङ्गलोद्गारमुखरपरिजनपरिवृतः सह सालङ्कायनेन 'सहस्रं समास्तात एवानुपालयतु राज्यम्' इत्यभिधानमनिच्छन्तमपि नलं बलान्निवेश्याभिषेकपट्टे स्वयमेवाभिषेकमकरोत् ॥ ग ॥ परिधाप्य च मङ्गलाभरणवाससी सिंहासनमारोप्य पुत्रप्रेम्णा पुरः स्थित्वा कनकदण्डपाणिः क्षणं प्रातिहार्यमन्वतिष्ठत् ॥ घ ॥ सालङ्कायनोऽप्यतिस्नेहेनास्योपरि लम्बितमुक्ताकलापमास्रवत्सुधा- धारे॑^११मिन्दुमण्डलमिव कनकदण्डमापाण्डुरमातपत्रमधारयत् ॥ ङ ॥ सौ^१२मन्तचक्रं च चलच्चामीकरचारुचामरकलापव्यापृतकरपल्लवम- स्याग्रे विनय्मदर्शयत् ॥ च ॥ मुनयोऽप्युच्चारयांचक्रुश्चतुर्वेदप्रशस्तमन्त्रान् । उत्थाय च गृहीत्वा- क्षताञ्शिरसि विकिरन्तोऽस्य पुनरिदमवोचन् ॥ छ ॥ सर्वथेति ॥ घटितं योजितं दुर्घटं शिक्षाप्रकमादिलक्षणं येन तस्मै वेधसे नमः ॥ ग ॥ १ 'अङ्गीन्'. २ 'यत्रोत्फुल्लन्न'. ३ 'कायः.'. ४ 'शिरश्चिरं चिन्त'. ५ 'नूनमस्मत्'. ६ 'एकतमः'. ७ 'प्रक्रमः' ८ 'यूनोऽप्यस्य'. ९ 'क चाविलम्बितानुकूल'. १० 'उल्ला- सि'. ११ 'धारं कनकगिरिशिखरस्थितमिन्दुः'. १२ 'सकलसामन्तचक्रम्'.