भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 131, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 131

चतुर्थ उच्छ्वासः। १११ मा च वृद्धिं प्राप्य गुणेषु द्वेषं¹ कार्षीः । व्याकरणे हि वृद्धिर्गुणं बाधते, न सत्पुरुषेषु ॥ क ॥ वत्स मा चैवं चेतसि कृथाश्छान्दसोऽयम् । छान्दसश्च गुरुर्वक्र- स्वभाव एव भवति तत्किमानेनेति यस्माच्चतुरानन्दिपदः पुण्यश्लोको भवान् । अतोऽङ्गभावं यान्ति ते वक्रोक्तयोऽपि गुरवः । सरलतया लघवोऽप्यन्तरङ्गा भवन्ति । किंतु ते ह्यवसाने कुटिलतामपि दर्शय- न्ति ॥ ख ॥ तत्किं बहुना । तथा भव यथा तात त्रैलोक्योदरदर्पणे । विशेषैर्भूषितस्तैस्तैर्नित्यमात्मानमीक्षसे ॥ १७ ॥ किं चान्यत् । बिभर्ति यो ह्यर्जुनवारि पौरुषं करोति नम्रे च न वा रिपौ रुपम् । न तेन राज्ञा सहसागराजिता भवेन्मही किं सहसागरा जिता १८ मा चेति ॥ वृद्धिं राज्यादिसमृद्धिम् । गुणेषु पाण्डित्यादिषु । हि यस्माद्गुणबा- धिका वृद्धिरिति वैयाकरणसमयः ॥ क ॥ इदानीं शिक्षामभिधायात्मनोपदिष्टे आदरपरं कुमारं कुर्वन्मृदुवचोभिः प्रोत्साह- यन्नाह—वत्सेत्यादि ॥ छन्दो वेदः छन्दःशास्त्रं च । गुरुस्त्वोपदेष्टा छन्दोह- ष्टलघुद्वितीय आकारादिश्च । यस्मात्कारणाद्भवान्पुण्यश्लोकः पवित्रयशाः । तथा चतु- रानन्दयति । तथाविधं पदं राज्यलक्षणं यस्य । अतो वक्रवचसोऽपि गुरवः । तेन च अङ्ग तव भावं भावनां यान्ति । त्वयि भावितात्मानो भवन्तीत्यर्थः । अ- ङ्गेति कोमलामन्त्रणे । सरलतया एकमार्गतया लघवो लघुवृत्ता अप्यन्तरङ्गाश्चेतो- भिग्रेताः स्युः । परं तेऽन्ते कौटिल्यमपि प्रकाशयन्ति । अथ च पुण्यः श्रेयान् श्लोकः पद्यम् । तदा चत्वारि आनन्दीनि पदानि पादा यस्य ते प्रसिद्धा गुरवो वक्राकृतयोऽङ्गभावमवयवत्वं यान्ति । श्लोकस्येति शेषः । सरलतया ऋजुतया लघवो लेखाकृतयोऽन्तरङ्गा मध्यगताः स्युः । परमन्ते पादान्ते कुटिला अपि स्युः। 'वा पादान्ते लसौ ग्वक्र' इति वचनात् ॥ ख ॥ तथेति ॥ तातेति कोमलामन्त्रणे । तथा तेन प्रकारेण भव यथा तैस्तैरस्म- दुपदिष्टैः प्रजात्राणादिभिर्विशेषैरुपलक्षितमात्मानं भुव्युषितः पृथिवीस्थित एव त्रैलो- क्यमेव योऽसौ दर्पणस्तत्र नित्यमविनश्वरं पश्यसि । अन्योऽपि तैस्तैराकल्पविशेषै- र्मण्डितमात्मानं दर्पणे पश्यतीति । यशोऽर्थमेव प्रयतितव्यमिति भावः ॥ १७ ॥ बिभर्तीति ॥ अर्जुनमेव वृणोत्याच्छादयति वारयति वेत्येवंशीलं निजप्रकर्षेण १ 'प्रद्वेषम्'. २ 'सत्पुरुषे'. ३ 'सरलतया युक्ताः'. ४ 'अवमाने'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA