नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 130, कुल 258 में से
संदर्भ में पढ़ेंतदेताः कंदर्पकण्डूक्षणविनोदमात्रोपकारिण्यो नात्यन्तविश्वास- योग्याः सर्वथा विश्वस्तं विश्वासमेव नरं कुर्वन्ति स्त्रियः ॥ क ॥ श्रियोऽपि दानोपभोगाभ्यामुपयोगं नयेत् । न लोभं कुर्यात् बहुलोभानुगतः किरणकलापोऽपि संतापयति जनम् ॥ ख ॥ अतः पुत्र, प्राप्स्यसि नचिरात्निजकुलकमलराजहंसीं राज्यश्रियम् ॥ अनवरतं कृतयशोदानन्देहि नारायण इव त्वयि चिरं रंस्यते खल्वियं लक्ष्मीः ॥ ग ॥ पाहि प्रजाः ॥ प्रजापो ब्राह्मण इव क्षत्रियोऽपि न लिप्यते पोतकैः ॥ घ ॥ गावो विशेषेण चारिता दत्तास्वादवृत्तणकवलाः । तथा शृङ्गस्यारमग्रं प्रधानं यासु । तास्तथोक्ताः । तथा सरसाः सदुग्धाः । स्त्रियस्तु शृङ्गारो मण्डनं प्रधानं यासाम् । विचारिताः स्तृणन्तिं दुःशीलाः सत्यो गुणगणं छादयन्तीति तत्त्वतो विमृष्टाः सत्यो न सरसाः । किंतु वैराग्यहेतवः ॥ ख ॥ तदेता इति ॥ तत्तस्माद्धेतोरेताः स्त्रियो नात्यन्तं विश्रम्भाः । कियदेवे- त्यर्थः । तत्र हेतुमाह—कंदर्पेत्यादि । सर्वथा विश्वन्धं नरं स्त्रियो विगतश्वासमिव कुर्वन्ति । तत् साध्योऽपि नात्यन्तं विश्रम्भाः । तथाच चाणक्यः—'अन्तर्गृ- हगतः स्थविरस्त्री-परिशुद्धां देवीं पश्येत् । अपरिशुद्धां न कांचिदभिगच्छेत्' । श्रूयते हि—'देवीगृहगतो भ्राता भद्रसेनं जघान मातुः शय्यान्तर्गतश्च पुत्रः कारूपम्' इत्यादि ॥ क ॥ स्त्रीणां दोषान्कण्डूविनोदमात्रफलं चाभिधाय संप्रति स्त्रीणां फलमाह— श्रि- योऽपीत्यादि ॥ लोभे दूषणमाह—वहिति । बहुना लोभेनानुगतः । करौघस्तु । बहुलः प्राज्यः । तथा भानुं रविं गतो भानवीय इत्यर्थः ॥ ख ॥ यदि लोभवता मया संतप्यते जनस्तत्किमित्याशङ्कयाह—अत इति ॥ अत एतस्माज्जनाच्छ्रियमाप्स्यसि । जनानुरागप्रभवा हि संपदः । अथवा एतस्मात्पूर्वो- क्तादस्मदुपदेशात् । प्राप्य च श्रियं निरन्तरं कृतं यशो येन तद्वानं देहि धर्मादि- पात्रेषु श्रियं नियुङ्क्ष्वेति भावः । खलु निश्चितमियं लक्ष्मीः पात्रेषु व्यवकलयति त्वयि विष्ण्वाविव बहुकालं सहर्षं स्थास्यति । विष्णौ कीदृशि । कृतो यशोदाख्याया जनन्या आनन्दो येन तस्मिन् । हि स्फुटम् ॥ ग ॥ बलादपि प्रजाभ्यो वित्तमादाय पात्रेषु मयोपकरणीयमिति मा कृथा हृदि तदाह—पाहीति ॥ पालय प्रजाः । यस्मात्प्रजां पाति यः क्षत्रियः स न पापी। ब्राह्मणस्तु प्रकृष्टो जपो यस्य स प्रजापः । जपनं जापः ॥ घ ॥ १ 'श्रियः स्त्रियोऽपि'. २ 'दानोप'. ३ 'पापैः'.